________________
[२७२
१२४
न्यायविनिश्चयविवरणे रक्तोत्पलवत् प्रतीतिप्रसङ्गात्' इति । नित्यश्चासौ भवेदकार्यत्वात् आकाशादिवत् । कार्यमेवासौ मुद्गरादेरुत्पत्तेरिति चेत्; कुतस्तत्प्रागभावस्य विनाशः ? तदभावे तदुत्पत्तेरयोगात् । तत एव मुद्गरादेरिति चेत्, न; पुनस्तत्प्रागभावविनाशस्यापि तत एव भावे युगपदनेकविनाशप्रतीतिप्रसङ्गात् । न चैकहेतुका युगपदनेककार्योत्पत्तिः; सामग्रीभेदादेव तदुपदर्शनात् । घटादिरेव तस्य प्रागभावस्ततस्तद्विनाश एव तस्यापि प्रश इति चेत् ; नन्वेवं विनाशोऽपि भावरूप एव स्याद् अभावत्वात् प्रागभाववत् । ततः कलशादिरेवायं न तुच्छः । तस्मात् भावस्य घटादेविनाशोऽयम् उभयसम्मतः फलीभावः अफलस्य सतः फलतया भवनम् । कुतः पुनः च्विंग्रहणं न 'फलभावः' इत्येवोच्येत, फलस्यैव हेतुविविक्तस्य तद्विनाशत्वादिति चेत् ? न; दत्तोत्तरत्वात् – 'अन्यस्यान्यो
विनाशः किम्' इत्यादिना । फलभावप्राप्तिरेव विनाश इति ज्ञापनार्थमुपपन्नं तद्रहणम् । अथवा १० तस्मादिति सभागसन्तानकल्पनादिति प्रतिपत्तव्यम् । न हि तत्कल्पनं हेतोः फलभावपरिवर्तना
मन्तरेण सम्भवति । सम्भवत्येव हेतुफलविविक्तस्य भावादिति चेत्, न; सुगतेतरज्ञानयोरपि तत्प्रसङ्गात् । अनुपादानोपादेयत्वान्नेति चेत्, तदेव कुतः ? सादृश्याभावादिति चेत् ; न, सुगतज्ञानेनेतरस्याप्रवेदनोपनिपातात् । सादृश्यविशेषाभावादिति चेत् ; कस्तर्हि तद्विशेषोऽन्यत्र कथञ्चिदभेदा
दिति युक्तं तत्कल्पनादपि तस्य तदात्मना परिवर्तनोपादानम् , प्रत्यक्षप्रतिपत्तेरपि तत्र समर्थनात् । १५ ततः किम् ? इत्याह
तदग्रहः। तद्ग्रहः [ प्रतिषेधोऽस्य केवलं तन्निवन्धनः] । इति ।
तस्य भावस्याग्रहोऽप्रतिपत्तिः तद्ग्रहः फलीभावस्य ग्रहो न ग्रहनिवृत्तिमात्रम् । नाप्यन्यग्रह इति यावत्। एवमपि भवतु तत्र फलीभावव्यवहारः, विनाशव्यवहारस्तु कथम् ? तद्भावस्याविनाश२० रूपत्वात् । अत्राह-'प्रतिषेधोऽस्य केवलं तन्निबन्धनः' इति । प्रतिषेधः तद्व्यवहारः अस्य
भावस्य केवलं नान्यनिमित्तोऽपि तु तन्निबन्धनः फलीभावग्रहनिमित्तकः तत एव लोकैस्तव्य- . वहारस्य प्रवर्तनादिति भावः ।
साम्प्रतं हेतुफलयोः पराभिप्रेतमन्यत्वव्यवस्थापनं दर्शयति
अन्यथात्वं यदीष्येत हेतोरपि फलात्मनः ॥ ९८ ॥
अन्य एवेति किन्नेष्टमिति केचित्प्रचक्षते। अन्यथात्वम् अन्यप्रकारत्वं यदि चेत् इष्येत हेतोः विवक्षितफलजनकस्य अतज्जनकादिति सामर्थ्याद् गम्यते । किमिति तदिष्यते इति चेत् ? अन्यथा हेतुत्वासम्भवात् । न हि शालि
१ ततश्च त-आ०, ब०, प०।२ फलीभाव इत्यत्र विप्रत्ययग्रहणम् । स एव ग्रह-प०।३ न्यायबि० श्लो० २।९० ।४ तदाकारत्वाभावादिति शेषः। ५ ग्रहो नाग्रह इति आ०, ब०, प० । ६ एतदपि भ- आ०, ब०, प० ।