________________
२।९५] २ अनुमानप्रस्तावः
१२१ "यदि नित्यमनित्यं चैकमेव तदा प्रतिपन्नमप्रतिपन्नं चैकमिति प्रसक्तं तथा च असम्बद्धं प्रतीयमानमेकत्वेनान्यथा' न शक्यं प्रतिपत्तुं नाप्रतीतमेव प्रतीतम् ।" [प्र० वार्तिकाल० १।२०५] इति चेत्, तदसङ्गतम्, यस्मात् नै ह्युपलभ्यत्वं नित्यत्वम्, अनित्यत्वं वा तद्विपर्ययः; स्वलक्षणस्यापि नित्यत्वापत्तेः,अनित्यत्वे वाऽनुपलभ्यत्वानुषङ्गात्, अपि त्वनुगमान्नित्यत्वं व्यावृत्तेश्चानित्यत्वम् अनुगमव्यावृत्ती च सुवर्णरुचकाद्यपेक्षया नैकत्रापि विरुद्धे । न च रुचकादेावृत्तिमतः प्रतीतस्येतरस्य ५ च परस्परमेकत्वं जैनस्य सम्मतम् ; प्रत्यभिज्ञानाकारयोरिव भेदस्यैव भावात् । ततः 'प्रतिपन्नमप्रतिपन्नं चैकम्' इति परमतानभिज्ञानादेव प्रतिपादितम् । रुचकादेः परस्परमिव सुवर्णादपि भेदे नैकं नित्यानित्यम् , अभेदे परस्परमप्यभेद एव अभिन्नादभिन्नस्य गत्यन्तराभावात्, तथा च नित्यमेव तत् नानित्यमपीति चेत्, न; प्रत्यभिज्ञानस्यापि एवमव्यवस्थितिप्रसङ्गात् तदाकारस्यापि स इत्यादेः परस्परमिव ततोऽपि भेदे नैकं चित्रं सन्तानान्तरवत् , अभेदेऽपि स एव दोषस्तदन्यतमाकारवदिति अनवधारित- १० स्यैव भेदेतरभावस्याभ्युपगमाददोष इति परिहारस्तु क्रमचित्रत्वमपि भावेषु परिपुष्णाति । सत्यमिदं यदि तथा प्रतिपत्तिः, न चैवम् । तदुक्तम् -
"केनचित्तस्य रूपेण नोपलब्धिः परान्यथा । अवित्तिर्येन रूपेण तदस्येति कथं मतम् ? ॥ पूर्व तेनास्य वित्तिश्चेत् पूर्वमेव तथा भवेत् । इदानीं नैव, तद्पमस्येति कथमेकता ? ॥ एकं पूर्वपराभ्यां चेद्रपाभ्यामवियोगतः। वियोगे दृश्यमानेऽपि वियोगो न कथं मतः॥ क्रमेणास्यावियोगश्चेद्वियोगोऽपि तथा भवेत् । अत एवोभयात्मत्वमवियोगवियोगतः ॥ यथैवास्याक्रमं सत्त्वं दृष्टिरस्य तथा भवेत् ।
अक्रमस्य च सत्त्वस्य न योगः क्रमभाविकः॥" [प्र०वार्तिकाल० १।२०५] इति चेत् ; नेदानी प्रत्यभिज्ञानमपि । तत्राप्यस्य तुल्यत्वात् । तथा हि
स इत्येवं प्रतीतस्य ज्ञानस्यैवायमित्यपि । अप्रतीतः कथं नाम त्वयाकारः प्रकल्प्यताम् ॥ १४३५ ॥ तस्याप्यन्यत्र - वित्तिश्चेदन्यत्रैव भवेदसौ । स इत्यत्र तु नास्तीति कथं तस्य तदेकता ॥ १४३६ ॥ तदतद्देशकाभ्यां तदेकं चेदवियोगतः ।
वियोगे दृश्यमानेऽपि वियोगो न कथं मतः ? ॥ १४३७ ॥
१ -था वा श- ता० । २ नानुपलभ्यत्वं नित्यमनित्यं वा आ०, ब०, प० । ३ -ज्ञाकारआ०, ब०, प०। ४ पूर्वत्वेनाप्यवित्ति- आ०, ब०, प० । “पूर्वत्वेनास्य वित्तिः" वार्तिकाल०। ५ तदतद्देशकालाभ्यां वैकं आ०, ब०, प० ।
१५
२५