________________
२।१०३] २ अनुमानप्रस्ताव:
१३१ नियमस्ताभ्यामेव तदिति, तदभावेऽपि क्षयोपशमविशेषोपनिपातात् कुतश्चिदतिशयात् तदुत्पत्तेः, ताभ्यां तद्भावेऽपि तदतिशयस्य अवश्यापेक्षणीयत्वात् अन्यथा तद्विषयमात्र पर्यवसायित्वेन तस्यानर्थकत्वप्रसङ्गात् । क्व तर्हि तस्य ताभ्यामुत्पत्तिरिति चेत् ? धूमादावेव, सपक्षविपेक्षयोस्तत्र सम्भवात् । कथं तत्रापि सपक्षत्वं महानसादेः साध्यस्य तत्राभावात् ? सत्येव तस्मिन् तदुपपत्तेरिति चेत्, न तद्भावात् सपक्षत्वम् , अपि तु पर्वतादिवदग्न्यादिभावात्, पर्वतादेरपि तत एव पक्षत्वात् । एवमप्यग्न्याद्यविना- २ भावस्यैव ततः प्रतिपत्तिर्न साध्याविनाभावस्य, प्रमाणीकृतं च तत्र तदूहज्ञानं शास्त्रकारण, तस्मात् प्रत्यक्षानुपलम्भजन्मा तत्रोहः प्रमाणयितव्य इति चेत्, न; अग्न्याद्यविनाभावग्रहणे साध्याविनाभावस्यापि ग्रहणात्, अग्न्यादरेव शक्यत्वादिविशिष्टस्य साध्यत्वात् । यश्च यादृक् चाग्न्यादिर्न तेन विना धमादिरिति तद्व्यापारात् । ततः सम्भवापेक्षं तस्य तज्जन्यत्वमुक्तं न नियमत इति वयं प्रतिपन्नाः । अथवा,
देवस्य शासनमतीवगभीरमेतत्तात्पर्यतः क इव बोद्धमतीव दक्षः ।
विद्वान्न चेत् स गुणचन्द्रमुनिर्न विद्यानन्दोऽनवद्यचरणः सदनन्तवीर्यः ॥१४५०॥ कथमत्र विपक्षे बाधनमिति चेत् ? उच्यते-विपक्षो नित्यायेकान्तः, तत्र नित्यस्य प्रमेयत्वं यदि तज्जन्मना प्रमित्या नित्यं तत्प्रसङ्गः प्रमितेरनुपरमात् । अन्यजन्मना चेत्; तत्रापि प्रमितिसन्निधौ यदि न प्राग्रूपस्य परित्यागः कथं प्रमेयत्वं प्राग्वदेव ? परित्यागे वा कथं नित्यत्वम् अतादव- १५ स्थ्यात् । प्रमितिप्रागभावस्यैव तदा परित्यागो न नित्यरूपस्य, न चैवमप्रमेयत्वं प्रमितिभावदिति चेत्: न; सर्वस्यापि ततस्तत्त्वप्रसङ्गात् । अप्रतिभासनान्नेति चेत्, सिद्धस्यापि किं प्रतिभासनम् ? तदन्तर्भाव एवेति चेत्, अनिवृत्तः प्रसङ्गः। विषयभावापत्तिरिति चेत्; कथं प्रापस्यापरित्यागः ? इति न किञ्चिदेतत् ।
भवतु अनित्यमेव तत्त्वमिति चेत्; तदपि अयोग्यमप्रमेयमेव व्योमकुसुमवत् । योग्यश्चेत् ; २० कुतो न सर्वस्यापि प्रमेयम् ? नियतं प्रत्येव योग्यत्वादिति चेत् स यदि संसारी न सर्वज्ञस्य प्रमेयम् । सर्वज्ञश्चेत् ; न संसारिणः । उभयोरपीति चेत्, संसारिणः सर्वज्ञत्वं सर्वज्ञयोग्यवस्तुप्रमितौ तेन सर्वज्ञस्य तञ्च प्रमिण्वता तद्विषयस्यापि सर्वस्य प्रमितेः, अन्यथा तस्य तद्योग्यस्य च वस्तुनः प्रतिपत्तुमशक्यत्वात् । नासौ वस्तुनस्तद्योग्यत्वं प्रत्येतीति चेत्; किं पुनः स्वयोग्यत्वादन्यदेव तत् ? तथा चेत्, वस्त्वपि तर्हि तद्भेदाद्भिन्नमेवेति कथं सर्वज्ञवेद्ये तदुपदेशादपि संसारिणः प्रतिपत्तिः २५ जात्यन्धस्येव रूपे चक्षुष्मदुपदेशात् ? तयोरपि कथञ्चिदेव भेद इति चेत्, सिद्धं तर्हि प्रतीतम
१ ऊहस्य । २ "शक्यमभिप्रेतमप्रसिद्धमिति विशेषविशिष्टस्याग्नेः" -ता० टि० । ३ द्रष्टव्यम्पृ०...टि०...। ४ "सर्वमनेकान्तात्मकं प्रमेयत्वादित्यत्र" | ता० टि०। ५ "अनवरतम् । नित्यानवरताजलमित्यमरः।-ता० टि०। ६ 'प्रमेयत्व' -ता०टि०। ७ -ति स चेत् आ०, ब०, । तदन्तभवादेवेति इति स चेत् प० । ८ गगनकु- आ०, ब०, प० । ९ "जनस्य" -ता० टि० । १० “जनम्" -ता० टि०।