________________
१४८ न्यायविनिश्चयविवरणे
[२।११९-२० अन्यथा स्वात्मनि ज्ञानमन्यथा चानुमीयते । इति ।
अन्यथा अन्येन अनुमानेन गम्यात् प्रकारात् प्रकारेण स्वात्मनि दानादिचित्तस्वरूपे ज्ञानं प्रत्यक्षम्, न हि तेन स्वर्गप्राषणशक्त्यादेग्रहणं तदनुमानवैफल्यापत्तेः, खण्डशः समारोपस्य तद्व्यवच्छेदस्य च प्रतिक्षेपात्, अन्यथा च तच्छक्त्यादिप्रकारेण च अनुमीयते स्वात्मेति विभक्ति५ वैपरीत्येन सम्बन्धः । ततो यथा दर्शनेनाल्पतया अनुमानसहायेन भूयस्तया तदात्मनो ग्रहणं न तदन्यतरस्यानर्थक्यम् , एवं स्कन्धप्रतिपत्तौ इन्द्रियान्तरस्येति । एवमेते व्याख्यानश्लोकाः । ततो युक्तं सर्वस्यानेकान्तात्मकत्वं विचारप्रसिद्धेः अनुमानप्रसिद्धश्च । तच्चेदमनुमानम्-सत् सर्वमनेकान्तात्मकं प्रमेयत्वादिति । सतः प्रमेयत्वे तस्य च सति नियमे स्यादिदमनुमानम् नान्यथा हेतुदोषसम्भवादिति मन्यमानस्य मतमादर्शयति
सत्प्रमेयत्वयोनास्ति सर्वथा नियमो यदि ॥ ११९ ॥ इति ।
सत्प्रमेयत्वयोर्नियमः सत्प्रमेयमेव नाप्रमेयं प्रमेयत्वं च सत्येव नासतीति निर्धारणं स नास्ति । कथम्भूतः ? सर्वथा सर्वेण सन्निहितेनेव इतरेणापि देशादिप्रकारेण । न हि सन्निहितदेशादिकमिव तदपरमपि प्रमेयं प्रमातुः सर्वस्य सर्वदर्शित्वापत्तेः, अविरोधाच्च । वस्त्वषि स्यान्न पमित्यवलम्बनमपीति ततो भागासिद्धो हेतुः । योगिनः . प्रमेयमेव सर्वमिति चेत्, न; तायापि चतुरार्य सत्यमात्रवेदिनस्तदभावात, सर्वसर्ववेदिनि सौगतम्य विप्रतिपत्तेरिति तदवस्थं तदसिद्धत्वम् । न च सदेव प्रमेयम् । असतोऽपि प्रागभावादेस्तत्त्वात् । न च तस्यानेकान्तात्मकत्वम् ; तस्य भावधर्मत्वेन तत्रासम्भवात्, अन्यथा तस्यापि भावत्वेनाभावव्यवहारविलोपात् । अतोऽनैकान्तिकश्चायं हेतुरिति नातः साध्यसिद्धिरिति भावः परस्य । 'यदि' इति तदवद्योतने । तत्रोत्तरमाह
अप्रवृत्तेः फलाभावात्तत्र वृत्तेनिषेधतः । इति ।
नास्तीत्यनुवर्तते । ततोऽयमर्थः-यदुक्तं तयोनियमो नास्तीति, तन्नास्ति; कस्मात् । अप्रवृत्तेः । प्रमेयमेव सदित्यनियमे संज्ञानशब्दादिप्रवृत्तेरसम्भवात् । असम्भवत्प्रवृत्तिकमेव तत्सदिति चेत् ; कुतो न व्योमकुसुमादिकम् ? तदर्थक्रियाविरहादिति चेत् ; स एव कस्मात् ? कस्यचिदपि तत्र तदप्रतीतेरिति चेत्; इतरत्र तर्हि कस्यचित्तत्प्रतिपत्तिर्वक्तव्या अन्यथा तद्विरहापत्तेः, तथा च कथमप्रमेयत्वम् अर्थक्रियावत्त्वेन प्रतीतस्य तदयोगात् ? एवमपि नियतप्रतिपत्रपेक्षमेव तस्य प्रमेयत्वं न सर्वापेक्षमिति चेत् ; भवतु, प्रमेयत्वमात्रस्यापि हेतुत्वात् । यदप्याकूतम्-सर्वसर्वज्ञे विप्रतिपत्तेस्तदपेक्षं प्रमेयत्वमपि विप्रतिपन्नमेवेति, तदपि नास्ति; तद्विप्रतिपत्तेः तत्साधनेनं प्रत्याख्यानात् । तन्न भागासिद्धत्वम् सन्दिग्धादिसिद्धत्वं वा साधनस्य, सतः सर्वस्य प्रमेयत्वनियमात् । नापि व्यभिचारित्वम् ;
१ अन्येन प्रकारेण इत्यन्वयः । २ "ननु प्रत्यक्षेण स्वर्गप्रापणशक्तयादेरग्रहणेऽपि न तदनुमानवैफल्यम्. समारोपव्यवच्छेदार्थत्वात् । तदुक्तम्-'तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । भ्रान्तेनिणीर्यते नेति साधनं सम्प्रवर्तते' इति वदन्तं सौगतं प्रत्याह-"-ता० टि। ३ तस्यातो आ०, ब०, प०। ४-पि च प्रा-आ०, ब०, प०। ५ अनेकान्तात्मकत्वस्य । ६ सर्वसर्वज्ञसाधनेन । ७ भागादिसिआ०, ब०, प०।