________________
१४४ न्यायविनिश्चयविवरणे
[२।११६-११७ स्कन्धस्यावयविनो न सम्भवः। कस्मिन् सति ? श्लेषविश्लेषे सङ्घातविघटने । केषाम् ? अणूनाम् । न हि तेषां तद्विश्लेषे स्कन्धोऽतिप्रसङ्गात् । तदविश्लेषे तत्सम्भव इति चेत्; उच्यते-अन्यथा तदविश्लेषप्रकारेण प्रदेशरहितत्वम् अप्रदेशो भावप्रधानत्वात् निर्देशस्य, तदादिर्यस्य पिण्डाणुमात्रत्वादेः तद् अप्रदेशादि न स्यात् । सप्रदेशाधव स्यात् । कथम् ? सर्वथा सर्वप्रकारेण । ५ तथा हि-यद्य कदेशेन तेषां संश्लेषः; सांशत्वम् । कास्न्येन चेत्; पिण्डस्याणुमात्रत्वम् । अर्थान्तरसंश्लेषसम्बन्धात् तेषु तत्सम्भव इति चेत्, सर्वेषु तत्प्रसङ्गस्तदविशेषात्, तथा च जगदेकस्कन्धं प्राप्नुयात् । इति एवम् अपरैः सौगतैः दचं दूषणमिति शेषः । तत् किम् ? 'उत्तरम्' इति । स्कन्धवादमित्युत्तरम् । नेति सम्बन्धः । तथा हि-इदमपि दूषणं शब्दात्मकं तदुत्पाद्यज्ञानात्मकं वा यदि स्कन्धरूपम् ;
कथं तद्वादमतिक्रमेत् ? तद्वदेव स्कन्धान्तरस्यापि कथञ्चिदवस्थितेः । न ह्यात्मानं तद्रूपमनतिक्रमदेव १० तादृशमपरमतिक्रमितुमर्हति । निरंशैकाणुरूपं चेत्, न; शब्दस्य तादृशस्य अवाचकत्वात्, अशक्य
समयत्वात् । वाच्यत्ववत् तदेव कल्पितस्कन्धरूपतया वाचकमिति चेत् न, कल्पितस्य नित्यादिवत् अर्थक्रियानुषयोगात्, ज्ञानं च तदुत्पन्नं कथन्नाम अणूनां षडंशत्वादिकं प्रतिपद्येत ? निरंशैकस्वभावस्यानेकाकारगोचरत्वासम्भवात् । कल्पनया सांशस्य तत्सम्भव इति चेत्, न; कल्पितदूषणेन वस्तुतः
प्रतिक्षेपायोगात् । ततः तात्त्विकमेव शब्दस्य तज्जनितज्ञानस्य च स्कन्धात्मकत्वमभ्युपगन्तव्यमिति कुतः १५ स्कन्धवादस्योत्तरणम् ? कथं तर्हि स्कन्धस्तेषां श्लेषाभावे अतिप्रसङ्गादिति चेत्, न; तदर्शनादेव
श्लेषस्यापि तदनुगुणस्यावकल्पनात् । स च नैरन्तर्यमेव संसर्गविकल्पादेः तत्रानवतारात् । अन्यथा अणुवादेऽपि न ततो निर्मुक्तिरणूनां येन केनचिनिरन्तराणामेव सम्भवात् । ततो निर्दोषत्वात् स एव तदनुगुणः श्लेष इति कथं तदभावः ? इदमेवाह
नैन्तयं निरंशानां स्वभावानतिरेचनम् । इति ।
निरंशानामणूनां तेष्वेव "नाणो" [त० सू० ५।११ ] इति प्रदेशपतिषेधात् नैरन्तयं व्यवधानवैकल्यम् । तत्किम् अतिरेचयति षडंशत्वाद्यापातने नाधिकं करोति पिण्डाणुत्वापादेन वा । अतीव रेचयति इत्यतिरेचनं स्वभावस्य नातिरेचनं स्वभावानतिरेचनम् । अतः स एव तेषां तदनुगुणः श्लेष इति भावः । ननु यदि स्कन्धात्तदवयवानां तेभ्यो वा स्कन्धस्याभेद एकान्ततः, एक एव नानैव वा स इति कथमेकानेकात्मकत्वमस्य ? इत्यत्राह
चित्रचैतविचित्राभदृष्टभङ्गप्रसङ्गतः ॥११६॥
स नैकः सर्वथा श्लेषात् नानको भेदरूपतः । इति ।
सः स्कन्धः नैको नाप्यनेकः । कथम् ? सर्वथा । कुतः? श्लेषात, ततो भागानां तेभ्यश्च तस्य श्लेषस्याभेदस्य भावात् । सर्वथेति योज्यमत्रापि । अश्लेषोऽपि भेदरूपतः कथञ्चिदववयतद्वतां भेदस्य भावात् । अनवस्थादिना एवंविधोऽप्ययं दुष्यतीति चेत् ; न; तस्य बहुकृत्वः प्रतिक्षेपात् ।
१ न स्वात्मानं आ०, ब०, प०।२ वाच्यवत् आ०, ब०, प० ।