________________
२।११५-११६]
२ अनुमानप्रस्तावः अन्यथा स्वयमभिमतस्य निर्णयेतरादिरूपतया चित्रस्य चैत्तस्य विकल्पस्य रूपरसादिविषयतया विचित्राभस्य च दृष्टस्य कर्कटीभक्षणकालभाविनो दर्शनस्य भङ्गप्रसङ्गतः, तद्दोषस्य तत्रापि प्रवेशात् । ततः किम् ? इत्याह
स्कन्धो मात्रानुरोधेन व्यवहारेऽवधार्यते । इति । ___ स्कन्धोऽवधार्यते निश्चीयते । केनात्मना ? मात्रानुरोधेन मात्राणां तद्भागानामनुरोधः ५ कथञ्चित्परस्पराविष्वग्भावः तेन न तत्समवेतेन रूपान्तरेण, ततो निश्चयनिराकृतं तत्कल्पनमिति भावः । किन्निमित्तं तदवधारणम् ? व्यवहारे । व्यवहारनिमित्तम् । ततोऽन्यत्र तत्कल्पनमपि प्रतिक्षिप्तमिति मन्यते । कुतः पुनरन्योऽन्यात्मगमनेनैव तस्यावधारणं न रूपान्तरेणेति चेत् ? अत्राह
सङ्ख्यादिसमभावेऽपि तत्स्वभावविवेकतः ॥११५॥ इति ।
सङ्ख्यानं सङ्ख्या तच्च गोचरविषयं न स्वरूपगोचरं तत्र भेदस्य भावात् । आदि- १० शब्दामुपादिकम् , तस्य समभावो भागेभ्यस्तत्त्वतो भेदः तस्मिन् सत्यषि तत्स्वभावस्य स्कन्धस्वरूपस्य विवेकतो विनिश्चयात् तेनैव सोऽवधार्यत इति । रूपान्तरेण तदवधारणे तत्साम्यानुपपत्तेः । निरूपितं चैतत्-- "तुलितद्रव्यसंयोगे” इत्यादिना ।
तथापि तमनभ्युपगच्छतो दूषणमाह
अतादात्म्यस्वभावे वा ह्यानर्थक्यादलं परैः । इति । - अतादात्म्यम् अमात्ररूपत्वं सर्वथा तद्व्यतिरेकात् स्वभावो यस्य तस्मिन् वा स्कन्धे परैस्तद्भागैरलं पर्याप्तम् । कस्मात् ? आनर्थक्यात् आफल्यात्, एतच्च जलाहरणव्रीहिधारणादेः फलस्य स्कन्धादेव भावात् । ततोऽपि तत्सहायादेव तत् न केवलादिति चेत्, न; केवलस्यैव सामर्थ्य तदनपेक्षणात् । असामर्थ्य न तत्सहायादपि व्योमकुसुमादेरपि तत्प्रसङ्गात् । तत एव सामर्थ्य तस्येति चेत्, न; व्यतिरेके तस्येत्ययोगात् । अव्यतिरेके तत इत्यनुपपत्तेः । कथञ्चिद्व्यतिरेके २० वा स्कन्धः परिणामी स्यात्- असमर्थरूपपरित्यागेन समर्थरूपोपादानात् । तथा च क्रमवद्युगपदपि नानात्मकत्वोपपत्तेः नैकान्तमवयवव्यतिरेकः तस्य । स्वतः समर्थस्य सहायापेक्षणं बहुकृत्वोऽपि प्रतिक्षिप्तम् । न च पक्षान्तरेऽप्ययं दोषः, सहकारीतरकारणकलापस्य परस्पराऽपादितातिशयस्यैव कार्ये व्यापारात् । वक्ष्यति चैतत्-'अर्थस्यानेकरूपस्य ईत्यादिना । तन्न जलाद्याहरणं तेषां फलम् । तदाधारतया स्कन्धस्य स्थापनमिति चेत्; ननु स्थितिकरणं स्थापनम् , स्थितिस्वभावस्य च किं तत्करणेन स्वयमेव स्थितेः ? २५ अतत्स्वभावस्याप्यवश्यम्भाविनिषातत्वात् । तत्स्वभावतया तत्करणमिति चेत्, न; तदन्यस्वभावापरित्यागेन तदयोगात् । तत्परित्यागे परिणामवादप्रसङ्गात् । यदि च तस्य तैः स्थापनं कथं विनाशः ? तद्धेतोरिति चेत् ; कुत एतत् ? तत्र तस्य सामर्थ्यात् , स्थापकसामर्थ्यात् स्थितिरपि
१ तेन तत्स-श्रा०, ब०, प० । २ भेदस्वभा-आ०,ब०प० । ३ न्यायवि० इलो० ॥१०९ । ४ अवयवाद्भिन्नत्वम् । ५ न पक्षा-ता०। ६ न्यायवि० श्लो० २६६ ।