________________
२।८९ ]
२ अनुमानप्रस्तावः
११५
गमनवत्त्वाद् बुद्धेरिति । न हि बुद्धेरन्यस्य वा तदभावे वस्तुत्वम् । अर्थक्रियया हि वस्तुत्वम् । न च नित्ये तत्क्रिया; युगपत्तद्भावे पश्चादवस्तुत्वस्योक्तत्वात् । अक्रमाच्च ततः क्रमतस्तदयोगात् । युज्यत एव ततोऽपि तत्क्रमः सहकारिक्रमादिति चेत्; कथं पुनस्तत्क्रमाद्भवन् ततोऽपीति । न ह्यन्यतो भवस्तदन्यस्मादर्पि; अतिप्रसङ्गात् । तत्क्रमस्यापि नित्यसहितस्यैव तत्र व्यापारादिति चेत्; तर्हि तदैक्रमादक्रमः सहकारिक्रमाच्च क्रम इत्यागतं तत्क्रियायां काचपच्यम् । सहकारिक्रमानुकूल्येनैव नित्यस्य तत्र व्यापारो ५ न स्वकीयक्रमानुकूल्येन ततोऽयमदोष इति चेत्; नेदानीं तस्य तत्कारणत्वं स्वभावानुकूल्येन प्रवृत्तावेव तदुपपत्तेः, अन्यथातिप्रसङ्गात् । किञ्च तस्य तदानुकूल्यं यदि तत्क्रमात् प्रागपि कुतो न कार्यम् ? तत्क्रमस्याऽभावादिति चेत्; व्याहतमेतत् - स च नास्ति तदानुकूल्यं च तस्यास्तीति, आनुकूल्यस्य आनुकूलयितव्ये सत्येवोपपत्तेः । तत्क्रमकाल एव तदपीति चेत्; कथं नित्यस्य नित्यत्वम् ? तत्स्वभावकादाचित्कत्वे तदनुपपत्तेः । स्वभावोऽपि तंत्तस्य न भवति भिन्नत्वादिति चेत्, कथं १० तेन नित्यमेव तत्क्रममनुकूलयति न सहकारी तदक्रमम् । नित्य एव तस्य सम्बन्धादिति चेत्; न; अनुत्पन्नस्य तदयोगात् । उत्पत्तिश्च यदि नित्यादेव; कथं तस्यापि क्रमः ? सहकारिक्रमादिति चेत्; न; तत्रापि अपरानुकूल्यकल्पनायाम् अनवस्थापत्तेः । अन्यतस्तु उत्पत्तौ न हि तन्नित्यस्य । समवायस्यापि तदुत्पन्नस्यैव तत्रोपपत्तेः । तन्न तदानुकूल्येन तस्य प्रवृत्तिरिति न निवृत्तिः काचपच्यात् ।
१०
एतेन सामग्री कारणमिति प्रत्युक्तम् ; तस्या अपि नित्यतत्सहकारिकारणव्यतिरेकेणा - १५ भावात् । भावे वा तत एव तदुत्पत्तेः कथं नित्यस्य तत्सचिवस्य वा वस्तुत्वम् ? तस्या अपि सहिताया एव तत्र व्यापारादिति चेत्; अनिवृत्तकाचपच्यैव पुनरपि तदुत्पत्तिर्भवेत् । अपि च, सामग्र्या अपि न नित्यत्वम्, तस्याः स्वतः परापेक्षतया च हेतुत्वे पूर्ववत् प्रसङ्गात् । सामग्रीतत्सचिवेष्वपि सामग्र्यन्तरपरिकल्पनायाम् अव्यवस्थितेश्च । अनित्यैव सा, नित्याच्च सहायवत् उत्पद्यते इति चेत्; न ततः सामग्र्यन्तरव्यवहितात् ; अनवस्थाप्रसङ्गात् । तदव्यवहिताच्चेत्; व्यथैव सामग्री ततस्तद्व- २० दर्थक्रियाया एवोत्पत्तेः । तन्न नित्यत्वे तत्क्रमः । परिणामित्वे तु भवति परापरस्य तत्स्वभावस्य तद्धेतोस्तत्र भावात्, सहकारि प्रतीक्षायाश्च तत्कृतोषकारस्वीकारित्वेनाविरोधात् । नित्यत्वे तु न तथा तत्प्रतीक्षणं तद्व्याघातात् । इत्युपपन्नमुक्तम् ' परिणामित्वात्' इति ।
अत्राह - २५
नित्यत्ववत् परिणामित्वमपि न सम्भवति भावेषु, तस्य संशयादिदोषप्रसङ्गनिगलितसकलाङ्गत्वात्, तत एकान्तभङ्गुरत्वमेव तत्रागीकर्तव्यमिति चेत् ; 'विनाशानुपलक्षणात्' इति । विनाशो बुद्धेर्निरन्वयो विच्छेदः तस्योपलक्षणं निर्णयः तदभावात् परिणामित्वम्, “ततश्च नित्यत्वमित्यनुगमः । न खलु तदस्ति प्रमाणं यतस्तस्योषलक्षणम् ।
११
१ हि तन्नच आ०, ब०, प० । २ नित्यात् । ततस्तदयो-आ०, ब०, प० । ३ सहकारिक्रमाद्भवन् । ४- स्मादतित्र- आ०, प० । ५ सहकारिक्रमस्यापि । ६ नित्यवस्तुनोऽक्रमात् । ७ नित्यस्य । ८ नित्यत्वानुपपत्तेः । ९ तद्गतस्तस्य आ०, ब०, प० । १० नित्यसहितायाः । ११ ततश्च न नि- ता० ।