________________
२ अनुमानप्रस्तावः
१२५
बीजस्यातद्बीजादन्यथात्वमन्तरेणं तदङ्कुरहेतुत्वं तंद्वदेव तद्धेतुत्वप्रसङ्गात् । तथा न नियतो हेतुभाव इत्यभिमतसिद्धये यत् किञ्चिदुपादातव्यं भवेत् । इष्यत एव तर्हि तस्य ततोऽन्यथात्वं प्रतिभासप्रयोजनव्यपदेशादिभेदादिति चेत्; अत्रोत्तरम् - ' अपि फलात्मनः" इति । फलमेव फलात्मा सुबुद्ध्यात्मवत्, ततोऽपि न केवलमतद्धेतोरेव ' हेतोरन्यथात्वमिष्येत' इति सम्बन्धः, प्रतिभासादिभेदस्य तत्रापि भावात् । ततः किमिति चेत् ? उत्तरम् - अन्य एव फलात्मनो भिन्न एव हेतुरिति प्रथमा - परिणामेन सम्बन्धः। इति एवं किन्नेष्टम् इष्टमेव भवति जैनस्यापि प्रमाणोपपत्तेः । तथाहि - यद् यस्मादन्यथाभूतं तत्ततोऽन्यदेव यथा शालिबीजमतद्वीजात्, अन्यथाभूतं च तत्फलादपि तत् । तस्य तस्मादनन्यत्वं चेत्; अतद्बीजादपि स्यादिति तदपि तस्यैव विवर्तः स्यात् । एवं च
५
तथा
२।९९ ]
शालिबीज विवर्त्तत्वं देशकालादिभेदिनः । जगतः सम्प्रसज्येतस्याद्वादमुपजीवताम् ।। १४४३ ॥ तन्मा भूदिति मन्वानैरतद्द्बीजादिव स्फुटम् ।
तत्फलादपि तद्बीजस्यान्यत्वमुपगम्यताम् ॥ १४४४ ॥ तन्न हेतुफलैकत्वं कथमप्युपपत्तिमत् ।
इत्येवं केचिदज्ञानमलदिग्धाः प्रचक्षते || १४४५ ॥ तत्रोत्तरमाह
अन्यथास्वं न चेत्तस्य भवेद् ध्रौव्यम् [ अलक्षणात् ] । इति । तस्य भावस्य ध्रौव्यं कौटस्थ्यम् । कदा ? न चेत् न यदि अन्यथात्वं फलरूपतया परिवर्तनम्, तस्येत्यत्रापि सम्बन्धनीयम् । कुतः इत्यत्राह -
।
तु कुतस्तस्य ग्रहणम् ? अग्रहणे तस्येत्ययोगात् । प्रत्यक्षत इति वर्तमानतयैव प्रतिपत्तेः । कार्यकालादिति चेत्; न; तस्य पूर्वत्राप्रवृत्तेः प्रवृत्तौ वा तदपि तद्विषयत्वात् कथं वर्तमानं कार्यवत् ? स्वकालापेक्षयैव वर्तमानत्वं न कार्यकालापेक्षयेति चेत् ? कथं तर्हि प्रत्यक्षतस्तज्जन्मनः स्मरणाच्च पूर्वभावस्याग्रहणमुक्तं यत इदं शोभेत -
अलक्षणात् ।
२०
अभावस्यापि [ अभावोऽपि किन्नेत्यन्ये प्रचक्षते ] ।। ९९ ।। इति । अलक्षणात् अप्रतीतेः अभावस्य तद्विनाशस्य न केवलमन्यथात्वस्येत्यपिशब्दः । कथं पुनस्तस्यालक्षणं कार्यस्य प्रत्यक्षत एव प्रतिपत्तेः, तद्रूपत्वाच्च विनाशस्येति चेत् ? कस्यासौ विनाशः ? कारणस्येति चेत्; न; तस्य कार्येण समकालत्वे विनाशतद्वतोर्यौगपद्यप्रसङ्गात् । तत्पूर्वकालवे
चेत्; न; तेनापि तत्कालेन
“संवेदनं न पूर्वं तत्पूर्वत्वग्रहणे क्षमम् ।
न परं तेन पूर्वत्वं स्मरणान्नैव साध्यते ॥” [ प्र० वार्तिकाल० १।२०५ ] इति ।
१०
१ - तद - ता० । २ अन्यथात्वं यदि न स्यात् तदा यवबीजवत् यवाङ्कुरहेतुत्वं स्यादिति भावः । ३- भासनादि - ता० । ४ चैतद्वीजा - आ०, ब०, प० । ५ - व च वि - आ०, ब०, प० । ६ इत्याह प० ।
१५
२५