________________
न्यायविनिश्चयविवरणे
"गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ।
मानसं नास्तिता ज्ञानं जायते ऽक्षानपेक्षया ॥" [मी० श्लो० अभाव ० इलो० २७] इति ।
तन्न अन्य वस्तुनि विज्ञानमभावप्रमाणं सम्भवति । सम्भवतोऽपि न भावनिष्कृष्टतया तस्मादभावस्य प्रतिपत्तिः तदप्रतिवेदनात् । तदनिष्कृष्टतया तु प्रतिपत्तौ सिद्धं भावस्यैवाभावत्वमिति ५. नं तत्प्रमाणादपि तस्यै सिद्धिः । तथाऽनुमानादपीति न युक्तमेतत् - " अन्यत्सामान्यं सोऽनुमानस्य विषयः ।" [ न्यायबि० पृ० २४- २५ ] इति । नीरूपस्य सामान्यसम्बन्धाभावेन तद्विषयत्वायोगात् । न नीरूपं तत् । वस्तुमात्रस्यैवान्यव्यावृत्तिविशिष्टस्य तत्त्वादिति चेत्; किमत्र मात्रपदस्य व्यवच्छेद्यम् ? सजातीयविवेक इति चेत्, कथं तदवेदने वस्तुमवेदनम् ? " तस्माद्दृष्टस्य भावस्य " [ प्र० वा० ३।४४ ] इत्यादि विरोधात् । ततो दुर्व्याहृतमिदम्"अद्रपसंवृत वस्तुमात्रप्रवेदनात् ।
१०
सामान्यविषयं प्रोक्तं लिङ्ग भेदाऽप्रतिष्ठितेः ॥ [
कथं वा वस्तुरूपत्वे तस्योक्तम्-
१५
१५२
२०
[ २।१२३-२४
] इति
“अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् ।
यन्निष्ठास्त इमे शब्दा रूपं तस्य न किञ्चन " [ प्र० वा० २।३० ] इति । शब्दविषयस्यैव तस्यें नीरूपत्वमुक्तं नानुमानविषयस्येति चेत्; किं पुनस्तद्विषये न सन्ति शब्दाः ? तथा चेत्; कथं तत्प्रतिपादनं यतः परार्थानुमानमिति दुष्परिहारमेवेदं परिस्खलितं परस्येति पर्याप्तमनुषङ्गेण । ततो न व्यभिचारी हेतु:, अभावस्यापि भावान्तरस्वरूपतया ऽनेकान्तात्मकत्वात् । यदि भावान्तरमेवाभावस्तत्र कथमसज्ज्ञानादिप्रवृत्तिरिति चेत् ? अत्राह
सदसज्ज्ञानशब्दाश्च केवलं तन्निबन्धनाः । इति ।
सद्भूतलम् असन् घट इति य एते बुद्धयः शब्दाश्च तेषामपि तदेव भावान्तरं निमित्तं तथैव प्रमाणप्रवृत्तेर्न व्यतिभिन्नौ भावाभावौ विपर्ययात् । भावस्यैवाभावात्मकत्वे प्रसिद्ध मुदाहरणमाहअग्निः स्वपररूपाभ्यां भावाभावात्मको यथा ।। १२३ ।। इति ।
१ अभावस्य । २ सामान्यम् । ३ श्राह ४ सामान्यस्य । ५ ‘“तथा प्रमाणाप्रवृत्तेः ।" - ता० दि० । आ०, ब०, प० ।
अग्निर्दहनात्मा पदार्थो भावाभावात्मको यथा येन प्रतीतिप्रकारेण तथान्योऽपीति । स
च तदात्मकः स्वपररूपाभ्यां रूपग्रहणमुपलक्षणं क्षेत्रादेरपि । ततः स्वरूपादिनी भावात्मकः पररूपा - २५ दिना अभावात्मक इति प्रतिपत्तव्यः । भावस्यैवाभावत्वे स्वरूपादिनेव इतरेणापि तदात्मकत्वमेवेति भावैकान्तवादः । अभावस्यैवँ वा भावत्वे ऽपि शून्यैकान्तवादः पररूपादिनेवेतरेणापि तदात्मकत्वस्यैव भावात् नोभयात्मकत्वमिति चेत्; अत्राह
अन्वयव्यतिरेकाभ्यां [ शब्दबुद्ध चाऽवधार्यते । ] इति ।
चात्र - श्रतद्रूप " - प्र० वार्तिकाल० ११२ । ६-ना च भा-आ०, ब०, प० । ७ - व भा