________________
२।९७ ] २ अनुमानप्रस्तावः
१२३ प्रत्यभिज्ञानमित्यनुवर्तते । न चेत् न यदि प्रत्यभिज्ञानम् , तस्मात् प्रत्यभिज्ञानात् सभागानां सदृशापरापरक्षणानां सन्तानस्य कल्पनापि अपि शब्दाद् व्यवहारश्च न युज्यते । एवं मन्यते सति हिं प्रत्यभिज्ञाने तदवगतसादृश्यायत्तात्तत्प्रतीत्यसमुत्पादात् हेतुफलभावनियमः, ततश्च तत्सन्तानकल्पना न चासतीति । संवृत्यैव तत्कल्पना न प्रत्यभिज्ञानादिति चेत्, न; संवृतेरपि तद्रूपत्वात् । सा हि ‘स एवाहं जलं पिबामि यः पूर्वं तदद्राक्षम्' इति मतिरेव । कथन्न प्रत्यभिज्ञा- ५ क्षणानां पौर्वापर्य्यकल्पनं संवृतिरिति चेत् ? न; तत्रापि अस्मादिदं पूर्वमतश्चेदं परमिति प्रतिपत्तेः प्रत्यवमर्शत्वात् किं पौर्वापर्यस्य कल्पनेन ? तत्त्वत एवं भावात्, अन्यथैकक्षणमेव जगत्प्राप्तम् । तथा चेत्; न कारणं कार्य वा कस्यचिदिति कथं वस्तुत्वं यतो व्योमकुसुमादिकमतिशयीत ? कथं वा सुगतक्षणानां पौर्वापर्यं यत इदं शोभेत
"तिष्ठन्त्येव पराधीना येषां तु महती कृपा ।" [प्र० वा १।२०१ ] इति । १०
कल्पितमेव तत्रापि तदिति चेत् ; न; स्वयं तस्याकल्पत्वात् । तस्माद्वासनोषप्लवाधिष्ठितो लोक एव तदपि कल्पयति । अत एवोक्तम्
"न च पश्यति सन्तानं नापि कश्चित्प्रवर्तते ।
न तिष्ठति प्रमाभावात केवलं भवतो भ्रमः।" [प्र० वार्तिकाल० १।१९६]। इति ।
इति चेत्, तात्त्विकमेव तत्र अन्यद्रव्यात् तत्कस्मान्न भवति ? तत्र प्रमाणस्य 'यदि १५ पूर्वापरीभावः' इत्यादिना प्रतिक्षेपादिति चेत् ; ननु सोऽपि प्रश्नस्तदुत्तरभावप्रवृत्तापरापरज्ञानरूप एव कथं कचित् तद्भावं प्रतिक्षिपेत् ? स्वयं तत्त्वतस्तद्रूपात्तदयोगात् । तस्यापि ताद्रूप्यमारोपादेव, वस्तु - तस्तत्रापि तस्य यदि इत्यादिनैव प्रतिक्षेषादिति चेत् , न; अनवस्थोपनिषातात् । ततो दूरं गत्वापि तात्त्विकमेव तत्र पौर्वापर्यमिति सिद्धस्तदात्मा परमार्थत एव सन्तानः । तस्य च न प्रत्यभिज्ञानादन्यतः प्रतिपत्तिः । तथा च सिद्धं तद्वदेव क्रमतोऽषि वस्तुषु वैचित्र्यम् । तदेवाह-'स परिवर्तेत २० हेतुरेव फलात्मना' इति । स कलशाऽवग्रहादिरेव हेतुरेव कारणमेव परिवर्चेत परिणमे फलात्मना कपालेहादिफलरूपेण, न हेतोरन्य एव फलात्मेत्येवकारः । एतेन 'अविनाशेऽपि' इति व्याख्यातम् ।
कथं पुनर्हेतोः फलात्मना परिवर्तनं प्रत्यक्षबाधनात् , तेन निरन्वयस्यैव विनाशस्य प्रतिपत्तेरिति चेत् ? अत्राह
तस्माद्भावविनाशोऽयं फलीभावः [ तदग्रहः] ॥ ९७ ॥इति ।
तस्मात् पूर्वोक्तात्तुच्छविनाशाभावात् । उक्तं हि पूर्वम्-'न तुच्छो विनाशस्तस्य स्वप्रतिपत्तावप्यसामर्थ्यादसम्बन्धाच्च । न हि वस्तुना संयोगः सम्बन्धः; अद्रव्यत्वात् । नापि समवाय ; तदधिकरणतया तस्याप्रतिपत्तेः । न च विशेषणभावः; 'तत्प्रतिपत्तौ तदनुरक्तस्य वस्तुनोऽपि नीलानु
१ -तात्प्रती- ता०।२ प्रत्यवमर्शात् प० । ३ तत्त्व एवं ता०। ४-व तवान्यत्र वा तत्तस्मा-आ०, ब०,प० ।५ ततस्तस्यापि तत्र य- आ०, ब०, प०। ६ कलशः कपालरूपेय अवग्रहश्च ईहारूपेण । ७ न्यायवि० श्लो० २।९०।८-नास्य संयो- आ०, ब०, प० ।
.
२५