________________
१४० न्यायविनिश्चयविवरणे
[२।१०६-११० प्रकारान्तरादिति । तत्र संश्लेषोऽनेकस्य विश्लेषपरिणामावर्थस्येति प्रतिपत्तव्यम् । दृश्यते हि तद्विश्लेषादपि स्कन्धो घटभेदजन्मनः कपालस्कन्धस्य प्रतीतेः । घटकालेऽपि तत्स्कन्धो विद्यत एवेति चेत्, सत्यम् ; तदा तदात्मनो भावो न केवलस्य, तस्य तु तत एवोत्पत्तिः तथा दर्शनात्, अन्यथा न कस्यचिदपि कुतश्चिदुत्पत्तिः । एवमपि किं विश्लेषग्रहणेन परिणामत इत्येव गतत्वात्, कषालस्कन्धस्यापि प्राक्तनतदवयव्यभिन्नाकारपरिहारेण तद्भिन्नाकारस्योत्पत्तेरिति चेत् ; न; विश्लेषस्यापि तद्विशेषत्वात् , किमर्थं तर्हि पृथग्वचनमिति चेत् ? मुद्गरादिसन्निपातात् केवलं नाश एव घटस्य कपालस्कन्धस्तु प्रागपि विद्यते इति मतव्युदासार्थम् । तत्परिणामात्तु तदुत्पत्तिरभिहितैव । अनेकसंश्लेपातु तद्वचनं दृष्टान्तार्थम्, परस्यापि प्रसिद्धत्वात् । तत्रायं प्रयोगःयद् यतो दृश्यते तत्तत एवोत्पत्तिमत्,
यथा अनेकसंश्लेषाद् दृश्यमानस्तत एव स्कन्धः, दृश्यते चार्थविश्लेषपरिणामाभ्यामपि कपालशिव१० कादिस्कन्ध इति ।
स च स्कन्धः सप्रदेशः स्वतः कथञ्चिदभिन्नावयवः सहशब्दस्याभेदवाचित्वात् , अत एव अंशी न भिन्नावयवसमवयात् , तस्य निराकरणात् । न चात्र विप्रतिपत्तिः प्रामाणिकस्य साक्षादेव निरीक्षणात् । अत एवोक्तम्- 'बहिः साक्षात्कृतो जनैः” इति ।
इदानीं तत्साक्षात्करणेनैव विपक्षाभ्युपगमं प्रतिक्षिपन्नाह
नानाकारकविज्ञानं स्वाधारे बदरादिवत् ॥१०॥ तादात्म्येन [पृथग्भावे सति वृत्ति विकल्प्यते । ] । इति ।
आकारो भागः ततो भागाद् भिन्नम् अनाकारमेकमवयविद्रव्यं तस्य विज्ञानं स्वबुद्ध्या कल्पनम् । क तत् ? स्वाधारे अवयवकलापे । किंवत् ? बदरादेरिव तद्वत् । यथा बदरादेः स्वाधारे
विज्ञानं कुण्डे बदरादिरिति तथा अवयविनोऽपि कपालेषु घट इति यद्विज्ञानं परस्य तत् न । केन ? २० तादात्म्येन । तादात्म्यमवयवतद्वतोः कथञ्चिदभेदः तज्ज्ञानमिह तादात्म्यं विषयशब्देन विषयिणोऽभि
धानात् । तेन नहि तत्राभेददर्शने भेदकल्पनमुषपन्नम्, सर्वत्र दृष्टविपर्ययकल्पनापत्तेः । भेदेदूषणान्तरमप्याह-'पृथग्भावे सति वृत्तिर्विकल्प्यते' इति । अवयवतद्वतोरेकान्ततः पृथग्भावे हि वृत्ति गेषु तद्वतः सम्बन्धो विकल्प्यते- 'किमेकदेशेन सर्वात्मना वा' इति । तत्र च दोषो
भवति अनवस्थानादिति मन्यते । नास्ति तत्र तद्विकल्पः तस्य भेदनिष्ठत्वात् अवयविनश्च निर्भेदत्वात् १ ततो न देशतो नापि कायंतस्तस्य तत्र वृत्तिरपि तु स्वरूपेणैव तथा दर्शनादिति चेत्, भवेदेवेदं यदि तथादर्शनं लभ्येत । न चैवम् , कथञ्चित्तदभेदस्यैवोपलम्भात् । तदेवाह- .
दर्शनादर्शने स्यातां सप्रदेशाप्रदेशयोः ॥११०॥ इति । संप्रदेशो जैनस्यावयवी यौगस्य अप्रदेशः तयोर्यथाक्रमं दर्शनमदर्शनं च स्याताम् ।
१ “घटात्मनः" -ता० टि० । २ -त्पत्तिरिति आ०, ब०, प० । ३ संश्ले- आ०,ब०, प० । ४ षात्तद-आ०, ब०, प०।५ "स्वतः कथञ्चिदभिन्नावयवः" -ता० टि०।६"प्रदेशेभ्योऽवयवेभ्यो भिन्नः प्रदेश: -ता०टि०।