________________
१२० न्यायविनिश्चयविवरणे
[२।६४-६५ तद्विषयस्य सत्त्वमिति चेत्, विवेकस्यापि न स्यात्, तन्निश्चयस्याप्यसत्येव तस्मिन् द्विचन्द्रादौ दर्शनात् । बाध्यमानत्वात्तत्रैव तस्य भ्रान्तत्वं नान्यत्रेति चेत्, न; अनुगमे ऽपि तुल्यत्वात्-तन्निश्चयस्यापि तत्केशाद्यनुगम एव बाधोपलम्भात् न पूर्वापरानुगम इति । तन्न तत्र विवेकभावनादचलात्मकत्वपरिहारः शून्यवादप्रसङ्गाद्विपर्ययसिद्धेश्च ।
साम्प्रतं विवेकमभ्युपगम्य 'जनकजन्येषु' इत्येतन्निराकुर्वन्नाह
न चानन्तरमित्येव भावस्तव्यपदेशभाक् । इति ।
न च नैव अनन्तरम् अव्यवधानम् इत्येव हेतोः भावः पिण्डकपालादिः तद्व्यपदेशं कलशाद्यपेक्षया जनकजन्यव्यपदेशं भजत इति तद्भाक् , सर्वस्यापि तत्पूर्वापरकोटिगतस्य जगत्क्षणस्य तद्भाक्त्वापत्तेः आनन्तर्याविशेषादिति भावः ।
परो विशेषं दर्शयति
तत्प्रतोत्य समुत्पादात् [ भावश्चेत् स कुतो मतः ] ॥९४॥ इति ।
तत् पिण्डादिकं प्रतीत्य समनन्तरप्रत्ययं कृत्वा कलशादेः,तच्च प्रतीत्य कपालादेः समुत्पादाद्भावः तद्व्यपदेशभाक् न च सर्वं प्रतीत्य तस्योत्पादो यतस्तद्भोक्त्वस्यातिप्रसङ्ग इति मन्यते ।
तमेवेति 'चेत्' इत्याशक्य प्रश्नयन्नाह-'स कुतो मतः' इति । स प्रतीत्यसमुत्पादः कुतः कस्मान्नि१५ मित्तात् नियतविषयो मत इति ।
परस्तदाह
सादृश्यात् [प्रत्यभिज्ञानं न सभागनिबन्धनम् ] । इति ।
सादृश्यं पिण्डकपालादीनां सारूप्यं तस्मात् स मत इति । तत्रोत्तरमाह-'प्रत्यभिज्ञानं न सभागनिवन्धनम्' इति । न हि सादृश्यं प्रत्यभिज्ञानादन्यतः शक्यमवगन्तुं प्रत्यक्षस्यासाधारणविषयत्वेन तत्राप्रवृत्तेः, अनुमानस्य च तत्पूर्वकत्वात्, न च तत्परस्य सम्भवति । कुतः ? सभागनिबन्धनं सहभागयोः तदिदमिति चांशयोर्निबन्धनेन एकत्वरूपेण वर्तमानं निबन्धनं यत इति । तथापि कथं तन्न परस्येति चेत् ? न; अनेकान्तविद्वेषात् स्वयं च तद्भागभेदवत् तस्यापि भेदकल्पनया निराकरणात । चित्रज्ञानवादिन सम्भवत्येव तदिति चेत् , अत्राह
विशेषकल्पनायां स्यात् परस्याव्यभिचारिता ॥९५॥ इति ।
विशेषस्याकारभेदस्य प्रत्यभिज्ञाने कल्पनायां परस्य अक्रमानेकान्तादन्यस्य क्रमानेकान्तस्य स्यात् भवेत् अव्यभिचारिता सर्वभावेष्वविचलितत्वं युगपदिव क्रमेणाप्यनेकान्तस्य प्रतिषेद्धुमशक्यत्वात् । कथमशक्यत्वं यावता नित्यानित्ययोरेकत्वे तदुपपत्तिः, नित्यानित्ययोरिति चोपलभ्यानुपलभ्ययोरित्यर्थः, तयोश्चैकत्वमसम्बद्धम् । तदुक्तम् -
१-तितद्वि-प०। २ भ्रान्तत्वान्नान्य-आ०, ब०, प०।३-भावकस्यापि प्रसङ्गत इति 10, व०, प० । ४ तत्रातीतेः प०। ५-ल्पनायां नि- आ०, ब०, प० ।