________________
२।९०]
२ अनुमानप्रस्तावः, प्रानिर्णयोऽपि मा भूच्चेत् , हन्त तेन कथं भवान् । विनाशं तत्र चाध्यक्षं निश्चिन्वीत प्रवृत्तिमत् ॥ १४३४ ॥
निश्चाययेद् वा तं सभ्यान् वादोऽयं न निगृह्यताम् । तन्न प्रत्यक्षतस्तस्य ग्रहणमुपपन्नम् उपलक्षणवत् । अनुमानोत्तु तदुपलक्षणं दुरुपपादम् ; प्रत्यक्षाभावे तत एव लिङ्गलिङ्गिसम्बन्धस्याऽप्रतिपत्तेः । अन्यानुमानतः प्रतिपत्तौ अनवस्थानस्यो- ५ पकल्पनात् । कश्चासौ विनाशो यस्य कुतश्चिदुपलक्षणम् ? क्षणावस्थानमिति चेत् , न; तस्यानवधृतस्य नित्ये ऽप्यविरोधात् । क्षण एव स्थानमित्यवधृतमेव तदिति चेत् ; तर्हि सामर्थ्यात् क्षणान्तरे तस्यास्थानं विनाश इति प्राप्तम् । एवमिति चेत् ; तदपि यदि तुच्छम् ; उपपन्नमुक्तम्-'विनाशानुपलक्षणात्' इति, तुच्छे तत्र प्रत्यक्षादेः प्रतिबन्धाभावेनाप्रवृत्तेः । वस्तुनश्च तस्मात् अनन्यत्वे कथं क्षण एव स्थानं तदन्तरेऽपि तद्भावात् । अन्यत्वं चेत् ; कुत एतत् ? तस्य क्षण एव स्थानादिति चेत्, न; तत्रापि १० क्षणान्तरभाविनोऽस्थानस्य अर्थादापत्तेः पूर्वप्रसङ्गानतिक्रमात्, अनवस्थोपनिपाताच्च ।
एतेन अतुच्छं तदित्यपि प्रत्युक्तम् , तुल्यदोषत्वात् । अथ न किञ्चित्तस्य क्षणान्तरे भवति, "न तस्य किश्चिद्भवति न भवत्येव केवलम्" [प्र० वा० ३।२७७ ] इति वचनादिति चेत् ; किमिदानीमवधारणेन ? व्यवच्छेदस्य तत्फलस्याभावात् । अस्त्येवायम् , ने तु क्षणान्तरे, प्रागेव भावादिति चेत् , नेदानीमसौ कस्यचिदपि स्यात् । तथा हि- न तावत्तदन्तरस्थितेः; तदानीमभावात् । १५ न ह्यन्यकाल: स तस्या इत्युपपन्नम् , अन्यथा घटगतेनैवाभावेन तदन्यदेशस्य सर्वस्याप्यभाव इति भावनै राम्यप्रसङ्गात् ? नाषि प्रांच्यक्षणस्थितेः; स्वयं तदुपगमादिति व्यर्थमेवावधारणम् । अतः पश्चादेवासौ वक्तव्यो 'न भवत्येव : केवलम्' इत्यस्यापि तथैवोपपत्तेः । न हि तत् तत्क्षणापेक्षमेव तन्नीरूपत्वप्रसङ्गादिति नोपक्रान्तप्रसङ्गादि (द) तिक्रमः परस्य । भवतोऽपि कः पुनरसौ विनाश इति चेत् ? न कश्चित्, निश्चितनिःश्रेयसमार्गस्य तदनुपपत्तेः । भवत एव तु मिथ्यादृष्टेः प्रतिक्षणविनाशः २० समुपस्थायिवस्तुविनाशः पर्यनुयुज्यत इति चेत् , सोऽपि न कश्चिदन्यत्रान्यथाभावात् । निरूपयिष्यते चैतत् नातिदूरतः । इति सूक्तम्-'परिणामित्वात् विनाशानुपलक्षणात्' इति । तदपि कथम् ! विरोधादिति चेत् ; न प्रतीतेः । न हि प्रतीतमन्यथाभवत्यतिप्रसङ्गात् । व्यवहारस्य च प्रवृत्तिप्राप्त्यादेः तत्रैव सम्भवात् । ... --- .....
अत्यन्तविनाशेऽपि सन्तानापेक्षया तत्सम्भवं मन्यमानस्य मतमाशङ्कते
परस्याप्यविरोधश्चेत् फलहेतुव्यपोहतः। प्रवृतव्यवहाराणाम् [ अविनाशेऽपि सम्भवात् ] ॥९० ॥ इति ।
१-मानात्तद-ता०।२ -तरनुमा-ता०।३- तमेतदि-आ०, ब०, प०४ अन्यदन्यत्वे आ०, ब०, प०। ५ अनन्यत्वं आ०, ब०, प० । ६ ननु क्ष- आ०, ब०, प० । ७-दितिक्रमः परस्य आ०, ब०, प०। ८ पुनरस्यावि- श्रा०, ब०, प०। (-श्चिते नि- आ०, ब०, प० । १० मिथ्यादृष्टयनुपपत्तेः ।