________________
१२।९२-९३] २ अनुमानप्रस्तावः
११९ जनकेषु, जन्येषु च नाशोपादेयादिव्यपदेशाः लोकसङ्केतप्रसिद्धाः संङ्गच्छन्ते नान्यथेति परस्य भावः । कस्मिन् सति ? समनन्तरे समानि सदृशानि अनन्तराणि अव्यवहितानि जनकजन्यानि यस्मिन् सन्ताने तस्मिन्निति । पररूपत्वमत्र शकन्धवत् प्रतिपत्तव्यम् उपसर्गस्य सदृशार्थत्वम् । अनेन 'फलहेतुव्यपोहतः इत्यस्य प्रथमोऽर्थो दर्शितः ।
तदेवं परमतमुपदर्य अल्पवक्तव्यत्वात् तत्रेत्यादि निराकुर्वन् विनाशं पृच्छति___ अन्यस्यान्यो विनाशः कि [किन्न स्यादचलात्मकः ] ॥९२॥ इति ।
अन्यस्य कलशादेः अन्यः कपालादिविनाशः । उपलक्षणमिदं तेन प्रागभावोऽप्यन्यो मृत्षिण्डादि । किम् इति प्रश्नयित्वा दूषणमाह-'किन्न स्यादचलात्मकः' इति । किं न स्यात् ! स्यादेव, अचलात्मकः अचलस्वभावः कलशादिः । नहि तदन्यप्रादुर्भावे तस्य विनाशः; त्रैलोक्यस्यापि तत्प्रसङ्गात् तदविशेषात् । नापि तदन्यभावः तत्प्रागभावः; जगतोऽपि तदेकप्रागभावत्वापत्तेः । तथा च १० तदुपमर्दनादेव तस्योत्पत्तेः तदेकसन्तानत्वमिति नावकाशः तन्नानात्वकल्पनस्य । ततः प्रागभावादिवैकल्ये सति विद्यमानत्वाद् अवश्यंभाविनी तस्य कूटस्थता । इत्युपपन्नमेतत्– 'किन्न स्यादचलास्मकः' इति । पर इदं परिहरन्नाह
तद्विवेकन भावाच्चेत् [कथन्नातिप्रसज्यते ] । इति ।
तस्य कलशादेविवेकेन पूर्वापरविच्छेदेन भावो भावनमवधारणम् , ण्यन्तादचप्रत्ययः १५ तस्मात् 'न स्यादचलात्मकः' इति सम्बन्धः । न हि विविक्ततया भाव्यमानस्याचलात्मकत्वं पूर्वापराविवेके सत्येव तदुपपत्तेः । अत्र 'चेत्' इत्याशङ्क्योत्तरमाह
कथं नातिप्रसज्यते । सदापि [ सर्वभावानां परस्परविवेकतः ] ॥ ९३ ॥ इति ।
सदापि सर्वकालमपि पूर्वापरकालवत् मध्यकालेऽपि कथं तद्विवेके नातिप्रसज्यते अति-.. प्रसज्यत एव । एवं मन्यते-न तावत्तस्य तद्विवेकः पूर्वापरक्षणलक्षणः, तस्य प्रतिक्षिप्तत्वात् । अतः स । एव तस्य प्रागभावः प्रध्वंसश्चेति, स्वतोऽपि तस्य विवेकान्न क्षणभङ्गवादः शून्यवादमतिशेते इति । : परमप्यतिप्रसङ्गं दर्शयति-सर्वभावानाम् अत्रापि सदापीति सम्बध्यते मध्येकरणात् । तदयमर्थःआप्तिाप्तिः पूर्वापरानुगमः आपः स विद्यतेऽस्येति आपि तदन्वयिरूपं सत् विद्यमानं न कल्पितं कथं नातिप्रसज्यते ? केषाम् ? सर्वभावानां चेतनेतरात्मनामर्थानाम् । अत्र हेतुमाह'परस्परविवेकतः' इति । परस्परमन्योऽन्यं जैनसौगताभ्यां विवेकतो विनिश्चयात् 'सदापिनः' इति विभक्तिविक्रियया सम्बन्धः । अस्ति जैनवत् सौगतस्यापि तद्विनिश्चयः, अन्यथा क्षणविवेके निर्विवादात् अनुमानकल्पनावैफल्यापत्तेः । सतोऽपि तस्य लूनपुनरुत्पन्नकेशादिवद् भ्रान्तत्वान्न
१"शकन्ध्वादिषु पररूपं वाच्यम्" - कात्या०वा०१।११६४ । २ 'सम्' इत्युपसर्गस्य । ३ अस्व आ०, ब०, प० । ४ विध्यस्या- आ०, ब०, प० । ५ -त एवं प्रा०, ब०, प० । ६ अन्वयस्य ।