________________
१४६
न्यायविनिश्चयविवरणे
[ २।११६
1
स्यात् । स्थापकस्यैव ततो नाश इति चेत्, न पटविनाशेऽपि तन्तूनां प्रतीतेः । तत्सामर्थ्यस्य नाश इति चेत्; न; तस्य तदव्यतिरेकात् । व्यतिरेके वा कथं तेषामेव न सर्वस्यापि ? तत्रैव स्थितेरिति चेत्; न तर्हि तस्य विनाशः तैरवस्थापनात् । तत्स्थापनसामर्थ्यमपि तेषां नाश्यत इति चेत्, न; तस्य तदव्यतिरेकादित्यादेरनुषङ्गात् अव्यवस्थापत्तेश्च । तन्न तत्रैव स्थिते (ति) स्तेषाम् । ५ तत्सहायत्वादिति चेत्; न; स्वतः सामर्थ्येतरयोस्तदपाकरणात् । सहायस्यापि तदवस्थापक सहायविनाशद्वारेण विनाशकल्पनायामपरावस्थानप्रसङ्गाच्च । तन्न स्थापक सामर्थ्यनाशनेने स्थाप्यनाशनमुपपन्नम् । ततो न भागानां भागवदवस्थापनं प्रयोजनम् ; सत्सु तेषु तदविनाशापत्तेः । नापि तदुपलम्भनम्, अनुपलब्धानां परभागादिवत्तदसम्भवात् इन्द्रियसन्निकर्षस्यापि तत्रे दुरवबोधत्वात् । नाप्युपलब्धानाम् ; अष्टाणुकादेः तदवयवोपलम्भाभावेनानुपलब्ध्या परापरतदवयविनामुपलम्भस्यैवा१० सम्भवात् । ततो न युक्तमेतत् -" महत्यनेकद्रव्यत्वात् रूपाच्चोपलब्धिः " [ वैशे० सू०
४।१।६ ] इति । ततः सूक्तम् - 'आनर्थक्यात्' इत्यादि ।
अथवा, अतादात्म्यमन्योऽन्यभेदः स एव स्वभावः तस्मिन् वेति पूर्वत्रात्र च क्षान्तरद्योतने । हीति स्फुटार्थे । परैः परमाणुभिरलम् आनर्थक्यात् । तथा हि-तेषां यद्यातपावारणादिकं फलम् ; अविशेषेण स्यात् । संसर्गिणामेवेति चेत्; न; संसर्गस्यैव संहतित्वात् । अन्यैव ततः संहतिः “विनापि परमाणूनां संसर्गात् संहतिः परा ।
आघातेऽपि पृथग्भावे यस्या नैव समस्ति सा ॥" [ प्र० वार्तिकाल० १।९१ ] इत्यलङ्कारवचनादिति चेत ; सा तर्हि का परा स्यात् अन्यत्र कथञ्चित्तेषामभेदात्, तत्रैव घनैकाकारप्रत्ययोपलब्धेः । तदभावेऽपि तत्प्रत्ययो दृश्यते विरलकेशेषु ततस्तदभेदात् अन्यैव -संहतिस्तत्रेवें परमाणुष्वपीति चेत्; मा नाम भूत्तत्र तदभेदो बाधक सद्भावात् नं परत्र विपर्ययात्, २० अस्मदादिप्रत्यक्षस्य स्वयमेव तत्प्रत्ययत्वेन तदबाधकत्वात्, तस्यापि योगिप्रत्यक्षं बाधकम् "अत्राप्यतीन्द्रियदर्शियोगिप्रत्ययो भवति बाधकः " [ प्र० वार्तिकाल० १/९१ ] इत्यलङ्कारवाक्या -. दिति चेत्; यदि योगी न स्यात् का गतिः ? अबाध एव तस्येति चेत्; सिद्धो नः सिद्धान्तः । सन्देह इति चेत्; न तर्हि परमाणुष्वपि निर्णय इति सुस्थितं तत्र संहतिवशात् आतपावारणादिपरिकल्पनम् । विद्यत एव योगीति चेत्; न, “यदि योगी भवेत् " [ प्र० वार्तिकाल० १।९१ ]
२५
इति स्वयमेव तत्र सन्देहवचनात् । सत्यपि योगिनि कथं तत्प्रत्ययेन तस्य बाधः ? तेन संहतिविकलानामेव तेषां दर्शनादिति चेत्; कथं तस्य शरीरं तत्संहतेरेव तत्त्वात्, अशरीरस्य च नोपदेश इति व्यर्थं तदन्वेषणम् । तन्न तेन तस्य बाधनम् । 'विवादापन्ना संहतिर्मिथ्या तत्त्वात् दूरकेशवत्' इत्यनुमानेन बाध इति चेत्; न; 'विवादाकलितं नीलादि मिथ्या तत्त्वात्तैमरिकनीलादिवत्' इत्यनेन
१५
१ नाशेन आ०, ब०, प० । २ श्रवयवेषु । ३ " श्रथ सौगतमतदूषणपरत्वेन कारिकां योजयति ।" - ता० टि० । ४ "स्याद्वादिपक्षादन्यः पक्षः पक्षान्तरम्, तस्य द्योतने । " - ता टि० । ५ तत्रैव आ०, ब०, प० । ६ नापरत्र आ०, ब०, प० । ७ “बाधकाभावात् " - ता० टि० । ८ योगिनः ।