________________
२।१२०-२१ ]
२ अनुमानप्रस्तावः
१४९
सत्येव प्रमेयत्वस्य नियमान्नासति । कस्मात् ? तत्र तस्मिन्नीरूपाभावे वृत्तेः प्रमाणव्यापारस्य निषेधतो निवारणात् । सोऽपि कस्मात् ? फलाभावात् सकलशक्तिविरहिणि तस्मिन् कस्यचिदपि फलस्याभावात् । मा भूत् फलं तथापि कुतो न तत्र तत्प्रवृत्ति: ? न हि प्रमाणस्यैवं प्रेक्षावत्त्वमस्ति फलवत्येव मया प्रवर्तितव्यं नापरत्रेति । पुरुषस्यास्तीति चेत्; न; तस्य तत्प्रवृत्तिनिषेधार्थत्वात् । सावि तदधीनैवेति चेत्; न, तस्याः स्वहेत्वधीनत्वात् । अन्यथा भावेऽपि अभिमते तदभावप्रसङ्गादिति चेत्; ५ कस्तर्हि तत्र तत्प्रवृत्तेर्हेतुः ? शक्तिर्विषयस्येति चेत्; न; अभावस्य तदभावात् । इदमेव तर्हि वक्तव्यम्, किं ‘फलाभावात्' इति ? न; तेनाप्यस्यैवोपलक्षणत्वात् । पुरुषप्रवृत्तिनिषेधार्थत्वाच्च, सफलेऽपि प्रवृत्ते - स्तदभावादेवं तदुषषत्तेः प्रमाणस्यैवेति चेत्; न; वक्ष्यमाणोत्तरत्वात् । ततः स्थितम् - अप्रवृत्तेरित्यादि । किं वा प्रमाणं यतः प्रमेयत्वमभावस्य : प्रत्यक्षमिति चेत्; अत्राह
?
प्रमाणमर्थसम्बन्धात् प्रमेयमसदित्यपि ॥ १२० ॥ केवलं ध्यान्ध्यमेवैतत् [ किन्न सन्तं समीक्षते ] । इति ।
१०
अर्थेन विषयेण सम्बन्धात् तज्जन्मादेः प्रमाणं प्रत्यक्षमिति गम्यते, अनुमानस्य वक्ष्यमाणत्वात् । ननु तदप्यविसंवादादेव प्रमाणमिति चेत्; न; तस्यापि सम्बन्धादेव भावात्, “अविसंवादः तस्मादात्मलाभात्" [ ] इति वचनात् । तस्य च प्रत्यक्षस्य प्रमेयम् असदपि अविद्यमानमपि प्रागभावादि न केवलं विद्यमानमेव, अपिशब्दस्य भिन्नप्रक्रमत्वेनादित्यत्र १५ दर्शनम् । इति एवम् ध्यान्ध्यमेव चेतोविह्वलतैव केवलं न तत्त्वचिन्तनम् । एतत्वरमतम् । तथा 1 हि-यदि सम्बन्धात्प्रमाणं कथमसति तद्भवेत् ? न हि तस्य तस्मादुत्पत्तिः, अशक्तेः, अन्यथा वस्तुत्वापत्तिः वस्तुनस्तल्लक्षणत्वात् । नापि तादात्म्यम् प्रमाणस्यापि तद्वन्नीरूपत्वप्रसङ्गात् । तस्यापि परतस्तत्स्वभावात् प्रतिपत्तावनवस्थितेः । न तादात्म्यादेस्तस्य तद्विषयत्वमपि तु योग्यत्वादिति चेत्; न; तस्य तदभावात् । प्रमाणस्येति चेत्; अत्राह - ' किं न सन्तं समीक्षते ' इति । सन्तं वर्तमानविषयं २० किं कस्मात् न समीक्षते समीक्षत एव प्रत्यक्षं योग्यत्वस्य तत्राप्यविशेषात्, अतिप्रसङ्गस्येतरत्रेव तत्रापि तन्नियामादेव निवृत्तेः । ततो नयुक्तम् - "भिन्नकालम् " [ प्र० वा० २।२४७ ] इत्यादिना अतीतस्य तद्धेतोर्विषयत्ववर्णनमिति भावः । अथवा नेति नन्वित्यर्थे न्यासे बहुलं तथा दर्शनात् । ततोऽयमर्थःकिं नैव न ननु सन्तं समीक्षते प्रमाणमिति । तथा हि-कथं नाम प्रमाणमभावगोचरं भावे स्यात् ? भावगोचरं भावान्तरे कथमिति चेत् ? तस्य सम्भवात् । तत्रापि तस्य योग्यत्वात् नैवमत्र, भावे सति भावस्यैवासम्भवात् । तदुपमर्दने सम्भव इति चेत्; न; उपमर्दनस्य सत्येव दर्शनात् पिण्डादौ नासति व्योमकुसुमादिवत् । तथा प्रच्छादनस्यापि । किं च तस्य प्रच्छादनं यदि कार्यस्य स्वरूपमेव; तत्कथमसत्ाच्छादनं भवेत् ? सदेव तत् प्रच्छादनादिति चेत्; न परस्पराश्रयात् तत्प्रच्छादनात् सत् ततश्च तत्प्रच्छादनमिति । कुतो वा तत्तस्य प्रच्छादनम् ? तत्परिहारात्मकत्वादिति चेत्; न; सति
२५
1
१ " प्रमाणप्रवृत्तिः " - ता० टि० । २ फलाभावादेव निषेधोपपत्तेः । ३-दिति न आ०, ब०, प० । ४ धान्ध्य-ता० । ५ - नः सल्ल - प० । ६ " ताद्रूप्यम् " - ता० टि० ।