________________
न्यायविनिश्चयविवरणे
[ २।१२१-०२ तस्मिन् भवतस्तदसम्भवात्, अन्यथा तत्तस्यै अभाव एव स्यान्न प्रच्छादनम् , तच्च न युक्तम् , तदभावस्य भावात्मकत्वे निःस्वभावाभावकल्पनावैफल्योपनिपातात् । उपलब्धिप्रतिबन्धकरणादिति चेत् ; न; तत्समये तस्याप्युपलब्धिपसङ्गात् । न हि तदा तस्य तत्प्रतिबन्धः; पश्चादेव तेन तस्य तत्करणात् ।
तथा च कथमुपलभ्यमाने तदभावे तदभावस्तदुपलब्धिर्वेति सूक्तमेतत्-'किन्न' इत्यादि । तन्न प्रत्यक्षतः ५ प्रमेयत्वमभावस्य । नाप्यनुमानात्; तस्यापि प्रतिबन्धसव्यपेक्षस्यैव प्रामाण्यात् , अभावे च प्रतिबन्धस्यासम्भवात् । तदेवाह
सत्प्रत्यक्षं परोक्षेऽर्थे साधनं त्रिविधं द्वयम् ॥१२१॥ ------- हेस्वात्मनोः परं हेतुः तज्ज्ञानव्यवहारयोः । इति ।
अनुमानं हि साधनात् साध्यविज्ञानम् । साधनं च परोक्षेऽर्थे एव नाऽनर्थे नीरूपा१० भावे । कुतः १ यतः सत्प्रत्यक्षं सति विद्यमाने प्रत्यक्षं तत्प्रतिपन्नम् । इदमुक्तं भवति-यतो
निदर्शने सत्येव साध्ये तत्प्रतिपन्नं नासति नीरूपे, ततो धर्मिण्यपि तत्रैव तत्, नापरत्रातिपसङ्गात् । प्रतिषेधाच्च न तत्र तत् । तथाहि-त्रिविधं तत्, तत्र च द्वयं कार्यस्वभावलक्षणं हेत्वात्मनोः कारणस्वभावयोः कार्य हेतोः स्वभावश्चात्मनः तदैव्यतिरिक्तस्य साधनम् । न चाभावः कस्यचिद्धेतुः;
अशक्तः, अन्यथा भावत्वप्रसङ्गः । नाप्यात्मा, तस्यापि तद्वन्नीरूपत्वापत्तेः । न च तदुत्पत्तितादात्म्या१५ भ्यामषरः प्रतिबन्धो यतस्तत्रापि किञ्चित्साधनं भवेत् । परं चानुपलब्धिक्षणं साधनं हेतुः । कयोः ? तज्ज्ञानव्यवहारयोः तत्रैवार्थे यौ ज्ञानव्यवहारौ सदसज्ज्ञानशब्दलक्षणौ तयोः, नाभावे ।
कुत एतत् ? इत्यत्राह
परसत्त्वमसत्ताऽस्यादर्शनं परदर्शनम् ॥१२२॥ इति ।
यद्यभावोऽपि भावात्मैव न भवेत् भवेदपि तत्रैव ज्ञानादिरनुपलम्भात्, न चैवम् , यतः १. परसत्त्वमेवासत्ताऽस्य केवलभूतलस्यैव घटाद्यभावतया प्रत्यक्षतोऽवगमात् नापरस्यानुपलम्भात् ।
तस्यैवावगम इति चेत्, क तस्य तेन सम्बन्धग्रहणम् ! तदन्यत्रेति चेत्, न; तत्रापि प्रत्यक्षतस्तस्याप्रतिपत्तेः । अनुपलम्भादेवेति चेत्, न, तत्रापि पुनरन्यत्र तद्ब्रहणकल्पनायामनवस्थापत्तेः । तन्न परसत्त्वादन्यदसत्त्वं निषेध्यस्य । नापि तद्दर्शनादन्यददर्शनम् अनुपलम्भः । दर्शननिवृत्तिमात्रमेव किन्न तदिति चेत् ? न; तस्य क्वचित् साधनत्वानुपपत्तेः, व्योमकुसुमवदप्रतिपत्तेश्च । तस्यापि तन्निवृत्तेरन्यतः प्रतिपत्तौ अनवस्थोपनिपातात्, असम्बन्धाच्च । न हि तस्य साध्येन भावात्मनेतरेण वा कथश्चिदपि सम्बन्धः, तस्य वस्तुनियततयैवाध्यवसायात् । असम्बद्धाच्च ततस्तत्प्रतिपत्तिः प्रमाणान्तरमेव स्यान्नानुमानं तल्लक्षणातिपातात् ।
एवमेतत्, अभावप्रमाणतया तस्योपगमादिति कश्चिद्विपश्चिन्मन्यः, सोऽपि प्रष्टव्यः
१- स्य भा-आ०, ब०, प० । २ प्रतिपद्य-आ०, ब०, प० । ३ तदव्यतिरेकस्य-आ०, ब०, प०।४ "अनुपलब्धिलक्षणात् साधनात् - ता०टि०। ५ "निषेध्यस्य"-ता०टि०। ६ सम्बन्धस्य । ७ मीमांसकः ।