________________
१५३
२।१२४-२६]
२ अनुमानप्रस्तावः अन्वयो 'भावाभावयो: परस्परमेकत्वं व्यतिरेको भेदस्ताभ्याम् अग्निस्तदुभयात्मक इति न प्रकृतो दोषः, एकान्ताभेद एव तस्य भावात् । अन्वयग्रहणेनापि “तयोर्व्यतिरेके द्वे वस्तुनी स्यातां नोभयात्मकत्वमेकस्य" [ ] इति प्रतिक्षिप्तम् ; एवमपि भावाभावयोरितरेतरनिष्कर्षणासम्भवात् कथं स्वरूपादेर्भावोऽभावश्च तद्विपर्ययादिति तथा व्यपदेश इति चेत् ? अत्राह-'शब्दबुद्धयाऽवधार्यते' इति । शब्दबुद्धिः नयबुद्धिः तया स्वविषये शब्दस्य समर्पणात्तयाऽवधार्यते सत्त्वं ५ स्वरूपादेरसत्त्वमन्यत इति पृथक्कारेण निर्णीयते । निरूपितं चैतत् प्रथमप्रस्तावे।।
यदप्यत्र चोद्यम्-"यदि भावान्तरमेवाभावस्तदा पर्युदासात् प्रसज्यप्रतिषेधस्याविशेषः" [ ] इति; तदप्येतेन प्रतिविहितम् ; नयबुद्धिवशादभावौदासीन्येन भावस्य तदौदासीन्येन चाभावस्य प्राधान्यसमर्पणे पर्युदासप्रसज्ययोर्विशेषस्थावकल्पनात् । तन्नाभावेन व्यभिचारः तस्य प्रमाणतोऽनवगमात् । नयतोऽवगमेऽप्यप्रमेयत्वात्, अन्यथा प्रमाणनययोरविशेषापतेः । प्रमेय- १० त्वेऽपि भावरूपत्वात् । कुत एतत् ? ननु निरूपितमिदं यदि न तावता परितोषः पुनरपि । वदामः । इत्याह
अप्रमेयं प्रमेयं चेदसत्किन्न सदात्मकम् ॥ १२४ ॥ इति ।
यथैव हि अभावो भावमपेक्षते तत्प्रच्युतिरूपत्वात् तथा तत •एव प्रमेयमपि अप्रमेयम् । तत्र यत्तदप्रमेयं तच्चेत् यदि प्रमेयं प्रमाणवेद्यम् असत् अविद्यमानं किं कस्मान्न सदात्मकम् ? १५ सदात्मकमेव प्रतिषेधद्वयेन प्रकृतप्रतिपत्तेः । प्रयोगश्चात्र-यद्यत्प्रत्यनीकं तत्तद्वर्गीयं यथा अप्रमेयं प्रमेय-- वर्गीयम् , सत्प्रत्यनीकं च असदिति नात्यन्तायासतो भिन्नवर्गत्वं तस्य । अथ तत्प्रमेयं न भवति कथं तद्व्यवहारः, सर्वप्रमाणव्यापारातिक्रान्ते तदयोगात् परिंगणनातिक्रान्तपदार्थवत् । ततः प्रकृत प्रमाणापरामर्शेऽपि प्रमाणान्तरपरामृष्टमेव तदभ्युपगन्तव्यम् । ततः प्रमेयमेवाप्रमेयं तथा सदेवासदपि । तस्यापि प्रकृतरूपेणासत्त्वेऽपि रूपान्तरेण सत एवोपपत्तेः। अथ सदेवासादिति व्यवहारो नास्ति, २० तदेवाह
अथ न व्यवहारोऽयम् इति । अत्रोत्तरमाह
__ अन्यत्रापि निरङ्कुशः । इति । अन्यत्र परपक्षेऽपि प्रमेयमेवाप्रमेयमिति व्यवहारो नेति प्रसङ्गो निरङ्कुशो निवारकरहित २५ इत्यर्थः । लोकस्तत्राङ्कुश इति चेत्, न; अन्यत्रापि तुल्यत्वात् । ततः स्थितमव्यभिचारित्वं प्रमेयत्वस्य ।
सम्प्रति सर्वत्र प्रमेयत्वस्य सद्भावमुपसंहृत्य तस्य गमकत्वे निमित्तं दर्शयन्नाह
सत्प्रत्यक्षं परोक्षार्थगतिस्तत्रैकलक्षणम् ॥ १२५ ॥ साध्येऽसति विरोधः [ अयमतस्तर्केण साध्यते । ] इति ।
३०