________________
१३६
न्यायविनिश्चयविवरणे
[२।१०५-६ ___ अन्यथा चलादेन ताप्यमपि तु व्यतिरेक इति प्रकारेण तत् द्रव्यम् अनिर्देश्य पादे चलं पाणावारक्तं विनष्टं चाङ्गुष्ठ इति व्यषदेश्यं न भवेत्, अर्थान्तरेण तदसम्भवात्, अन्यथाआकाशादावपि तदापत्तेः । तदेवाह-नियमस्याप्यसम्भवात्' इति । 'शरीरादिकमेव चैलादि
नाकाशादिकम्' इति नियमस्य अपिशब्दात् तदभेदप्रतिभासस्य च असम्भवात् । सम्भव एव ५ समवायादिति चेत्; तस्य निषेधात् । अभ्युपगम्याप्याह
वृत्तावपि [ न तस्येद विश्वरूपं विभाव्यते ] इति ।
वृत्तौ समवायसंज्ञायां सत्यामपि 'नियमस्याप्यसम्भवात्' इति सम्बन्धः तस्याः शारीरादिवदाकाशादावपि भावात्, तया तदर्थान्तरभावस्याप्रतिक्षेपाचेति मन्यते। तत्रैवोपचयमाह
'न तस्येदं विश्वरूपं विभाव्यते' इति । तस्यैकस्येदं प्रस्तुतं विश्वरूपं द्रव्यं क्रियादिः १० समवाय इत्येकान्तभिन्नानेकान्तरूपत्वं न विभाव्यते कथञ्चित्तस्य तदभेदेनैव विभावनादिति मन्यते ।
तदनभ्युपगमे दोषमाह - __ सम्यग्ज्ञानं व्यवस्थाया हेतुः सर्वत्र तत्पुनः ॥१०॥ - प्रत्यक्षं यदि बाध्येत लक्षणं प्रतिरुद्धयते ।इति ।
सम्यक् निरुपप्लवं ज्ञानं व्यवस्थाया इत्थम्भावेन वस्तुव्यवस्थितेः हेतु निमित्तम् । १५. विनापि तेन तद्वयवस्थायां न कश्चिदपि समीहितसिद्धविकलः स्यात् । ततो न विभ्रमवादादिक
मुषपन्नं तत्र तस्याभावात् । भावे वा तद्वादादनु ( दानु ) पपत्तिरिति मन्यते । तच्च सर्वत्र बालाबलादिप्रसिद्ध नीलपीतादावपि तद्धेतुर्न केवलमनेकान्तात्मनि, तथा च सिद्धा तद्वदेव तस्यापि व्यवस्था सम्यग्ज्ञानमुख्यस्य प्रत्यक्षस्यापि तत्रैव भावात् । भवदपि तत्तत्र बाध्यत इति चेत्; उच्यते-तत्पुनः सम्यग्ज्ञानं प्रत्यक्षमनेकान्तविषयं यदि चेत् तद्विपर्ययकल्पनया बाध्येत तल्लक्षणनीलादेरपि सतस्तस्मात् विषयीकरणं प्रतिरुद्धयते तत्रापि तस्य कैश्चित् स्वप्नादित प्रतिभासवत् बाधपरिकल्पनात् । कल्पनमेव तत्केवलं न कदाचिदपि निराकारस्य वस्तुनः प्रतिपत्तिरिति चेत्, इतरत्रापि समानमेतत्-एकान्तव्यतिभिन्नस्य द्रव्यादेरपि अप्रतिवेदनात् । कथं पुनरनेकान्तस्तात्त्विकः ? कथं च न स्यात् ? तस्य संशयादिदोषेणोपघातादिति चेत्; अत्राह-'सम्यग्ज्ञानम्' इत्यादि । व्यवस्थायाः संशयादिदोषपरिकल्पनायाः सम्यग्ज्ञानमेव हेतुः । वाङ्मात्रात्तद्वयवस्थायामतिप्रसङ्गात् । तथापि किमिति चेत् ? उच्यते-तत्पुनः अनेकान्तरूपं सर्वत्र बहिरिव संशयादिविकल्पेष्वपि प्रत्यक्षं स्वसंवेदनवेद्यं तस्यैव तत्र सम्यग्ज्ञानत्वात् । तथा हि-संशयस्तावत् व्यभिचारीतरतत्प्रतिभासद्वयात्मकत्वात् अनेकान्तात्मकः अभिलाप्येतराकारत्वाच्च, तथा विरोधादिवि- कल्पा अपि । तदात्मकत्वञ्च तत्र सर्वत्र स्वसंवेद्यं “सर्वचित्ताचैत्तनाम्" [ न्यायवि० पृ० १९ ] इत्यादि वचनात् । तत्रापि तद् यदि बाध्येत लक्षणम् अनेकान्ते दोषदर्शनं प्रतिरुद्धयते तथा सति
१ चलितं पा- आ०,ब०,प० । २ चलनादि आ०,ब०,प०। ३ व्यवस्थाहेतुसन्यग्ज्ञानस्य । ४ तद्वाधानुप-ता० ।५ सतस्तेन तद्विष-प्रा०,ब०,प० । ६नीलप्रतिभासवत् ! ७ “स्वसंदेनस्यैव"-ता०टि० ।