________________
१३८ न्यायविनिश्चयविवरणे
[२।१०८ तेषां च तद्रव्येणेव करभादिपर्यायद्रव्यैरपि तत्परिणामस्यानिवारणादिति चेत्, न; स्वद्रव्यपर्यायापेक्षयैव वस्तुषु तस्य प्रतीतेः, तत एव तत्र तेस्य निवारणात् । निरूपितं चैतदसकृत् । अत एवोक्तम्'सन्निवेशविशेषतः' इति । अयमर्थः-सन्निवेशो नानकरूपयोः कथञ्चिदविष्वग्भावस्तस्य
विशेषः प्रतीतिप्राप्त साङ्कर्यादिवैकल्यं ततः तत्परिणाम इति । कुतश्चायं निरंशवादे वस्तुषु ५ स्थूलप्रतिभासः ? न चायं नास्ति; प्रसिद्धत्वात् । एकार्थकारित्वादिति चेत्, न; अर्थस्याप्यणुरूपस्या
प्रतिवेदनात् । स्थूलप्रतिभासरूप एव सोऽपीति चेत्, न; तस्याप्यन्यतस्तत्कारित्वात् प्रतिभासकल्पनायामनवस्थानात् । तन्न तत्कारित्वम् , सत्यपि तस्मिन् न ततस्तत्प्रतिभासो व्यभिचारात् । अस्ति हि तत्कारित्वमिन्द्रियालोकादीनाम्, न च तत्र स्थूलैकप्रतिभासः, विषये चोदिता प्रवृत्तिरिन्द्रियादावपि स्यात् । एतदेव दर्शयन्नाह
सत्यप्येकार्थकारित्वेऽसंश्लेषपरिणामतः ॥१०७॥
इन्द्रियादिषु नैकत्वं यदि किं वा विरुद्धयते। इति ।
वाशब्दोऽयमिवार्थः, इन्द्रियादिष्वित्यस्यानन्तरं द्रष्टव्यः। तदयामर्थः-सत्यपि विद्यमानेऽपि एकार्थकारित्वे एकप्रत्यवमर्शायेकप्रयोजननिष्पादकत्वे दध्यादिव्यपदेशविषयेषु नैकत्वं नैकप्रत्यय
विषयत्वम् । कस्मात् ? असंश्लेषपरिणामतः ऐकान्तिकात् नानात्वपरिणामात् 'इन्द्रियादिषु वा' इत्यत्र १५ दृष्टान्तः । तथा हि-नि प्रकृताः परमाणवः एकप्रत्ययविषया एकान्ततो विश्लिष्टत्वात् इन्द्रियादिवत्'
इत्यत्र परस्य पर्यनुयोगः 'यदि किम्' इति । यदि नैकत्वं किम् ? न किञ्चिदूषणमिति । अत्रोत्तरम्विरुद्धयते इति । व्यवहार इति 'व्यवहाराणाम्' इत्यस्य विभक्तिवचनपरिणामेन सम्बन्धः । तथा हि-यदि विश्लेषेऽपि विवक्षितेष्वणुषु प्रवृत्तिः किन्न व्यहान्तरयतेषु ? तैरेव तदभिमतस्य करणादिति चेत्, उक्तमत्र-दनि चोदिता प्रवृत्तिरिन्द्रियादावपि स्यात् तदविशेषादिति । ततो वस्तुषु व्यवहारनियममिच्छता तात्त्विकमेव तेष्वेकत्वमभ्युपगन्तव्यम् । तदपि न संयोगसाहाय्यात् ; यतः संयोगस्य कात्स्न्यैकदेशाभ्यामयोगात् तदयोगः प्रकल्प्येत अपि तु तथैव परिणामात् । न हि तत्र तत्साहाय्येन किञ्चित्, अन्यथा तत्परिणामेऽपि तदपरपरिणामोपकल्पनायामनवस्थापत्तिः । न चैवं "भेदसङ्घाताभ्यां चाक्षुषः" [ त० सू० ५।२८ ] इति सूत्रविरोधः; सङ्घातशब्देनापि तत्परिणामसमर्थव्यवधान
विकलस्य वस्तुस्वरूपस्यैवाभिधानात् , नैकदेशादिना परस्परानुप्रवेशे स्वतः सांशत्वमणूनां पिण्डस्य १० वाऽणुमात्रत्वम् । वक्ष्यति चैतत्-"नैरन्तयं निरंशानाम्" इत्यादिना । ततः सति सङ्घाते तस्मादसति
तु स्कन्धादेव स्कन्धस्योत्पत्तिः, अत एव भेदग्रहणम् । न हि भेदात्तदुत्पत्तौ सङ्घातः, घटस्कन्धादेव मेदिनोऽनेकस्य कपालस्कन्धस्योत्पत्तिदर्शनान् । अभिन्नात्तर्हि कथमभिन्नस्योत्पत्तिः सूत्रेण तदनुक्तेरिति
१ दधिद्रव्येणेव । २ सार्यस्य । ३ "एकप्रत्यवमाधेकप्रयोजन-निष्पादकत्वात्" ता०टि०।४प्रतिरूप आ०,ब०,प० ।५-तत्कार्यत्वात् आ०,ब०,प० । ६ एकत्वमपि । ७ "सर्वात्मना" -ता० टि० । ८-प्रवेश्य स्वतः आ०, ब०। प्रवेश्यस्ततः प०।९ "एकदेशेन सम्बन्धे परमाणोः षडंशता। सर्वात्मना तु सम्बन्धे पिण्डः स्यादणुमात्रकः।" -ता०टि०। १० न्यायवि० श्लो० २८३। ११ तथापरिणामरूपात संघातात् । १२ "अभिन्नात् मृत्पिण्डादेः अभिन्नस्य शिवकादेः" -ता०टि०।
२०