________________
२।१०४] २ अनुमानप्रस्तावः
- १३३ गमात , वादीतरयोस्तत्राविपतिपत्तेः, अन्यथेष्टसिद्धरसम्भवादिति । निरूपितं चैतत्'-'सन्ति प्रमाणानि इष्टसाधनात्' इति । तन्न व्यर्थमनुमानमनवस्थिति, अनुमानादेव विप्रतिपन्नं प्रति तद्विश्लेषस्य साधनात् तत्र चापरस्यानपेक्षणात् । कथमेवं प्रत्यक्षादपि तत्साधनमुक्तम् "न पश्यामः क्वचित् किश्चित्" [ सिद्धिवि० परि० २] इत्यादिना ? न हीदमविप्रतिपन्नविषयम्, तत्र विवादाभावात् । विप्रतिपन्नविषयत्वे तु सति प्रत्यक्षे किमनुमानेनेति चेत्, न, प्रतिपादन- ५ प्रकारस्य वैचित्र्यात्, कदाचित् प्रत्यक्षादेव प्रमाणात कदाचिदनुमानत इति । किं पुनस्तत् प्रमाणं यतः सर्वस्य प्रमेयत्वमिति चेत् ? व्यप्तिज्ञानमेव, तस्य परैरप्यङ्गीकारात्, अन्यथाऽनुमानाऽनवक्लप्तेः । कथं पुनरनेकान्तस्य प्रमेयत्वम् तस्यैकान्तनिवृत्तिरूपत्वेनावस्तुत्वात् ? तत्र च प्रमाणस्याव्यापारादिति चेत्, न, तन्निवृत्तिविशिष्टस्य जात्यन्तरस्यैव तत्त्वात् । न च तादृशं किमपि दृष्टमस्ति यतः संविसम्भं चेतः स्यादिति चेत्, आह
एकं चलं चले न्यैनष्टर्नष्टं न चापरैः ॥१०॥ ___ आवृतरावृतं भागै रक्त रक्तं विलोक्यते । इति ।
एकं शरीराद्यवयवि चलैः भागः पाणितलादिभिः चलं परिस्पन्दात्मकम्, नान्यैरचलैः पादादिभिः । तदेव कथं चलमचलं च युगपदिति चेत् ? उत्तरम्-विलोक्यत इति । दृश्यते हि चलैर- ' चलैश्चावयवैः तदेव चलमचलं च । न च दृष्टमनुपपन्नं सर्वत्र प्रसङ्गात् । भ्रान्तं तद्दर्शनम् अवयवचलन- १५ स्यावयविन्यारोपादिति चेत्, न; अदृष्टे तदयोगात् व्योमकुसुमवत् । दर्शनं च तस्य न परं चलनदर्शनात् । अप्रतिपत्तेः अस्तु तदेवेति चेत् ; न; तद्विषयत्वे चलनवत् अवयविनोऽप्यवस्तुत्वापत्तेः । अभ्रान्तमेवावयविनि तदिति चेत् कथमेकमेवाभ्रान्तं तंदूर्ध्वं च विरोधात् ? अविरोधे वा किमेकमेवावयवि चलमचलं च न भवेत् , अस्यापि प्रतीतेः ? भ्रान्तं च तदर्शनं तदा भवति यदि चलेष्वेव भागेषु कदाचिदवयविरूपमचलमुपलभ्येत, न चैवम् तच्चलने नियमतस्तस्यापि चलत एव २० प्रतिपत्तेः । तथापि विभ्रमे चलनावयवेऽपि स्यात् । ततो न क्वचित् क्रिया नाम तात्त्विकीति निविषयं तल्लक्षणप्रणयनम् । ततो भागवद्भागिनोऽपि चलनमितरच्च तात्त्विकमेव दृष्टत्वात् ।।
तथा हि तदेवैकं नष्टैः छेदभेदादिप्रध्वस्तैरङ्गुल्यादिभिनष्टं न च नैव अपरैः अनष्टैः पाणिपादादिभिः । कुत एतत् ? विलोक्यते प्रतीयते यत इति । नष्टमेव तत् कारणविनाशे कार्यस्यापि विनाशात् । कारणं हि अवयविद्रव्यस्यावयवसंयोगः, “संयोगानां द्रव्यम्" [ वैशे० सू० २५ १।१।२७ ] इति सूत्रात् । तस्य च कर्मजात् तद्विरोधिनोऽवयविविभागात् विनाशे कथं न तत्कार्यस्य विनाश इति चेत् ? किमेक एव तस्य तत्संयोगो हेतुः ? तथा चेत्, न; "संयोगानां द्रव्यम्" इत्यस्य विरोधात् । अन्ये ऽपीति चेत् तेषामप्येकतत्संयोगेन सह विनाशे कथमिदमुक्तम्-"एकाव
१ न्यायवि० श्लो० २ । २ -क्षादावपि तत्सा-आ०, ब०, प० । ३ “सविश्वासम्, समौ विस्रम्भविश्वासौ इत्यमरः।"-ता०टि०। ४ स्यादित्याह प०। ५ श्रविप्रतिपत्तेरस्तु आ०, ब०, प०। ६भ्रान्तमेव । ७"अवयविनि दृश्यमानस्य चलनस्य भ्रान्तदर्शनविषयत्वेनावस्तुत्वं यथा ।"- ता०टिल। ८ भ्रान्तञ्च ।