________________
न्यायविनिश्चयविवरणे
[ २१०४
यवसंयोगविनाशात् पूर्वद्रव्यविनाशं अवस्थितसंयोगेभ्यः अवयवेभ्यः द्रव्यान्तरमुत्पद्यते ।" [ ] इति ? कुतश्च तेषां विनाश: : विभागादेव कर्मजादिति चेत्; न; निष्क्रियेषु तस्याभावात् । सक्रियेषु सम्भवतोऽपि तत्संयोगस्यैव नाशात्, तत एव तदन्तराणामपि विनाशे परमाणुपर्यन्तस्तत्प्रसङ्ग इति न घटविनाशे कपालान्यप्युपलभ्येरन् । अविनाशे ५ कथं कार्यविनाशः सति हेतौ तदनुपपत्तेः ? एकस्य तस्य विनाशादिति चेत्; आश्चर्यमेतदेकस्य विनाशात् तस्य विनाशो ने बहूनाम् अवस्थानादवस्थितिरिति : अवस्थितौ कथं विनाश इति चेत् ? विनाशेऽवस्थितिरपि कथम् मा भूदिति चेत्; विनाश एवं मा भूत् दृश्यत इति चेत्; अवस्थितिरपि दृश्यत एव ' से एवायं देवदत्तरिछन्नाङ्गुलिरपि' इति लोकस्य प्रतीतेः । पूर्वद्रव्यविनाशे द्रव्यान्तरस्याशु प्रादुर्भावेन भेदानवधारणात् भ्रान्तैवेयमेकत्वप्रतिपत्तिरिति १० चेत्; स्थूलघटादिप्रतिपत्तिरपि तथा किन्न भवति : परमाणुष्वेव कुतश्चित् प्रत्यासत्तेः तदुत्पत्तिरिति कैश्चित् परिकल्पनात् । बाधकाभावान्नेति चेत्; न; इतरत्रापि तुल्यत्वात् । कुतः पुनः कार्यद्रव्यस्याविनाशे सति तदीयस्यावयवस्याकाशादेर्विभागः ? छेदभेदादेः कर्मण एवेति चेत्; न तर्हि तस्यावयवान्तरविभागहेतुत्वम् आकाशादिविभागहेतुत्वात् नर्त्तकावयवकर्मवत् अस्ति तस्य तदन्तरविभागहेतुत्वं छेदादौ सत्यङ्गुल्यादेर्विभागप्रतिषत्तेः । ततो न तस्मात्तद्विभागः । तज्जन्मनो १५ विभागादिति चेत्, न तस्यापि स्वतन्त्रावयव गतस्यैव तद्धेतुत्वोपपत्तेर्न द्रव्यसम्बन्धा (द्धा) वयवगतस्य । कुत एतत् ? तदाकाशादिविभागस्य द्रव्यविनाशसहचरितस्यैव दर्शनात् । न हि तस्य द्रव्यावयववृत्तिः सहेतु:, तस्यापि सद्रव्यस्यैव दर्शनापत्तेः । ततो ऽस्ति द्रव्यविनाशो विभागस्य विभागान्तरकारिणः तदपेक्षत्वात् । ततः पुनरुत्पन्नं द्रव्यान्तरमेवेति भ्रान्तैव तत्रैकत्वप्रतिपत्तिर्बाधकाभावादिति चेत्, नैवमपि भ्रान्तिः अन्तरा भेदनिर्णये तत्प्रतिपत्तेरेवासम्भवात् । दर्शनमेव भेदस्य निर्णय इति चेत्, न तस्यापि २० निर्णयस्यैव भवद्भिरभ्युपगमात् न सौगतवन्निर्विकल्पस्य । निर्णयस्यापि द्रव्यान्तरप्रादुर्भावाशुभावेनाभिभवात् एकत्वप्रतिपत्तिरिति चेत् व्याहतमेतत् 'निर्णयश्च अभिभवश्च' इति, निर्णयस्याभिभवविरोधित्वात् । अभिभूतं वा कथं तत्सिद्धम् यत एकत्वप्रतिपत्तेर्भावः, अतिप्रसङ्गात् । तथा हिसर्वस्यापि भवेदेवं वादिनः स्वेष्टदर्शनम् । -
I
२५
३०
१३४
. ततो लोक - सिद्धानां बुद्धीनामपि बाधनम् ॥१४४१॥ माभूदेकत्वबुद्धिश्चेत्, काणादत्वं तदा कथम् । अन्तरा भेदमुत्पश्यन् कलत्रादौ प्रवर्तसे ॥१४६२ ॥ कलत्रादि न तद्यस्य न भेदः कण्टकादिना । न भेदोऽप्यस्ति तादृग् यो द्रव्यनाशोत्तरो न ते ॥१४६३॥ यच्चाशुजं कलत्रादि तन्न भेदेन वेदिनः ।
अस्वकीयप्रवृत्तौ च कथं दोषैर्न लिप्यसे ॥१४६४ ॥
१ स चैवा - आ०, ब०, प० । २ बौद्धैः । ३ चेदादौ आ०, ब०, प० । ४ - नाशात्ततो न
आ०, ब०, प० ।