________________
न्यायविनिश्चयविवरण
[२।९६-९७ देशक्रमादवीयोगे वियोगस्तत्क्रमान्न किम् । अत एवोभयात्मत्वमवियोगवियोगतः ॥१४३८ ॥ यथा तदक्रमं सत्त्वं दृष्टिरस्य तथा भवेत् ।
अक्रमस्य च सत्त्वस्यावियोगस्तत्क्रमात् कथम् ॥ १४३९ ॥ इति ।
ततो यथा प्रत्यभिज्ञानमितरेतरदेशपरिहारप्रतिपन्नस्तदाकारैरेकं तथा सुवर्णादिकम् अन्योऽन्यकालपरिहारगतैरिति प्रतिपत्तव्यम् । कुतः पुनः रुचकादीनां पूर्वापरीभावस्य प्रतीतिः ? पूर्वापरप्रत्ययाभ्यामिति चेत्, तद्भेदस्य कुतः ? स्वसंवेदनादिति चेत्, कथं ततो द्वित्वप्रतिपत्तिः अन्यगतस्यान्यत्राप्रवृत्तेः ? एकस्य च पूर्व परीभूतस्याभावात् । एकमेव तत्तथाविधमिति चेत्; न, एकत्वे साक्षात्करणविषयतया पौर्वाषर्यानुपपत्तेः । तदुक्तम्
"यदि पूर्वापरीभावः केन तस्य प्रतीयताम् । प्राकपरप्रत्ययाभ्यां चेत्तयोर्भेदगतिः कुतः ॥ स्वसंवेदनभावाचेन्न स्याद् द्वित्वगतिस्ततः । न चाप्यविद्यमानस्य परपूर्वस्य तद्गतिः॥ एकं संवेदनं तच्चेत् परपूर्वतयेष्यते ।
एकत्वे परपूर्वत्वं साक्षात्कृततया कथम् ? ॥" [प्र. वार्तिी ल० १।२०५] इति चेत्, न; प्रत्यभिज्ञानेऽप्येवं प्रसङ्गात् । तथा हि
सोऽयमित्यनयोर्देशभेदो गम्यः कुतस्त्वया । ताभ्यामेवेति चेद्वित्वं तयोर्विज्ञायतां कुतः ॥ १४४० ॥ स्वसंवेदनभावाच्चेन्न स्याद्वित्वगतिस्ततः । नचाप्यविद्यमानस्य भिन्नदेशस्य तद्गतिः ॥ १४४१ ॥ एकं संवेदनं तच्चेद्भिन्नदेशतयेष्यते ।
एकत्वे भिन्नदेशत्वं साक्षात्कृततया कथम् ? ॥ १४४२ ॥ इति ।
ततो यथा प्रत्यभिज्ञानं स्वाकारे क्वचिदाभिमुख्यमजहदेव तदन्तरं प्रत्येति युगपत् , तथा क्रमेणापि रुचकादिपर्यायपरिग्रहाभिमुख्यमपरित्यजदेव तदन्वयज्ञानमपरापरानपि स्वस्तिकादिपर्यायान् २५ परि छनत्तीति सुभाषितमेतत्
विशेषकल्पनायां स्यात् परस्याव्यभिचारिता । इति ।
माभूत्प्रत्यभिज्ञानम् , युगपदपि चित्रैकस्यानभ्युपगमादिति चेत्, अत्राह - स्य र तस्मात् सभागसन्तानकल्पनापि न युज्यते ॥ ९६ ॥ क्यत्वात् । न चेत् [ स परिवर्तन हेतुरेव फलात्मना] । इति । । लभ्ययोरित्यर्थः
"'- दवियोगे आ०, ब०, प० । “घञि उपसर्गत्य चेति सूत्रेण विकारस्य दैयं च भवति,
१-तिर इत्यादिवत् । -ता०टि०। ब०, प०।४ तत्र
,