________________
२।१०२ ]
२ अनुमान प्रस्तावः
१२९.
एवमनुपपन्नमेवेत्यपि, तेनानैकान्तिकस्य व्यवच्छेदात् । न हि तस्य तदभावे ऽनुपपत्ति
रेव उपपत्तेरपि भावात्, प्रयत्नानन्तरीयकत्वेऽनित्यवत् ।
साम्प्रतं तानवधारणव्यवच्छिन्नान् हेत्वाभासानुपदर्शयति
ततोऽपरे । विरुद्धासिद्धसन्दिग्धा अकिञ्चित्करविस्तराः । इति ।
अत्रापरे इत्येतद्विरुद्धेत्यादेः परतोऽपि द्रष्टव्यम् । तदयमर्थः - विरुद्ध सिद्धसन्दिग्धा अपरे हेत्वाभासा एव न केवलं त एवापि तु अकिञ्चित्करविस्तराश्च । अत्रैवोपपत्तिः- ततः तस्मादुक्तलक्षणात् साधनादपरे तल्लक्षणविकलतया विभिन्ना यत इति । तत्र विरुद्धस्य तदाभासत्वं साध्यस्याभाव एव भावात् । असिद्धस्य सत्यपि तस्मिन् अभावात्, सतोऽप्यनिश्चयात् । सन्नषि अनिश्चितोऽसिद्ध एव सिद्धकार्याकरणात् अतस्तदाभासः । निश्वयाभावोऽपि अव्युत्पत्त्यादिना, १० वादिप्रतिवादिनोरन्यतरस्योभयस्य वा तत्राव्युत्पन्नस्याज्ञातासिद्धः संशयानस्य सन्दिग्धासिद्धः विपर्यस्तस्य विपरीतासिद्ध इत्यनेकधा स भिद्यते । सन्दिग्धो व्यभिचारी किमित्थे मन्यथो वेति ततः साध्यसंशयात्तस्य तदाभासत्वं तत्रैव नियमाभावात् । अकिञ्चित्करः पुनः सिद्धोपस्थायी यथा शब्दानित्यत्वे कृतकत्वेन निश्चिते तत्रैवापरः प्रयत्नानन्तरीकयत्वादिः । कुतस्तस्याकिञ्चित्करत्वम् ? ततस्तन्निर्णयस्यानुत्पत्तेरिति चेत्; सापि कुतः ? कृतकत्वादेव तस्य भावादिति चेत्; न; तत्कार्यस्या - १५ न्यतोऽनुत्पत्तेः । तादृशस्योत्पत्तिरिति चेत्; अस्तु न तावता शक्तस्य स्वव्यापारादुपरतिः, पावकान्तरवद्धूमान्तरकृतेः । शक्तिरेव न तस्येति चेत्; तदपि यदि हेतुलक्षणवैकल्यात्, तदा विरुद्धादावेवान्तर्भावः, प्रतिपादितावधारणविपर्ययादेव तद्वैकल्यसम्भवात् तद्विपर्ययस्य च विरुद्धादावेव नियमात् । विषयाभावान्न ततस्तन्निर्णय इति चेत्; न; लक्षणपरिपुष्टौ तदनुपपत्तेः । कथं वा तदभावः ? शब्दानित्यत्वस्य भावात् । प्रागेव निर्णीतमिति चेत्; न; तत्राप्यनुपहतस्वरूपत्वेन तदन्तरस्यापि २० प्रवेशात् प्रकाशिते प्रकाशान्तरवत् । न चैवं छिदेरपि छिन्ने प्रवेश: छेद्याभावात् । किं तत्प्रवेशेन व्यवहारस्य पौरस्त्यादेव भावादिति चेत्, न समर्थात् ततोऽपि तस्यावश्यम्भावात् । व्यवहारिणस्तदभिलाषस्याभावान्नेति चेत्; नेदानीमाद्यस्यापि लिङ्गत्वं ततोऽपि तन्निर्णये झटित्यन्यत्र गतचित्तस्य तद्व्यवहारासम्भवात् । भवतु तदा तस्याप्यकिञ्चित्करत्वमिति चेत्; न, “सिद्धेऽकिञ्चित्करो हेतुः " [ प्रमाणसं ० इलो० ४४ ] इति तल्लक्षणात् आद्यस्य चासिद्ध एव भावात् । निर्णयमात्रेण तु तस्य हेतुत्वं २५ द्वितीयस्यापि स्यात् । तस्मात्तदभावादेव तस्याकिञ्चित्करत्वम् तच्च साधनलक्षणवैकल्यादेव । ततो विरुद्धादय एवाकिंञ्चित्करविस्तरा इति केचित् । अन्ये पुनः ' तत्रैवाप्रवृत्तहेत्वन्तरे त एव सम्यक्हेतव इति नातीव विरुद्धादित्वमनुभवन्ति, अतोऽन्य एव ते तेभ्यः तदाभासाः' इति प्रतिपन्नाः । यदि साधनं प्रकृते सत्येव न तदा सपक्षेऽपि स्यात् तत्र प्रकृताभावात्, ततश्च न तस्य तदविनाभावपरिज्ञानं सपक्ष एव तत्सम्भवात् न पक्षे तत्र अद्यापि प्रकृतस्यानिश्चयादिति चेत्; अत्राह
"
"
१ " साध्यसद्भावप्रकारेण । " - ता०टि० । २ " साध्याभावप्रकारेण " - ता० टि० । ३ " साध्य एव” -ता० टि० । ४ आद्यस्य । ५ - प्रवृत्तेर्हेत्व - आ०, ब०, प० ।
१७
५.
३०