________________
१४७
२।११६-१८]
२ अनुमानप्रस्तावः नीलादेरपि तदापत्तेः, ततः परमाणवोऽपि न स्युः। नीलादिव्यतिरेकेण तदभावादिति कथं तदेकान्तेऽपि निबन्धः ? तन्नानुमानादपि तद्बाधनं' यतस्तदन्यैव संहतिः । अन्यापि यदि तेषां साधारणी; न स्कन्धविलोपः । प्रत्यणु भिन्नायास्तु न संहतिव्यपदेश इति न तद्वशादणूनां व्रीहिधारणादावुषयोगः । स्वशक्तित इति चेत् ; न; प्रत्येकं तत्प्रसङ्गात् , "संहतो हेतुता तेषाम्" [ प्र० वार्तिकाल० ] इत्यस्य विरोधाच्च । तस्मादुषपन्नमुक्तम्-'अलं परैः' इति । ततोऽवश्यवक्तव्यः स्कन्धः तस्यैव ५ तदुपयोगात् । स च रूपादीनामन्योऽन्याभेद एव नापर इत्याह
स्पर्शोऽयं चाक्षुषत्वान्न न रूपं स्पर्शनग्रहात् ॥ ११६ ॥ इति । · च शब्दो वक्ष्यमाणः स्पर्श इत्यादाववधारणाओं द्रष्टव्यः । अयमुपलभ्यमानो मातुलुङ्गादिस्कन्धः । स्पर्श एव न । कस्मात् ? चाक्षुषत्वात् । न हि तन्मात्रत्वे चक्षुर्वेद्यत्वम् । नापि रूपमेव । कुतः ? स्पर्शनग्रहात् स्पर्शनेनापि प्रतिपत्तेः । न च तन्मात्रस्य तेन ग्रहः सम्भवति । अस्ति च तस्य नयन- १० स्पर्शनाभ्यां प्रतिपत्तिः । अतो रूपस्पर्शस्वभावस्यैव प्रत्यक्षविषयत्वमिति भावः । रूपादेभिन्न एव कस्मान्न भवतीति चेत् ? अत्राह
रूपादोनि निरस्यान्यं न चाभ्युपलभेमहि । इति । । स्वषदव्याख्यातमेतत् । एतदेव कस्मादिति चेत् ! अत्राह
सामग्रीविहितज्ञानदर्शिताकारभेदिनः ॥ ११७॥ प्रायेणेकस्य ताद्रूप्यं [पृथसिद्धौ प्रसङ्गतः ] ॥ इति ।
एकस्य रूपाद्यन्वयिनः स्कन्धस्य । कथमेकस्य ? प्रायेण कथञ्चित् ताद्रूप्यं रूपाद्यात्मकत्वम् 'उपलभेमहि' इत्याकृष्य सम्बन्धः । ततो 'रूपादीनि' इत्युपपन्नम् । कीदृशस्य तस्य ताप्यम् ? सामग्रीविहितज्ञानं चक्षुरादिव्यापारोषजनितं प्रत्यक्षं तद्दर्शिता रूपादय आकारास्तद्भदिनः प्रायेणेत्यत्रापि योज्यम् । पृथगेव कस्मान्नेति चेत् ? आह-पृथक्सिद्धौ प्रसङ्गतः २० इति । पृथक्सिद्धौ निष्पत्तौ तस्य प्रसङ्गतः प्रागुक्तदोषस्येति ।
नन्वेवमेकस्मिन्नपि इन्द्रिये तस्य तथैव प्रतिभासात् इन्द्रियान्तरमनर्थकमिति चेत् ? अत्राह___ अल्पभूयःप्रदेशैकस्कन्धभेदोपलम्भवत् ॥ ११८ ॥ इति ।
अल्पश्च भूयांश्च तौ च तौ वातायनादिरूपौ प्रदेशौ च ताभ्याम् एकस्कन्धस्य पर्वतादेः भेदेनाल्पत्वबहुत्वादिना उपलम्भः तद्वत स्कन्धस्य ताद्रप्यम् , उपलभेमहीत्यनुगमनीयम् । एतदुक्तं २५ भवति-यथा सुधागृहमध्यवर्ती पुरुषः पर्वतादिकमल्पेन वातायनादिना ऽल्पमेव पश्यति भूयसा च भूयासम् , एवमयमपि शरीरागारमध्यमध्यासीनो जीवश्चक्षुरादिनैकैकेन रूपाद्यन्यतमात्मकमलपमेव तमवलोकयति भूयसा च तत्समुदायेन भूयांसं रूपस्पर्शाद्यात्मकमिति न वैफल्यं तदन्तरस्येति । निदर्शनानन्तरमपि परप्रसिद्धमाह
१ तद्भावन आ०, ब०, प० । २ इत्यवधारणा-श्रा०, ब०, ५०।