________________
१२८
न्यायविनिश्चयविवरणे
२।१०१ ]
इति चेत् ? न; दत्तोत्तरत्वात्’–‘आन्तेः पुरुषधर्मत्वात्' इति । ततो युक्तम्–‘अस्त्यात्मा उपलब्धेः’ इत्यादि । न चैवं क्षणक्षये तथावभासनस्यापि हेतुत्वं साध्यवत् तस्यापि असिद्धेः । आत्मोपलब्धिरपि असिद्धैवानात्मवादिनं प्रति इति चेत्; न; सोऽहमिति बुद्धेस्तेनाप्यभ्युपगमात्, अन्यथा आत्मारोपाभावादनुषायसिद्धा मुक्तिरिति व्यर्थ एव तदर्थः प्रयासः स्यात् । तद्बुद्धिरेव चात्मोपलब्धिः, तत्प्रति ५ भासिनः संवेदनान्वयस्यैवात्मत्वात् । न चैत्रं क्षणक्षयावभासनमा बोधिमार्गावतारात् कस्यचिदपि विपश्चितो निश्चयकुंटीरकोटरमुपढौकितमस्ति यस्य लिङ्गत्वमात्मोपलब्धिवत् प्रतिपद्येमहि । ततो युक्तम्- 'प्रकृत' इत्यादि ।
अत्र प्रकृतस्यैव, अभाव एव, अनुपपन्नमेवेति चावधारयितव्यं सावधारणत्वात् वाक्यानाम् । तत्र प्रथमेनावधारणेन विरुद्धस्य व्युदासः, नासौ प्रकृतस्यैवाभावेऽनुपपन्नः, अपि तु तद्विपरीतस्यैव । १० द्वितोयेनासिद्धर्यं । नायमपि प्रकृताभाव एवानुपपन्नः, तद्भावेपि तथात्वात् । न तर्हि धूम - प्रयत्नानन्तरीयकत्वादिरपि हेतुः साध्यस्य मुर्मुरदहन - वनकुसुमानित्यत्वादेर्भावेऽपि तस्याभावादि चेत्; न; तस्यासाध्यत्वात् । साध्यं हि शक्यत्वादिविशेषणं पर्वताग्न्यादिकमेव तत्रैवाभिप्रेतत्वादेर्भावात् नमुर्मुरायादौ विपर्ययात्, अतस्तत्र साध्याभावादेव तस्याभावः । कथं तर्हि महानसाग्न्यादा तस्य भावः तस्याभिप्रेतत्वाद्यभावेनासाध्यत्वात् । भावे वा कथन्न व्यभिचारः ? तत्सदृशस्यैव १५ भावादिति चेत्; न; सर्वत्र एवमेव व्यभिचारात् अन्यथा तदप्रतिपत्तेः । न हि 'प्रयत्नानन्तरीयको ध्वनिः अनित्यत्वात्' इत्यत्रापि ध्वनिगतस्यैव अनित्यत्वस्य विद्युदादौ भावाद् व्यभिचारः, अपि तु तत्सदृशस्यैव, सामान्यस्यैकस्य प्रतिक्षेपादिति चेत्; न; अन्तर्व्याप्तिनिर्णयाभावादेव " तदुपपत्तेः, न साध्याभावे तत्तुल्यभावात् । कुत एतदिति चेत् सति तन्निर्णये "तथापि गमकत्वप्रतीतेः । प्रतीयते हि धूमादिविशेषस्य तन्निर्णये पावकादिविशेषं प्रति गमकत्वम्, तत्तुल्यस्य चान्यत्राग्न्यादिमात्रे भावः । तद्विशेष२० वैकल्ये कथं तस्य तत्तुल्यत्वमिति चेत् ? धूमादित्वमात्रेण न तद्विशेषेणापि, अन्यथैकत्वमेव स्यात् सर्वाकारसाम्यादन्यस्य " तस्याभावात् । कथमेवं प्रयत्नानन्तरीयकत्वमपि शब्दस्यानित्यत्वविशेषात् नावगम्यत इति चेत्; क एवमाह - ' नावगम्यते ' इति तद्विशेषावसाये तदप्रतिक्षेषात्, तदभाव एव व्यभिचारावकल्पनात्–किमनित्यत्वात् प्रयत्नानन्तरीयकः शब्दो घटवत्, आहोस्वित् अन्यथा वनकुसुमादिवदिति । तन्न साध्याभावे तत्सदृशस्याभावेऽपि व्यभिचारः तस्याभावात् । ततो युक्तं २५ प्रकृताभाव एवेति ।
?
१२
१ न्यायवि० श्लो० १०४ । २ तदर्थ - आ०, ब०, प० । ३ तद्बुद्धेरेव आ०, ब०, प० । ४ " ह्रस्वा कुटी कुटीरः ! कुटी शुण्डाद्र इति सूत्रेण ह्रस्वार्थे रप्रत्ययविधानात् । " - ता० टि० | ५ विरुद्धः । ६ "व्युदासः " - ता० टि० । ७ अनुपपन्नत्वात् । - ता०टि०८ -राग्न्यादि वि- आ०, ब०, प० । "महानादौ धूमादिभ वे " - ता० टि० । १० व्यभिचारोपपत्तेः । ११ “साध्याभावे तत्तुल्यभावप्रकारेण " - ता० टि० । १२ एकत्वस्य ।