________________
११८
न्यायविनिश्चयविवरणे
[ २९१ अपि इति परामर्शाभिमुख्ये । परस्य सौगतस्य सम्बन्धिनां व्यवहाराणां पानभोजनादीनामविरोधो विरोधाभावः । कुतः ? फलञ्च हेतुश्च फलहेतू , हेतुशब्दस्य घ्यन्त्यत्वेऽपि न पूर्वनिपातः, स्वल्पे “लक्षणहेत्वोः" [ पाणिनि०३।२।१२६ ] इति प्रयोगदर्शनात् । तयो
यंपोहः तदहेतुफलव्यावृत्तिपरिकल्पितः सन्तानस्तत्कल्पिते तव्यपदेशात्ततः तमाश्रित्य प्रवृत्तेः पानादिहेतुषु लोकस्य प्रवर्तनात् । यावत्ततः तावत्तात्त्विकादिव हेतुफलतादात्म्यात् किन्न प्रवृत्तिरिति चेत् ? अत्रापि इदमेव कृतानुवृत्तिकमुत्तरम्-‘फलहेतु' इत्यादि । अयमर्थः-फलहेत्वोळपोहः परस्परात्मन्यभावस्ततः प्रवृत्तः अन्यथा तदयोगात् । तथा हि-यदि हेतौ च फलम् : न प्रवृत्तिः, तद्वत्तस्यापि दर्शनात्, प्रवृत्तेश्च तदर्थत्वात्, दृष्टेऽपि प्रवृत्तौ अनवस्थानात् । फले ऽपि यदि हेतुः,
कथं प्रवृत्तिः ? फलवत्तस्याप्यनुपलम्भात्, तदुपलब्धावेव तदुपपत्तेः, आकाशचर्वणस्य प्राकृतेष्वप्य१० प्रतिवेदनात् । ततः प्रवृत्तेर्हेतुफलयोरन्योऽन्यात्मन्यभाव एव । तथापि कथमन्यदर्शनादन्यार्थितया
प्रवृत्तिरिति चेत् ? न; सन्तानादिति दत्तोत्तरत्वात् । ततोऽपि कथं भेदाविशेषादिति चेत् ? न; दृष्टत्वात् । दृष्टा हि लोकस्याभेदकल्पनायां प्रवृत्तिरिति । 'चेत्' इत्याशक्य परिहरन्नाह'अविनाशेऽपि सम्भवात' इति । अत्र सिंहावलोकितेन वक्ष्यमाणस्य नञः सम्बन्धः ।
ततो यत् 'परस्य' इत्यादि, तन्न; कुतः ? एकान्तविनाशात् अन्यत्वात् कथञ्चिद्विनाशो अविनाशः १५ तस्मिन्नपि न केवलं तदपोहे सम्भवात् प्रवृतेः तदपोहे तदभ्युपगमः परस्य चित्तभरणायैव न वस्तुतः
तस्यैवाभावात् । अविनाशस्य च निरूपितत्वात् निरूपयिष्यमाणत्वाच्च । इदमेव श्लोकैः व्याचिख्यासुः 'फलहेतुव्यपोहतः' इत्यस्य द्वितीयमर्थं दर्शयन्नाह -
यथाऽजनकजन्येषु न सन्ति कलशादयः। तथा जनकजन्येषु ततस्तत्त्वं निरन्वयम् ॥ ९१ ॥ इति ।
यथा येन दृश्यानुपलब्धिप्रकारेण न सन्ति न विद्यन्ते कलशादयः । क ? अजनकजन्येषु अतद्धेतुफलेषु कुलिशकरणादिषु तथा तेन प्रकारेण जनकजन्येषु तद्धेतुफलेषु पिण्डकपालादिषु न सन्ति कलशादयः इति सम्बन्धः । प्रयोगश्च-यद्यत्रोपलब्धिलक्षणप्राप्तं नोपलभ्यते तत्तत्र नास्ति यथा अतद्धेतुफलेषु कलशादयः, उपलब्धिलक्षणप्राप्ताश्च ते नोपलभ्यन्ते तद्धेतुफलेष्वपीति ।
ततस्तस्मात् निरन्वयम् अन्वयान्निष्क्रान्तं तत्त्वं स्वरूपम् , कलशादीनामिति विभक्तिव्यत्ययेन २५ सम्बन्धः । सत्येवं यसिद्ध तदाह
तत्र नाशादिशब्दाश्च समिताः समनन्तरे । इति ।
तत्र तेषु जनकजन्येषु नाश आदिर्येषां प्रागभावादीनां तेषां शब्दाः समिताः सङ्गताः भवन्तीति शेषः । न केवलं प्रवृत्त्यादिरेवेति चशब्दः। सत्येव हि तदभावे प्रागभावोपादानादिशब्दा
१ -कल्पल- ता० । २ कृतानिवृत्ति- श्रा०, ब०, प० । ३- तस्मादप्यनु- आ०, ब०, प० । ४ "विवर्णः पामरो नीचः प्रकृतश्च पृथग्जनः ।"- ता. टि० । प्रकृते- आ०, ब०, प० । ५ करिणादिता० । वज्रशरीरेन्द्रियादिषु । ६ ततस्तत्त्वं नि- ता०।