SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ न्यायाविनिश्चयविवरणे [ २।१०० कथं वा द्रव्यरूपस्याप्रतिपत्तिः ? पूर्वापरयोरिव प्रत्यक्षत एव तदनुगमस्यापि प्रतीतेः द्रव्यस्य तद्रूपत्वात् । तदेवाह -'अभावोऽपि किन्न इति । अ: आत्मा मतिश्रुतादिपर्यायानुरूपः तस्य भावः अपिशब्दात् पृथिव्याद्यन्वयरूपपुद्गलादिभावोऽपि किं कस्मान्न ? स्यादेव प्रत्यक्ष विषय - स्याभावायोगात् । तथा चान्यथात्वमेव विनाशः कारणस्य, नैकान्ततस्तद्विविक्तं कार्यमिति मन्यते । ५ यदि वा, यदुक्तम् – “कार्यवज्जगदपि सर्वस्याकारणस्य परिवर्त्तः स्यादन्यथात्वाविशेषात् ।” ] इति तत्राह - 'अभावोऽपि किन्न' इति । अभावोऽपि न केवलं परिवर्तः [ तत्तस्य कार्यवत् किन्न स्यात् ? स्यादेव, अन्यत्वाविशेषात् । तथा च- जगतः समकालस्य नाशे सति परस्परम् । तदापि वः ।। १४४६ ॥ प्रसज्यते । कार्यकालवदेवास्य स्यादभावः ततश्च भावनैरात्म्यमनिषेध्यं कार्यस्यैव विनाशत्वं तथैव यदि बुद्धितः । विवर्तत्वं च तस्यैव स्यादित्यपि च वक्ष्यते ॥ १४४७ ॥ प्रकृतस्योपसंहारमाह-' इत्यन्ये प्रचक्षते ' इति । इति एवम् अन्ये जैनाः प्रचक्षते प्रमाणोपपन्नं प्रतिपादयन्ति । १० १२६ १५ साम्प्रतं व्यवहारस्यातिप्रसङ्गमपरत्र तदभावप्रसङ्गमिव परिहरन्नाह - स्वस्वभावस्थितो भावो भावान्तरसमुद्भवे । २० नष्ट वा नान्यथाभूतः [ ततो नातिप्रसज्यते ] ॥ १०० ॥ इति । । भावो दध्यादिः अन्यथा स्वप्रकारादन्यप्रकारेण न भूतो न जातः । तच्च न तत्कार्यतक्रादिप्रादुर्भावेऽपि तु भावान्तरस्य तदन्यस्योष्ट्रादेः समुद्भवे प्रादुर्भावे सति, तस्मिन् तद्रूपेण न परिवृत्त इति यावत् । स्वः असाधारण उष्ट्राद्यसम्भवी स्वभावस्तेन स्थितो यत इति । भावान्तरसमुद्भवे इत्यत्रापि योज्यम् । तदयमर्थः - यस्मादुष्ट्रादिप्रादुर्भावेऽपि स्वभावस्थित एवायं प्रतीयते तस्मान्न तद्रूपापत्त्या अन्यथाभूत इति । प्रतीतिश्चात्र स्वभावस्थितत्वस्य हेतुत्वाभिधानादेव लभ्यते, अन्यथा तदनुपपत्तेः । अत्रैव 'नष्टो वा' इति दृष्टान्तः । 'न' इत्यत्रापि सम्बध्यते मध्ये करणात् । वाशब्दश्चेवार्थः । तदयमर्थः - यथा भावान्तरसमुद्भवे भावो न नष्टः तदापि स्वस्वभावस्थितस्यैव तस्य प्रतीतेः, नाशे तदनुपपत्तेः, तथा तत एव न तद्रूपापत्त्याऽन्यथाभूत इति । ततो यथा तत्रायं प्रसङ्गःअन्यस्य हि विनाशित्वे सर्वदा दध्यसम्भवात् । २५ 1 चोदितो दधिखादेति कथं तत्रापि वर्तताम् ॥ ९४४८ ॥ को वा प्रवर्ततां तत्र प्रवृत्तिरपि का भवेत् । न किञ्चित्ते न तत्त्वं स्यादन्यनाशप्रवादिनाम् ॥ १४४९ ॥ इति । १ तदुपगम - आ०, ब०, प० । २ य श्रा- आ०, ब०, प० । ३ श्रुतावधिप - आ०, ब०, प० । ४ तथापि आ०, ब०, प० । ५ जनाः प्र- आ०, ब०, प० । ६ एव तच्च आ०, ब०, प० । ७-पि स्वभाआ०, ब०, प० ।
SR No.007280
Book TitleNyayvinischay Vivaran Part 02
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year1954
Total Pages538
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy