________________
१३२ न्यायविनिश्चयविवरणे
[२।१०३ प्रतीतञ्चैकं परस्यापीति यदुक्तमनेकान्तवादिनं प्रति-"अप्रतीतं प्रतीतं चेत्तदेतदतिसाहसम्" [प्र. वार्तिकाल० १।२०५] इत्यादि तत्प्रज्ञाकरस्य स्वगृहं प्रति प्रत्यावृत्तम् । ततो यथाभिमतं निरंशमेव तत्त्वम् , तत्र च
सर्वात्मना दृशौ तस्य सर्वविद्वद्यता दृशेः । सिद्धः सर्वोऽपि सर्वज्ञो वृथा ते बुद्धकल्पनम् ॥१४५१॥ ज्ञानवान् मृग्यते कश्चिदित्यादि प्रवदन्नतः । धर्मकीर्तिः स्ववाचोऽपि तात्पर्य तन्न बुद्धयते ॥१४५२॥ तद्वेद्यत्वमदृश्यं चेददृश्यं सर्वथैव तत् ।।
खण्डशो न हि दृश्यत्वं निरंशस्योपपत्तिमत् ॥१४५३॥ तन्नैकान्तादनित्यस्य प्रमेयत्वं प्रतीतिमत् । नापि स्थूलस्य वस्तुत्वं यन्न तस्य स्वयं मतम् ॥१४५४॥ निष्कलाणुस्वभावं यत्तत्त्वं बौद्धोकल्पितम् । काकदन्तोपमं तत्तत्प्रमेयत्वञ्च तादृशम् ॥१४५५॥ एकान्तभिन्नयो पि स्थूलसूक्ष्मस्वभावयोः । प्रमाणप्रतिवेद्यत्वं तदभेदप्रवेदनात् ॥१४५६॥ ते तन्तवः पटो यन्न तेभ्योऽन्य इति यज्जनः । प्रत्येति वक्ति सर्वोऽपि विवादपरिवर्जितम् ॥१४५७॥ पैटस्तन्तुष्विहेत्यादि शब्दा एव परं तथा । न प्रत्ययो यतस्तेनाभेदप्रत्ययबाधनम् ॥१४५८, शब्ददृष्टिकृतेनापि तेन तस्य विबाधने । सर्वेकत्वधिया बाधः सर्वभेदधियो भवेत् ॥१४५९॥ ततो द्रव्यादिभावानां तात्त्विकानामभावतः ।
अवैशेषिकमेवेदं जगत् सर्वमुपस्थितम् ॥१४६०॥
तन्न सर्वथैकान्तस्य प्रमेयत्वमिति । विपक्षे बाधकसामर्थ्यादेव ततस्तद्विश्लेषस्य साधनात् , २५ उपपन्नमेतत्–'सर्वथैकान्तविश्लेष' इत्यादि । ।
ननु प्रमेयत्वं यतः प्रमाणात् तस्य तदेकान्तविषयत्वे नातस्तद्विश्लेषस्य साधनम् , तत्पक्षस्य प्रमाणतः प्रतिक्षेपात् । तद्विश्लेषविषयत्वे तु व्यर्थमनुमानं तत एवं तत्सिद्धः, अन्यथा तत्प्रमितेऽपि तदपरकल्पनयाऽनवस्थापत्तेः। तदपि प्रमाणमनुमानमेवेति चेत्, न; परस्पराश्रयापत्ते:-- अनुमानात्प्रमेयत्वमतश्चानुमानमिति - इति चेत्, न; प्रमाणमात्रादेव अविवक्षितविषयभेदात् तदुप
१ प्र० वा० ११३२। २ चेत्तदृश्यं आ०, ब०, प० । ३ प्र० वा० २।१४६। ४ स्वाष्टषष्टिकृतेनापि आ०, ब०,प०। ५ "सर्वथैकान्तविश्लेषस्य"-ता. टि०। ६ अनुमानप्रमितेऽपि ।