________________
२।१११-११२ ] २ अनुमानप्रस्तावः
१४१ विधिपदं तदस्तित्वज्ञापनार्थं विधेरज्ञातज्ञापनार्थत्वात्, ततो न स्वरूपेणापि वर्तनं तस्येत्यभाव एवोते मन्यते । अथवा दर्शनमवयविनोऽवयवेषु वृत्तिरिति मतम् । अदर्शनं तद्विपर्ययस्ते स्याताम् । कयोः ।। सप्रदेशाप्रदेशयोः भावप्रधानोऽयं निर्देशः। ततः सप्रदेशत्वे दर्शनमप्रदेशत्वे च अदर्शनमित्यर्थः । नहि प्रदेशनिष्क्रान्तस्य केवलस्य तत्र वृत्तिर्नाम । असिद्धस्तन्निष्क्रम इति चेत् ; न; पाणेराकाशाद्विभागेऽपि देहस्य तदविभागेन तत्प्रसिद्धः । न हि पाणेस्तद्विभाग एव देहस्यापि तद्विभागः तस्य तत्का- ५ यत्वात् । “पाण्याकाशविभागात् तत्संयोगविनाशसव्यपेक्षात् देहाकाशविभागः ।' [ ] इति स्वयमभ्युपगमात् । ततो विभक्तेऽपि तस्मिन् स्वयमविभक्तस्य न तत्र वृत्तिः द्रव्यान्तरवत् । विभज्यत एव सोषि तस्मादिति चेत् ; न; पाणिविभागावस्थायां तदभावात् । न चैकस्यैव निष्पर्यायं तत्र वृत्तिरवृत्तिश्चोपपन्ना विरोधात् वृत्तिरेव नावृत्तिः । सपदेशवृत्तैरेव तस्यापि वृत्तित्वात्, इतरत्रावृत्तिरेव तस्याप्यवृत्तिः किन्न स्यात् ? वृत्तरेव तत्र दर्शनादिति चेत्, न; इतरत्रापि विपर्ययस्यैवो- १० पलम्भात् । तयोस्तत्राविरोधे वा अवयवभेदाभेदात्मकत्वस्याप्यविरोधाद्वयर्थं तदेकान्तभेदकल्पनमिति मन्यते । भवतु तहिं भवत्परिकल्पितस्यापि स्कन्धस्याभावो भेदाभेदयोरेकत्र विरोधादिति चेत् ; अत्राह
विरोधानुपलम्भेन किल स्कन्धो विरुद्धयते । इति । __ स्कन्धोऽवयवी विरुद्धयते विघट्यते किल 'नेति' इत्यर्थः । किलशब्दस्यारुचि- १५ सूचकस्य तात्पर्यतो नँअर्थत्वोपपत्तेः । केन न विरुद्धयते ? विरोधस्य सहानवस्थानादेरनुपलम्भोऽदर्शनं तेनेति । तथा हि-न तयोः सहानवस्थानम् ; सहैव प्रतिपत्तेः । नापि परस्परपरिहारः; कथश्चित्तदपरिहारस्यापि प्रतीतेः, कथञ्चित् परिहारस्य च तत्सिद्धयनुकूलत्वात् । कथं पुनस्तादृशस्यापि दर्शनम् ? कथं च न स्यात् ? अर्वाग्भागदृष्ट्या परभागादेरपि दर्शने तदनुमानाभावप्रसङ्गात् । अदर्शने तदभेदात् अर्वाग्भागस्याप्यदशनमित्यनुपलम्भादभावस्यैव प्राप्तेरिति चेत् । अत्राह
२० सम्भवस्यपि मात्राणां दर्शनादर्शनस्थितिः॥१११॥
इदं विज्ञानमन्यद्वा चित्रमेकं यदीक्ष्यते । इति ।
योग्यपेक्षया केवलं न सम्भवत्यपि तु छद्मस्थापेक्षया सम्भवत्यपि दर्शनादर्शनयोरुषलम्भानुपलम्भयोः स्थितिरविचलनम् । कासाम् ? मात्राणां स्कन्धभागानाम् । कुत एतत् ? इदं पुरोवर्ति स्तम्भादि चित्रं नानारूपमेकं च यत् यस्मात् ईक्ष्यते दृश्यते इति । तात्पर्यमत्र यद्येकान्तेन २५ मात्राणामभेदस्तदा भवति दर्शनमेवान्यदेव वा इत्येकान्ते, न चैवम् , कथञ्चित्तासां भेदस्यापि प्रतिपत्तेः । ततो नाऽयुक्तं तासामर्वाचीनानां दर्शनम् , अदर्शनं च पराचीनानामितीक्ष्यते इति । अनेनापि
"चित्रं तदेकमिति चेदिदं चित्रतरं ततः" [ प्र० वा० २।२०० ] इति प्रतिक्षिप्तम् ; ईक्षिते अनुपपत्तेरसम्भवात् । तदपि युक्त्यसङ्गतमनुषपन्नमेवेति चेत्, न; ईक्षणस्यापि युक्तित्वात् ,
१ देहाकाशविभागस्य । २ पाण्याकाशविभागकार्यत्वात् । ३ -ति कि- प्रा०, ब०, प० । ४ नार्थ-प०। ५ “ सौगतवैशेषिकप्रश्नयोः' -ता० टि०। ६ दृष्टे वस्तुनि । ईक्षितेरनुप- आ०,ब०,प० ।