________________
११६
न्यायविनिश्चयविवरणे
[२८९ प्रत्यक्षमस्तीति चेत् ; कथं समारोपः ? उपलक्षिते तदयोगात् नीलादिवत् । मा भूदिति चेत् ; कथं संसारः तस्य सत्त्वदृष्टिनिबन्धत्वात्, तदृष्टश्च आरोपरूपत्वात् । सोऽपि माभूदिति चेत् ; व्यर्थ- . स्तर्हि मुमुक्षणां प्रयासः तस्य तन्निवर्त्तनार्थत्वात्, "मिथ्याध्यारोपहानार्थ यत्नोऽसत्यपि मोक्तरि" [प्र. वा० १।१९४ ] इति वचनात् । प्रयासोऽपि नास्त्येव, वस्तुतः सकलप्रयासविकल५ स्याद्वैतसंवेदनस्यैव भावादिति चेत् ; न; तस्य क्षणिकत्वे क्षणान्तरापेक्षणस्यावश्यम्भावात् अद्वैत
रूपत्वानुषपत्तेः, अक्षणिकत्वस्य चानभ्युपगमात् । न क्षणान्तरव्यावृत्त्या तस्य क्षणिकत्वं यतस्तदपेक्षणम् अपि तु स्वत एवेति चेत् ; न; नित्यत्वमपि स्वत एव न तदन्तरानुवृत्त्येतिप्रसङ्गात् । स्वतः स्वयमेव भवति न नित्यत्वमिति चेत् ; क्षेणिकत्वमपि न भवेत् । न भवत्येव, क्षणिकाक्षणिकादिसकलविकल्पजालबालविलासावलेपनानुष्कलितरूपत्वात्तस्येति चेत् । तिष्ठतु तर्हि भवान् , क्षणभङ्गवादिनाऽस्माकमिदानी विवादप्रवृत्तेः । तस्य च प्रत्यक्षतस्तदुपलक्षणे प्रक्रान्तदोषानप्रक्रमात् । मा भूत् ततस्तयोपलक्षणं ग्रहणं तु भवत्येव निर्णयविकलमिति चेत् ; न; तस्यापि सत्त्वग्रहणवदनुपलक्षितस्याभावात् । उपलक्ष्यत एव तद्विचारादिति चेत्,
विचारात् तद्विनाशस्य यदि नास्ति प्रवेदनम् । प्रत्यक्षात्तद्गहस्तेन कथं नामावगम्यताम् ? ॥ १४२६ ॥ विषये हि गृहीते तद्विषयिग्रहणं भवेत् । सम्बन्धग्रहणं यद्वत् सति सम्बन्धवद्हे ॥ १४२७ ॥ ग्रहणे तेन तस्यापि कथन्नास्त्युपलक्षणम् । निर्णयात्मा विचारो यद्भवतोऽपि प्रसिद्धिमान् ॥ १४२८ ॥ तथा सति समारोपः कथं तत्रोपजायताम् । नास्त्येव चेन्न दृष्टत्वाद्विचारमपि कुर्वतः ॥ १४२९ ॥ अन्यथा स्वकलत्रादौ कथं तस्य प्रवर्तनम् । आत्मात्मीयग्रहादेव यतस्तत्परिदृश्यते ॥ १४३० ॥ आहार्यस्तस्य नास्त्येव समारोपो विचारिणः । ततस्तु सहजादेव संसारे तस्य चेष्टितम् ॥ १४३१ ॥ "निर्णयारोपमनसोर्बाध्यबाधकभावतः । अभ्यासोपचितादेव तस्य नाशस्ततो यदि ॥ १४३२ ॥ अनभ्यासे कथं तस्य निर्णयात्मत्वमुच्यताम् । तद्विनाशस्वभावोऽयं निर्णयो लोकसम्मतः ।। १४३३ ॥
१ क्षणान्तरानुवृत्त्या । २ क्षणिकमपि आ०, ब०, प० । ३- नुपकल्पित- आ०, ब०, प० । ४ प्रत्यक्षतः । ५ द्रष्टव्यम्-प्र० वा० ३४८ ।