________________
१३९
२।१०९]
२ अनुमानप्रस्तावः चेत् ? न; सङ्घातशब्देन अभेदस्याप्यभिधानात् । 'द्विविधो हि सङ्घातो नैरन्तर्याभेदविकल्पात् । ततो नाऽयुक्तम् अणोरण्वन्तरस्येव स्कन्धादपि स्कन्धस्योषजननम् । ततो न स्वलक्षणैकान्तवादसम्भवः । कथं पुनः स्कन्धादपि स्कन्धस्योत्पत्तिः ? कथं च न स्यात् ? 'विवादापन्नः स्कन्धस्तदवयवसंश्लेषपूर्वकः स्कन्धत्वात् पटवत्' इत्यनुमानेन तत्प्रतिक्षेपादिति चेत् न; शिवकस्य पिण्डादेवोत्पत्तिदर्शनात् ? तदेव तेन प्रतिक्षेषादप्रमाणमिति चेत् ; तन्तुषटभेददर्शनमपि स्यात् सर्वाभेदस्यापि कैश्चिदनुमानात् । ५ तथा च कथन्न साध्यसाधनविकलो दृष्टान्तः स्यात् ? अपरिस्खलद्रूपतया "लोकैः परिगृहीतत्वात् , तद्भेददर्शनमेव तस्य प्रतिक्षेपकं न तत्तस्येति चेत् ; समानमितरत्रापि ।
किञ्च, शिवकस्य तदवयवाः सहजन्मानः, पूर्वजन्मानो वा हेतवः स्युः ? पूर्वजन्मान इति चेत्; कुतस्तथा नोपलब्धिः तन्तुवत् ? अस्त्येवेयं केवलमाशुभाविन्या शिवकोपलब्ध्या तिरोधानान्नोपलक्ष्यत इति चेत्; अनुपलक्षिता कथमस्ति ? भवति चैवमतिप्रसङ्गः-'शिवकोऽपि प्रागेवास्ति, १० तदुपलब्धिरपि केवलं कुतश्चित्तिरोभावान्नोपलक्ष्यते' इति वदतोऽपि दुर्निवारत्वात् । तर्हि मा भूदुपलब्धिरेव तेषाम् अयोग्यत्वादिति चेत्, आरब्धशिवकानामपि न भवेत् तदापि तद्रूपापरित्यागात् । तत्परित्यागे वा कथन्न परिणामवादः-तत्परित्यागेन तद्योग्यस्वभावोपादानात् ? तयोस्ततो भेदान्नेति चेत्; कथमेवं तौ तस्य॑ ? तत्र समवायादिति चेत् सोऽपि यदि युगपत् तदुपलब्ध्यनुपलब्ध्योरपि यौगषद्यप्रसङ्गः । क्रमादिति चेत्, कुतः क्रमः ? स्वकारणादिति चेत्; ननु अवयवा एव तत्र समवायिकारणम् , १५ ततश्चाक्रमात् कथं तत्क्रमः तदक्रमस्यैवोपपत्तेः, अन्यथा तस्य निर्हेतुकत्वप्रसङ्गात् वक्तव्य एव कारणस्यापि क्रम इति कथन्न तद्वादः ? तत्क्रमस्यापि क्रमान्तरसम्बन्धादेवाभ्युपगमे अनवस्थापत्तेः । ततः पश्चादपि तस्यापरित्याग एवेति कथं शिवकस्याप्युपलब्धिः अवयवोपलम्भविकलस्य तस्याप्रतिपत्तेः क्षणिकस्वलक्षणवत् । तन्न पूर्वजन्मनां तेषां तद्धेतुत्वम् । नापि सहजन्मनाम् ; अनिष्पन्नानां तदयोगात्। निष्पन्नानाञ्च सहनिष्पन्न प्रत्यनुषयोगात् । तन्न तस्य तदवयवसंश्लेषपूर्वकत्वसाधनमुपपन्नं प्रत्यक्ष- २० प्रतिपन्नस्य स्कन्धपूर्वकत्वस्यैवोपपत्तेः । कथं तर्हि तत्र अवयवावयविव्यपदेशो जन्यजनकभावाभावे तदयोगादिति चेत् ? न; तदभावेऽपि तथापरिणामादेव तद्व्यवस्थितेः । ततः सूक्तम्'साङ्कय व्यवहाराणाम्' इत्यादि । अस्यैव तात्पर्य विस्तरतो व्याख्यातुकाम आह
तदनेकार्थसंश्लेषविश्लेषपरिणामतः॥१०॥ स्कन्धस्तु सप्रदेशोंऽशी बहिः साक्षात्कृतो जनैः । इति । २५
तत् तस्मादनन्तरन्यायात् अनेकोऽवयवोऽर्थोऽवयवी तयोः संश्लेषश्च सङ्घातः विश्लेषश्च भेदः परिणामश्चाकारान्तरागमनं तेभ्यस्ततः स्कन्धः। तु शब्दोऽवधारणे तत एवायं न
१ विविधो आ०, ब०, प० । २ शिवकस्य पिण्डोत्पत्तिदर्शनमेव । ३ "श्रप्रमाणं स्यादिति सम्बन्धः" -ता० टि० । ४ वेदान्तिभिः । ५ लोके परि-पा०, ब०, प० । ६ ततो भेद-आ०,ब०,१० । ७ "उपलब्ध्ययोग्यत्वतद्योग्यत्वस्वभावयोः" - ता० टि०। ८ 'तस्येति जात्येकवचनम्, शिवकावयवानामित्यर्थः ।" -ता० टि०।९-यवार्थोऽव- आ०, ब०, प०।