________________
१४२
न्यायविनिश्चयविवरणे
अन्यथा ऽनुमानस्यापि न तत्त्वं तदुपाश्रयादेव तस्याप्यवस्थितेः, ततो दुर्भाषितमिदम् । “युक्त्या यन घटामुपैति तदहं दृष्ट्वापि न श्रदधे ।" [ ] इति । दृष्टावश्रद्धायां युक्तेरेवानुमितिरूपाया असम्भवात् तया गगनकमलिन्येव कस्यचिद्धटनाघटनयोरनुपपत्तेः । तत्सम्भवे वा कथं दृष्टावश्रद्धानम् ? यतः, दृष्ट्वापीत्यादि शोभेत । किञ्च युक्तिरप्यन्यया युक्तया श्रद्धेया घटनाद्यदि । तदान्ययैव साप्यन्येत्यनवस्था प्रसज्यते ॥ १४६८ ॥ स्वत एव यदि श्रद्धा युक्तौ दृष्टा न किं तथा । व्यभिचारावलोकाच्चेयुक्तौ किन्नैष विद्यते ॥ १४६९ ॥ हेत्वाभासोषजातायां तस्यां भूयस्तदीक्षणात् । युक्तिरेव न सा तस्या युक्तया भासत्वतो यदि || १४७०॥ दृष्ट्याभासैव सापि स्याद्यत्रास्ति व्यभिचारिता । तथाच सति दृष्ट्वाघटीति न ते वचः ॥१४७९ ॥ दृष्ट्या भासावबुद्धस्य दृष्टत्वा नवकल्पनात् । लोकरूढ्या तथोक्तिश्चेत् साक्षाद्दृष्टं न दुर्घटम् ॥१४७२।
निदर्शनमत्र 'विज्ञानमन्यद्वा' इति । प्रत्यक्षविषये किं तेनः अन्यथा तत्रापि तदन्तरकल्पनेऽनवस्थाप्रसङ्ग इति चेत् ? सत्यम् ; तथापि प्रत्यक्षव्यापारमतिक्रम्य वैयात्याद् दोषमुद्धोषयतो निवारणार्थं तद्वचनम् । न चैवमनवस्थानम् ; अविप्रतिपत्तिस्थाने तदन्तरस्याऽनवकल्पनात् । तादृशं च पैरस्य विकल्पेतरविभ्रमेतराद्यात्मकं चित्रैविज्ञानम् । तथा वैशेषिकस्य विज्ञानाद् अन्यत् पटचित्ररूपम् । न हि तदेकमेव; चित्रावभासनात् । नाप्यनेकम्; “युगपदेकत्र बहूनि कर्माणि न २० वर्तन्ते सजातीयत्वे समानेन्द्रियग्राह्यत्वे एकद्रव्यत्वे च सत्यविभुद्रव्यवृत्तित्वात् रूपवत्" [ [] इत्यत्र निदर्शनस्य बाध्यवैकल्यापत्तेः । ततः शबलैकस्वभावमेव तत् । निरूपितं चैतत् स्वयमेव - " गुणाश्च गुणान्तरम्" [ वैशे० सू० १|१|१०] इत्यत्र सूत्रे । वाशब्दोऽयमिवार्थः, ततो यथा तद्विज्ञानं तच्च रूपं चित्रैकस्वभावमपि संशयादिना नोपपीड्यते, तस्यैव तदनुभवेनोपपीडनात्, तथा स्तम्भादिकमपि तथाविधमिति तात्पर्यम् । भवतु चित्रमेकवस्तु तथापि कुतः कस्मिन् २५ सति मात्राणां दर्शनादर्शनस्थितिरिति चेत् ? अत्राह -
१०
१५
[ २।११२
अवान्तरात्मभेदानामानन्यात् सकला ग्रहे ॥ ११२ ॥ इति । सकलविषय साक्षात्कारिज्ञानसम्पन्नात् आत्मनोऽन्ये आत्मानो अवान्तरात्मानः संसारिणः तेषां भेदाः शक्तिरूपा विशेषाः तेषामानन्त्यात् अन्तो विषयस्य परभागादिः स न
१ उद्घृतमिदम् - अष्टश० अष्टसह० पृ० २३४ । २ - द्युक्त कि- आ, ब०, ०प । ३ " इदं चित्रमेकं यदीक्ष्यते इत्यत्र " - ता० टि० । ४ "सौगतस्य" - ता० टि० । ५ चित्रं. वि- आ०, ब०, प० । ६ संशयादेरेव । ७ श्रन्त्यो आ०, ब०, प० ।