________________
१४३
२।११३-११५]
२ अनुमानप्रस्तावः विद्यते विषयत्वेन येषां तेषां भावात् आनन्त्यात् सन्मात्रवस्तुधर्मे तेषामप्रवृत्तेः । सकलाग्रहे सति तासां तत्स्थितिरिति । कथमेवमपि दृष्टस्यैवादृष्टोऽपि भाग इति प्रतिपत्तिः ? ने तदर्शनादेव; तस्य तत्राप्रवृत्तेः । नापि तद्विषयात् दर्शनान्तरात्; तस्य दृष्ट प्रवृत्त्यभावात् । अत एव नोभाभ्यामपि । न च तदेकं तद्विषयमस्ति । सकृत्तस्य भावे दृष्टेतरविभागानुपपत्तेः । क्रमेण भावे परापरतत्कारणवैफल्यम् आदितद्व्यापारादेव तस्योत्पत्तेरिति चेत् ; अत्राह
नानाकारणसामोज्ज्ञानं भेदेन भासते ॥११३।। इति ।
नाना यत् कारणं परापरचक्षुरादिव्यापारलक्षणं तस्य सामर्थ्यात् ज्ञानं रूपादिप्रत्यक्षं भेदेन तदुत्पन्ननानातिशयक्रमरूपेण भासते । भासत इत्यनुभवप्रसिद्ध मिदं न स्वरुचिविरचितमिति दर्शयति । तत्क्रमस्य तस्मादभेदे तदवस्थं तद्वैफल्यमुत्पत्तिभेदाभावात् । भेदे वा स कुतस्तस्य ? ततोऽपि तत्क्रमस्यापरस्य भावात् , न; अनवस्थापतेरिति चेत्, अत्राह
भेदसामथ्यमारोप्य [प्रत्यासत्तिनिबन्धनम् ] इति ।।
भेदश्च तत्क्रमात् तस्यार्थान्तरत्वम् सामर्थ्य चैकत्वम् , सङ्गतस्यैकस्यार्थस्य भावः सामर्थ्यमिति व्युत्पत्तेः । तदुभयमारोप्य आत्मन्यवस्थाप्य ज्ञानं भासत इति सम्बन्धः । तात्पर्यमत्र-नैकान्ततस्तस्य तस्मादभेदो भेदो वा यतः प्रागुक्तदूषणम् अपि तु कथञ्चिदेव । ततः सत्यप्यभेदे नोत्पत्तिभेदाभावः; भेदापेक्षया तदुपपत्तेः । तथा न भेदेऽपि तस्येतरेतरविषयासक्रमः; तस्याप्यभेदापेक्षया १५ सुलभत्वात् । ततो युक्तं तबलेन दृष्टस्यैव अदृष्टमपीति । ज्ञानमिति यया प्रत्यासत्या तत्क्रमस्तद्विज्ञानरूपमेव एकमाकारमात्मसात्करोति नापरं साङ्कर्यापत्तेः; तया तत्फलमेव कुर्वीतेति पर्याप्त तज्ज्ञानेन प्रयोजनाभावात् पारम्पर्यदोषाच्च । इत्येतदेवाह परः
प्रत्यासत्तिनिबन्धनम् । चोद्यं महति [ नीलादौ तुल्यं तद्विषयाकृति ] ॥११४॥ इति । २०
महाविषयत्वात् प्रकृतं विज्ञानं महत तत्र चोद्यम् उत्तरूपं प्रत्यासत्तिप्रयुक्तं भासते इति सम्बन्धः । तत्रोत्तरमाह –'नीलादौ तुल्यं तद्विषयाकृति' इति । तच्चोद्य नीलधवलादौ विषयाकारे च विज्ञाने सदृशम् । तथा हि-यया प्रत्यासत्त्या वस्तुरूपं विज्ञानं च नियतमेव नीलाद्याकारं विषयाकारं च आत्मसात्करोति नापरं साङ्कर्यस्य सर्वग्रहणस्य च प्रसङ्गात्, तयैव स्वयमतदाकारमपि तत्फलमेव कुर्वीतेति विजयेरन् निराकारतद्विज्ञानवादिनः । तथाविधं वस्तु विज्ञानं वा दृश्यत इति चेत् न, २५ अतत्क्रमेऽपि तुल्यत्वात् । न हि तस्यापि कथञ्चिदेकत्वरहितस्य प्रतिपत्तिः । निवेदितं चतत'भेदज्ञानात्' इत्यादिना । सति चैवमनुषप्लवदर्शनविषयत्वे स्कन्धस्य यज्जातं तदाह
सर्वथा श्लेषविश्लेषे नापूनां स्कन्धसम्भवः । अन्यथा नाप्रदेशादीत्यपरदत्तमुत्तरम् ॥११॥ इति ।
१ न दर्श- आ०, ब०, प० । २ ज्ञानात् । ३ -त्तिभावा- ता०।४ -वादनवस्थाता०। ५ "स्वस्मिन्" -ता०टि०। ६ न्यायवि० श्लो०११४ ।