________________
२।१२२ ]
२ अनुमानप्रस्तावः
किं तस्य प्रयोजनमिति ? असाङ्कर्यपरिज्ञानं भावानाम् । अत एवोक्तम्
“वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यं समाश्रिता ।" [ मी० श्लो० अभाव० श्लो० २ ] इति । इति चेत्; किं पुनः प्रमाणान्तरेण स्वविषयस्यान्यसङ्कीर्णस्यैव परिज्ञानम् : तथा चेत्; कथं वेदाद्धर्मे प्रवृत्तिः अधर्मसङ्कीर्णस्यैव ततस्तस्य प्रतिपत्तेः ? निवृत्तिर्वा कथमधर्मात् इतरसङ्कीर्णस्यैव तस्यापि ततोऽध्यवसायात् । अभावप्रमाणसहायादन्योऽन्यासङ्करेणैव तयोस्ततो ऽवगम इति चेत्, कथं ५ स्वतः प्रामाण्यं स्वविषयपरिच्छित्तौ प्रमाणान्तरसव्यपेक्षस्य तदयोगात् ? तन्निरपेक्ष देव ततो विषयासङ्करपरिज्ञाने प्रत्यक्षादेरपि स्यादिति व्यर्थमेव तदर्थं तत्कल्पनम् । यदि चायं निर्बन्धः तते एव तत्परिज्ञान तस्य तर्हि कुतो भावप्रमाणाऽसङ्करः ? तदप्रतिषत्तौ तस्यैवाव्यवस्थितेः । तदन्यस्मादिति चेत् ; न; तत्रापि तदन्यतस्तत्कल्पनायामनवस्थाप्रसङ्गात् । न तत्र तदन्तरापेक्षणं विषयवत् स्वरूपेऽपि एवान्यविवेकस्याध्यवसायादिति चेत्; न; ततः प्रत्यक्षाद्यनुत्पत्तिरूपान्नीरूपात् तदयोगाद्वयोमकुसु- १० मादिवत् । आत्मनस्तत्सङ्करज्ञानपरिणतिविकलादिति चेत् तत्स्वसंवेदनस्य भावविषयस्य कथमभावांशे प्रवृत्तिः ? ततैस्तस्याप्यव्यतिरेकादिति चेत्; किमेवमन्यत्राप्यभावेनं तत्रापि प्रत्यक्षादिनैव तदव्यतिरेकिणस्तदन्यविवेकस्य प्रतिपत्तेः ।
१५१
यदपि मतम् —' अन्यवस्तुनि विज्ञानं तत्प्रमाणम्' इति तदपि न विज्ञानमिन्द्रियजम् "न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः । [ मी० श्लो० अभाव० श्लो० १८ ] इत्यस्य १५ विरोधात् । मानसमिति चेत् ; कुतस्तदुत्पत्तिः ? वस्तुग्रहणनिषेध्यस्मरणाभ्यामिति चेत्; कथं वस्तुग्रहणम् ? निषेध्यसङ्करेणेति चेत्; न तर्हि तन्निषेधः, गृहीते तदयोगात्, वस्तुन्यपि प्रसङ्गात् । न तत्सङ्करेण नाप्यन्यथा अपि तु वस्तुत्वमात्रेणेति चेत्; तथापि न निषेधो वस्तुत्वमात्रस्य सर्वत्र भावात् । तद्विशेषस्य निषेध इति चेत्; न, तस्यास्मरणात् । न हि वस्तुग्रहणबलभा विस्मरणं तद्विशेषमवगाहितुमर्हति; निरवशेषविशेषावगाहप्रसङ्गात् । भवतु असङ्करेणैव तद्ग्रहणमिति चेत्; न; इन्द्रियज्ञानेन तदसम्भ- २० वस्योक्तत्वात्। मानसज्ञानेनैवेति चेत्; न; तत एव तस्यानुत्पत्तेः । तथा हि-यदि सतुः किमुत्पत्त्या सति तद्वैयर्थ्यात् । असत् चेत्, कथं हेतुर्यत उत्पत्तिः ? अन्यदेव तन्मानसमिति चेत्; न; तत्रापि कुतस्तदुत्पत्तिरित्यादेरनवस्थोपनिपातप्रसङ्गस्योपनिपातात् । सति वा तस्मिन् किमन्येन मानसेन तत एव निषेधसिद्धेः ? निषेध्यान्तर निषेधार्थं तदिति चेत्; न; तस्यापि तदसङ्करग्राहिणस्तत एव सिद्धेः । पुनस्तदन्तरनिषेधार्थं तत्कल्पनमनवस्थानमुपनयतीति न सुव्यवस्थितमेतत्
१ वेदात् । "सर्वप्रमातृसम्बन्धिप्रत्यक्षादिनिवारणात् । केवलागमगम्यत्वं लभ्स्यते पुण्यपापयोः ॥” -ता० टि० । २ श्रभावप्रमाणादेव साङ्कर्यपरिज्ञानम् । ३ श्रभावात् । ' प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । श्रात्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि ॥ [ मो० श्लो० ] इत्येतत्कारिकोक्तमभावप्रमाणस्वरूपत्रयं मनसिकृत्य । ह' - ता० टि० । ४ चेत्स्वसं - ० । ५ ततस्तस्याव्यतिरेका दिवस्तुग्रहणनिषेध्यस्मरणाभ्यामिति आ०, ब०, प० । 'श्रभावप्रमाणेन " - ता० दि० । ७ ताभ्या - आ०, ब०, प० । ८ कथं हि है-आ०, ब०, प० ।
२५