________________
२।१०१ ]
१२७
२ अनुमानप्रस्तावः
कार्यान्यस्यान्यत्वाविशेषेऽपि तद्विनाशित्वाभावात् तथाऽयमपि न प्रसङ्गः
“सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः ।
चोदितो दधि खादेति किमुष्ट्र नाभिधावति ॥" [ प्र० वा० ३ | १४२ इति विशेषनिराकृतेरभावात् । दध्यादेर्हि तक्राद्यपेक्षयैवोभयरूपत्वप्रतिपत्तेर्नोष्ट्राद्यपेक्षया । तदेवाह - ' ततो नातिप्रसज्यते' इति । ततस्तस्मात्प्रतीतिसिद्धात् विशेषात् नातिप्रसज्यते दधि - ५ दुष्ट्रा, दधिकामस्य प्रवृत्तिर्न भवतीत्यर्थः ।
तदेवं प्रपञ्चतः साध्यमुपदिश्य साधनस्वरूपं दर्शयन्नाह -
साधनं प्रकृताभावेऽनुपपन्न' [ ततोऽपरे ] ॥ १०१ ॥ इति ।
"
साध्यतेऽनेनेति साधनं लिङ्गम् । तत् प्रकृतं शक्यत्वादिलक्षणं तस्याभावे अनुपपन्नम् असम्भवि । ‘निश्चितम्' इत्यपि द्रष्टव्यं वृत्तौ 'अन्यत्रं च तद्वचनात् । कथमेवमन्यत्रानुपपन्नत्वमेव १० हेतुक्षणं निश्चयस्यापि तदन्यस्य भावात् न, तस्य साधारणत्वात् । साधारणः खलु निश्चयः तस्य हेतुवदन्यत्रापि भावात् । असाधारणेन च लक्षणेन भवितव्यम्, तच्चान्यथानुपपन्नत्वमेव हेतावेव तस्य नियमात् । तदपि साधारणमेव अहेतावपि प्रत्यक्षादौ स्वार्थापेक्षया भावात् भवति हि प्रत्यक्षादि स्वार्थापेक्षया ऽन्यथानुपपन्नम्, न च हेतुः । कस्मात् साध्याभावात् । न हि तद्विषयस्य साध्यत्वं प्रसिद्धत्वात् । अप्रसिद्धत्वे प्रत्यक्षादेरपि न प्रसिद्धिः विषयप्रसिद्ध्यैव तस्यापि प्रसिद्धेः' । ततो यदि तस्य १५ प्रसिद्धिः; प्रसिद्धिरेव विषयस्यापीति न तस्य हेतुत्वम् । कथमिदानीम् 'अस्ति आत्मोपलब्धेः ' 'नास्ति घोऽनुपलब्धेः' इति च प्रत्यक्षस्यैव हेतुत्वप्रतिपत्तिरिति चेत् ? न; विषयापेक्षया तदभावात् । विषयो हि तस्यात्मास्तित्वं घटाभावश्च न तत्रैव हेतुत्वं प्रसिद्धत्वात्, अपि तु तद्व्यवहारे, तत्र च न प्रत्यक्षत्व - मुपलम्भादेरविषयत्वात् । कथं पुनस्तत्रापि हेतुत्वम् असति तदनुपपत्तेः । सतो हि लिङ्गं ज्ञापकं भवति नासतः खरशृङ्गवत् । सत्त्वेऽपि न किञ्चिल्लिङ्गेन, विनापि तेन तत्प्रसिद्ध, निश्चयाभिधानात्मा हि २० व्यवहारः, तस्य प्रत्यक्षत एव स्वसंवेदनादेरवगमात् किं तेन कृतस्य करणायोगात् । असन्नेव तेनायमुत्पाद्यते विषयोपदर्शनेनेति चेत्; न; साध्यं प्रति तस्य कारणत्वाभावात् । भवतु तर्हि व्यवहारयोग्यत्वे तस्य लिङ्गत्वमिति चेत्, कस्य तद्योग्यत्वम् ? तद्विषयस्यैवेति चेत्, सिद्धं तर्हि तस्य तत्रैव कथञ्चिद्धेतुत्वमिति कथमतिव्यापकत्वं लक्षणस्य ? नन्वेवमनवस्थिति: प्रत्यक्षवदनुमानस्यापि तदुत्थापितस्य पुनस्तदुत्थापितस्य लिङ्गत्व प्राप्तेः । यत्राविप्रतिपत्तिस्तस्य व्यवस्थैव साध्याभावादिति २५ चैत तत्र तर्हि सिद्धमन्यथानुपपन्नत्वमहेतुत्वेऽपि इति कथन्नातिव्याप्तिरिति चेत् न; तन्मात्रस्यालक्षणत्वात् । प्रकृतापेक्षं हि तत्तल्लक्षणम्, तच्च नाविप्रतिपत्तौ सम्भवति, प्रकृतस्य विप्रतिपत्तिविषयत्वात् । यत्र तु सम्भवति तल्लिङ्गमेव प्रत्यक्षादिकमपि । कथं पुनः सति तस्मिन् विप्रतिपत्तिर्यतः प्रकृतसम्भव
५ प्रतीतिर्न भ- प० । २ “साध्यार्थासंभवाभावनियमनिश्वयै कलक्षणो हेतुः । - प्रमाणसं० पृ० १०२ । ३ हेतुना । ४ प्रतीतस्य कारकाभा - प० । प्रतीतस्य कारकत्वामा- आ०, ब० ।