________________
२।१०७] २ अनुमानप्रस्तावः
१३७ संशयादेरेव असम्भवात् । कुतश्च तत्रापि तद् बाध्येत ? तदन्यतः संशयादेरिति चेत्, न; तत्रापि तदन्यतः तद्बाधने अनवस्थापत्तेः। न बाध्यत एव तत्र तत्। संशयाद्यनुपक्रान्तस्यैव तत्र तस्य निर्णयादिति चेत्; अनुकूलमाचरसि, परत्रापि तादृशस्यैव प्रतिपत्तेः । पुनरपि तदनभ्युपगमे दूषणमाहसाङ्कय व्यवहाराणां सन्निवेशविशेषतः॥१०६॥
५ नानकपरिणामोऽयं यदि न व्यवतिष्ठते । इति ।
न व्यवहाराणां प्रवृत्त्यादिरूपाणां साङ्कर्यम् इष्ट प्रवृत्त्यादिवत् इतरस्य अनिष्टेऽपि निवृत्त्यादिवत् तद्विपर्ययस्य 'भावः स्यात्' इत्युपस्कारः । कदा ? नानैकपरिणामोऽयं प्रतीयमानो यदि न व्यवतिष्ठते तद्व्यवस्थितौ न स्यादिति भावः । तथा हि-तदनवस्थितौ कस्य प्रवृत्तिः ? चित्तक्षणस्येति चेत्, न; पूर्वापरीभावप्रसङ्गात् प्रवृत्तेस्तद्रूपत्वात् । तत्सन्तानस्येति चेत्, न; वस्तुत- १० स्तस्यासत्त्वात् । कल्पनया सन्नेव स इति चेत्; न; तस्यापि वन्ध्यासुतवत् तदसम्भवात् । सापि कल्पनयैवेति चेत्; अप्रवृत्तिरपि तयैव स्यात् । प्रवृत्तिमेव कल्पयति लोक इति चेत्; तदनुसरणेन नानैकपरिणामस्यैव सिद्धिः स्यात् "भूतग्रामः स एवायं भूत्वा भूत्वा निवर्तते ।" [ ] इति तन्मतप्रसिद्धः।
किञ्च, कल्पनं सन्तानस्य हेतुफलभावादेव सादृश्योपाधिकात् । तत्र चोक्तं सुगतेतर- १५ ज्ञानयोरपि तत्कल्पनमिति । सुगतवत् इतरस्याप्रवृत्तिरितरवच्च सुगतस्य प्रवृत्तिरिति सुव्यक्तं तत्साङ्कर्यम् । क्व वा प्रवृत्तिः ? द्रव्यादाविति चेत्, न; तस्य निरंशाणुरूपस्याप्रतिपत्तेः। तदणुव्यूहरूप इति चेत्; न; तस्य वस्तुवृत्तेनासत्त्वात् । कल्पनया सत्त्वमिति चेत्, न; तत इष्टसिद्धरसम्भवात् । सम्भवे तव्य हान्तरादपि करभाभिधानात् तत्प्रसङ्गः । तथा चकल्पनासत इष्टं चेत् तद्विशेषनिराकृतेः ।
२० चोदितो दधि खादेति किमुष्ट्र नाभिधावति ॥१४६५॥ विशेषः कल्पनातश्च देविशेषस्ततो न किम् ? प्रवृत्तीतरसाङ्कयं यतो न स्याद् द्वयोरपि ॥१४६६॥ . विशेष एव तत्रास्ति यदि लोकधिया तदा। नानैकरूपं तत्त्वं स्यात्तन्मत्येति निवेदितम् ॥१४६७।।
२५ तथा, यौगादेरपि तत्साङ्कयं दधनि दधित्ववत् करभत्वस्य करमेऽपि करभत्ववत् दधित्वस्य तद्धेतोः समवायेन भावात् । नहि नियामकस्याविशेषे नियमः, नियाम्यस्य तस्यातन्निबन्धनत्वप्रसङ्गादिति सूक्तम्-‘साङ्कर्य व्यवहाराणाम्' इति । नानकपरिणामेऽपि कुतो न साङ्कयं दध्नः स्वपर्यायैरिव
१ 'अनेकान्तरूपम्" -ता० टि०। २ "अध्याहारः, सम्पयु पात् कृाः सड्भूषसमवाये, [शाकटा० ४।२।२११] उपाद्विकारप्रतियत्नवाक्याध्याहारे [ ४।२।२१२ ] सड्-ता० टि०। ३ तस्य आ०, ब०, प० । ४ तदनुसारणेन आ०, ब०, प० । तदनुसारेणैव । ५ पृ०...टि... ६ "दध्युष्ट्रयोः" -ता० टि०।
१८