________________
१३०
१०
न्यायविनिश्चयविवरणे
तथार्थेऽसत्यसम्भूष्णुर्धर्मो न बहिरङ्गतः ॥ १०२ ॥ सर्वथैकान्तविश्लेषे साध्यसाधनसंस्थितेः । इति ॥
[ २।१०२-३
बहिर्भावाभावौ साध्यसाधनयोः बहिः तादवस्थ्यात् तेद्द्व्यपदेशोपपत्तेः तस्य अङ्गनम् अङ्गः अवगमः तस्मात्ततः ' न भवति' इति शेषः । कः कीदृशो न भवति ? धर्मः पराश्रयः ५ प्रमेयत्वादिः अर्थे ऽर्थक्रियासमर्थे असति अविद्यमाने असम्भूष्णुः साधुसम्भवविकलः ।
एतत् ? तथा तेन बहिरङ्गतस्तस्य तथात्वप्रकारेण साध्यसाधनयोस्तद्भावस्य भावप्रधानत्वात् निर्देशस्य, समन्तादतिव्याप्त्या स्थितेः । तथा हि-विवादापन्नः पुरुषः किञ्चिज्ज्ञो रागादिमान् वा पुरुषत्ववक्तृत्वादेः रथ्यापुरुषवदित्यस्यापि गमकत्वप्रसङ्गः सत्येव रथ्यापुरुषे किञ्चिज्ज्ञत्वादौ तस्यो - पलम्भात् असति च पाषाणादौ अनुपलम्भात् अविनाभावप्रतिपत्तेरुपनिपातात् । न बहिर्दर्शनमात्रात् तस्याविनाभावोऽपि तु तादात्म्येन तदुत्पत्त्या वा प्रतिबन्धात् न चार्या महास्ति प्रमाणाभावात् । न हि किञ्चिज्ज्ञत्वादेः स्वभावः कार्यं वा पुरुषत्वादिकमिति प्रमाणमस्ति, सर्वज्ञत्वाद तद्विपक्षेऽपि तस्याविरोधादिति चेत्; किमिदानीं शिशपात्वधूमादावपि प्रमाणं यतः प्रतिबन्धसिद्ध्या गमकत्वम् ? तदेव भूयः प्रवृत्तं बहिः प्रत्यक्षं - तद्व्यावृत्तिद्वितयमिति चेत्, न, प्रकृते ऽपि तस्य भावात् । विपक्षे तद्बाधकप्रवृत्तिरिति चेत् ? तस्या अपि तेंदूपत्वे न किञ्चित् परिहृतम् । १५ अतद्रूपत्वे कुतस्तदुत्पत्तिः ? तत एवेति चेत्; अनिवृत्तः प्रसङ्गः । तदन्यत इति चेत्, न तर्हि क्वचिदपि बहिरुपलम्भतद्व्यावृत्त्योरुपयोग इत्यसङ्गतमेतत् - "बाधस्य कार्यहेतोः स्वभावविशेषस्य च क्वचिदाधारे प्राक्प्रवृत्तगृहीतविस्मृतप्रतिबन्धसाधकप्रमाणस्मृतये अन्यत्र प्रवृत्तिरपेक्षणीया ।" [ ] इति । ततो दर्शनतन्निवृत्तिलक्षणमेव विपक्षे तत्सत्ताबाधनद्वारेण धूमशिंशपात्वादावपि तादात्म्यादिप्रतिबन्धसाधकं प्रमाणमित्यङ्गीकर्तव्यम् । तच्च प्रकृते ऽप्यस्तीति २० कथन्नातिव्याप्तिः ?
नित्यमेव
'सर्वथा' इत्याद्यत्रैवाव्याप्तिप्रदर्शनपरमुपपत्त्यन्तरम् - सर्वथा सर्वप्रकारेण . अनित्यमेव स्थूलमेव सूक्ष्ममेव परस्परभिन्नं तद्वितयमेवेत्यादयः एकान्ताः सर्वथैकान्ताः तेषां विश्लेषो यस्मिन्नसौ सर्वथैकान्तविश्लेषो ऽनेकान्तः तस्मिन् साध्ये साध्यसाधनसंस्थितेस्तद्भावस्य सम्यगवस्थानात् 'अर्थे सति' इत्यादिना सम्बन्धः । तथाहि - सर्वमनेकात्मकं प्रमेयत्वादित्यत्र २५ न बहिरुपलम्भ-तद्व्यवच्छेदौ सपक्षविपक्षयोरेव सर्वस्य पक्षीकरणेन असम्भवात् । न चेहाविनाभावो नास्ति, विपक्षे बाघकसामर्थ्यात् तदवगतेः । बाधकमप्यूहज्ञानं बहिर्दर्शनादर्शनाभ्यामेव, अन्यत्र तथाभिधानात् तत्कथमिह तदभावे तत्सम्भव इति चेत् न नियमाभावात् । न ह्ययं १ ताच्छद्वोपप- आ०, ब०, प० । २ तस्यां गमनं गोऽवगमः आ०, ब०, प० । ३ सम्मतादिति व्याप्त्यासिद्ध ेः प०, समन्तादिति व्याप्त्या आ०, ब०, ४ क्षं त- प० । ५ प्रत्यक्षतद्व्यावृत्तिद्वितयरूपत्वे । ६ तच्चास्यकार्य - आ०, ब०, प० । ७ “सम्भवप्रत्यय त्तर्कः प्रत्यक्ष नुपलम्भतः । " -प्रमाण सं० का० १२ | " ग्रन्थान्तरे कलङ्क देवैस्तथाभिधानात्, तदनुसारिभिर्माणिक्यनन्दिभिरुक्तं यथा उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः ।" - ता० टि० ।