________________
११५ न्यायविनिश्चयविवरणे
[२२८९ नाक्षसङ्घातः' इत्यादेरर्थस्य तैर्व्याख्यानात् । तस्माद्बुद्धिरियं पुरुषस्यैव स्वभावो न पृथिव्यादेः । चार्वाकस्तत्स्वभावत्वे दूषणमाह
बुद्धः पुरुषतन्त्रत्वे नित्यत्वात्तदनुक्रिया ।
[न भवेस्परिणामिस्वाद्विनाशानुपलक्षणात् ] ॥८९॥ इति । बुद्धेरवग्रहादिज्ञानस्य, पुरुष आत्मा तन्त्रं प्रधानं यस्यास्तस्या भावः पुरुषतन्त्रत्वम् । "गुणस्त्वते" [ शाकटा० २।२।४५ ] इति पुम्भावः, यस्य वा इत्यन्यपदार्थसामान्येन व्युत्पाद्य पुनर्भावप्रत्ययान्तस्य बुद्धरित्यनेन सम्बन्धः, तस्मिन् पुरुषतन्त्रत्वे बोद्धा पुरुष इति तद्विशेषणत्वे सति तदनुक्रिया तेषां बुद्धिकार्याणाम् अनु क्रमेण क्रिया करणं न भवेत् एकदैव स्यात् । कुतः !
नित्यत्वात् । बुद्धेरिति सम्बन्धः । एवं मन्यते बुद्धरात्मस्वभावत्वमभ्युपगन्तव्यम् तत्तन्त्रत्वात्', १० भेदे तदनुपपत्तेः । समवाया देऽपि तदुपपत्तिरिति चेत; नः सत्यपि तस्मिन् 'तत्र बुद्धिः' इत्येव स्यात् तस्य इहेदम्प्रत्ययहेतुत्वात्, न तु ‘स बोद्धा' इत्यविष्वग्भावस्यावगमः । सोऽपि तत एव नाविष्वग्भावादिति चेत्, बुद्धिस्वरूपेऽपि तर्हि तत एव तदवगम इति नैका बुद्धिर्भवेदित्यनुपपन्नमिदम्-"युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" [ न्यायसू०१।१।१६ ] इति युगपदेव तदुत्पत्तैरेवं
सम्भवात् ? बाधकाभावान्न तत्रायं प्रसङ्ग इति चेत्, न; इतरत्रापि तुल्यत्वात् । न हि पुरुषबुद्धयोर१५ प्यविष्वग्भावे बाधकमुत्पश्यामः । पुरुषस्य बुद्धिरिति भेदप्रत्ययो बाधक इति चेत्, न तस्य प्रत्यक्षरूपस्याभावात्, कल्पनारूपस्य चावस्तुविषयत्वात, बुद्धापार इत्यपि तद्भावात् । तन्न भेदे तस्यास्तन्त्रत्वमित्यभेद एवाभ्युपगन्तव्यः । तत्र च पुरुषवत् बुद्धरपि नित्यत्वात् न तत्कार्याणां क्रमः तत्करणस्वभावायास्तस्या अक्रमात् । ततो भिन्न एव परापरस्तत्करणस्वभाव इति चेत्,
कथमसौ तस्याः ? तत्र समवायाच्चेत्, न, तन्निषेधात् । तत्कार्यत्वाच्चेत्, न, तस्य अक्रमायास्ततोऽ२० नुत्पत्तेः । तस्याप्यपरतस्तत्स्वभावात् उत्पत्तिकल्पनायामनवस्थादोषात् । तत एव कार्योत्पत्तौ अव्य
वस्थाश्च बुद्धिः प्राप्नुयात् । ततो बुद्धेरेव तदुत्पत्तिरिति परापरतत्कार्याणां युगपदेव प्रादुर्भावण भवितव्यं तथा च कथं तस्याः संसारः ? परापरदेहेन्द्रियादिसञ्चारे सत्येव तदुपपत्तेरिति । युगपच्च कार्योत्पत्तौ अवस्तुत्वं च तस्याः पश्चादाप्नोति निर्व्यापारत्वात् व्योमकुसुमादिवत् । तदेवाह-तदनु तदनुत्पत्त्यनन्तरं क्रिया व्यापारो न बुद्धरिति । एतच्च समानश्रुतिकत्वादेकोच्चारणगम्यमन्यदेव वाक्यम् । २५ तथा च यतः सर्वकार्याणां युगपदुत्पादः ततस्तदनन्तरं क्रिया नेति पूर्वोत्तरयोस्तदर्थयोर्हेतुहेतुमद्भावः
प्रतिपन्नो भवति । एवं चार्वाकोक्तमिति चेत् इत्याशङ्कय समाधानमाह-'परिणामित्वात्' इति । अत्र नेत्यनुवृत्तम् । तदयमर्थः-यदुक्तं नित्यत्वादिति, तन्नः कुतः ? परिणामित्वात् पूर्वाकारपरित्यागाजहद्वृत्तोत्तराकार
१-दभेदे चतदनु-आ., ब०, प० । २ समवायादेव । ३ बुद्धिस्वरूपस्य बुद्धरविष्वग्भावावगमार्थम् इहेदम्प्रत्ययमलकसमवायबुद्धिरन्वेष्या इत्यनेकत्वं बुधेः। ४ बुद्धिस्वरूपे । ५-नुपपत्ते: आ०, ब०, प०। ६- परतत्स्व- आ०, ब०, प० । ७ -तौ व्यवस्था च श्रा०, ब०, प०। ८ तदुपपत्तेरिति श्रा०, ब०, प० ।