________________
२।१०४] २ अनुमानप्रस्तावः
१३५ एकत्वज्ञानमेष्टव्यं व्यवहारं तदिच्छता ।
भेददृष्टिस्तदा नास्ति तत्कथं तस्य विभ्रमः ॥१४६५॥ यदप्युक्तम्-'न तर्हि इत्यादि; तत्र कस्मात् नृत्यतः हस्तकर्मादेरवयवविभागो न भवति ? तस्याप्रतीतेरिति चेत्; किं पुनरेकावयवनाशे सर्वात्मनाऽवयविनो नाशः प्रतीयते ? तथा चेत्, ततस्तद्विभागोऽपि प्रतीयताम् । कथमेवं 'स एवायं नर्तकः' इति प्रत्ययः तद्विभागात् संयोगस्य तद्धेतुकस्य ५ शरीरस्यापि नाशादिति चेत् ? न; तस्याप्येकावयवविनाशवत् अवस्थितसंयोगावयवात् द्रव्यान्तर एव भावात् । ततो न युक्तमेतत्-'छेदभेदादिकर्म न स्वाश्रयस्याकाशादेविभागमारभते द्रव्यारम्भकसंयोगविरोधिविभागजनकत्वात्, यत्ततस्तस्य तमारभते न तत्तत्तजनकं यथा नृत्यतोऽवयवकर्म, तज्जनकञ्चेदं तस्मान्न ततस्तस्य तमारभते' इति ; साध्याव्यावृत्तत्वेन नृत्यतोऽवयवकर्मणो वैधर्म्यदृष्टान्तत्वानुपपत्तेः। ततो यथा निरवद्यमत्यभिज्ञानगोचरत्वान्न नदवयविनो न विनाशः तथा नष्ट द्वित्रावयवस्यापि । कथं १० पुनरविनष्टस्य नष्टैरपि तै शो विरोधादिति चेत् ? उक्तमत्र 'कथमेकस्य प्रत्ययस्याभ्रान्तस्यैव भ्रान्तत्वम्' इति । प्रतीतेविरोधाभावस्येतरत्रापि तुल्यत्वात् । ततः सूक्तमेतत् 'नष्टैनष्टं न चापरैः।' इति ।
___तथेदमपि, 'आवृतैरावृतं भागः इति । अत्रापि 'नापरैः' इति 'विलोक्यते' इति च योजयितव्यम् । कथं पुनरवयवस्यावारकमवयविनमावृणुयात् अल्पत्वात् कर्षटखण्ड इव गण्डशैलमिति चेत् ? किं पुनस्तस्य तेन संयोगो नास्ति ? तथा चेत्, न; "कारणसंयोगिना १५ कार्यमवश्यं संयुज्यते" [ प्रश० भा० पृ० ६४ ] इत्यस्य विरोधात् । अस्ति चेत् कथं नावृणोति अवयवस्यापि तत एव तेनावरणात् । ततोऽपि व्यापकादेव तस्यावरणं नाव्यापकात्, अव्यापकश्च तस्यावयवावारकेण संयोग इति चेत्, न, यावति संयोगस्तावतः स्वल्पेनापि तदुपपत्तेः । यावत्तावदिति च भेदापेक्षम् , तत्कथं निर्भेदेऽवयविनीति चेत् ? कथं तत्र संयोगस्य कस्यचिदव्यापकलम् ? स्वतस्तस्य स्वल्पत्वादिति चेत्, न; स्वल्पत्वस्य गुणत्वेन संयोगेऽनवक्लप्ते; अवक्लप्तावपि २० कथं तदधिष्ठितस्य तदव्याप्यत्वम् ? अवयविनः तदतिरेकेणापि प्रतीतेरिति चेत्; कथं तदतिरिक्तस्य तस्मादभेदो यत् सभाग एवायं न भवेत् ? कल्पितात् तर्हि तद्भ दात्तस्य तदव्यापकत्वमिति चेत्, न; तस्य द्रव्यत्वेन संयोगानाश्रयत्वात्, कल्पितद्रव्यवादे मतान्तरानुप्रवेशापत्तेः । अवयव्येव तस्याश्रयः, अभेदस्तु तस्याव्यापकत्वमात्रमवकल्षयतीति चेत्, न; व्योमकुसुमादि कल्पितात् ततस्तदनुपपत्तेः । ततो वस्तुभूतादेव भेदात् तस्य तदव्यापकत्वमित्युपपन्नं तदेवावृतमनावृतं चैकमिति, तथाविलोकित- २५ स्यान्यथाकरणायोगात् । एवं तदेवैकं रक्तं रक्तैर्भागैर्नापरैः तथाविलोकनादेव प्रतिपत्तव्यम् ।
____ अथ मतं चलादेस्ततोऽन्तरत्वात् . अचलादिकमेव तत्त्वतस्तत्, ततो न चलाचलादिरूपवत्तया जात्यन्तरस्यावलोकनमिति । तत्राह
___ अन्यथा तदनिर्देश्यम् [ नियमस्याप्यसम्भवात् ] ॥१०४॥ इति ।
१ -स्याविना- ता० । २ "साधनाव्यावृत्तत्वेनेति पाटः।"-ता० टि०। ३ किन्तु विनाश एवेति भावः। ४ बौद्धमतप्रवेशापत्तिः । ५-दिवत्कल्पि- आ०, ब०,प० ।