________________
न्यायविनिश्चयविवरणे
[ २।१२६
प्रकृतं प्रमेयत्वं सत् अस्ति सर्वत्रेति शेषः । किं रूपम् ? प्रत्यक्षं तत्परिच्छेदयोग्यरूपम् । तथा परोक्षा अस्पष्टा अर्थगतिः स्मरणादिः, अत्रापि तद्योग्यमेव रूपं तद्विषयत्वादुच्यते । ततः प्रत्यक्षपरोक्षप्रमाणव्यापारयोग्यत्वं प्रमेयत्वम्, अर्हार्थत्वात् कृत्यस्य । तत्र तस्मिन् प्रमेयत्वे एकलक्षणं प्रधानं हेतुरूपं सदिति सम्बन्धः । तच्च साध्येऽनेकान्तात्मकत्वे सति अविद्यमाने विरोधो ५ विघटनं प्रमेयत्वस्य, नापरं ततस्तस्य गमकत्वमिति मन्यते ।
१५४
स्यान्मतम्–तद्विरोधस्याप्यन्वयव्यतिरेकाभ्यामेव प्रतिपत्तिर्महानसादौ तदुपलम्भस्मरणाभावे पर्वतादौ प्रतिपन्नेऽपि धूमे तदभावात्, ततोऽन्यत्रं तदुपलम्भाय - दृष्टान्तो वक्तव्य इति; तन्न; दृष्टान्तेऽपि विप्रतिपत्तावत एव साध्यस्य व्यवस्थापनात् । तत्रापि तदन्तर बलात् तत्प्रतिपत्तौ अनवस्थाप्रसङ्गात् । अस्ति च तत्रापि चित्रज्ञानादौ विप्रतिपत्तिः - " किं स्यात् सा चित्र तैकस्याम्" १० [० वा० २।२१० ] इत्यादि वचनात् । कथं तर्हि तत्प्रतिपत्तिरिति चेत् ? विपक्षे बाधकबलादेव । तच्च प्रतिपादितमेव पूर्वमिति नेह प्रतन्यते । निदर्शन बलात्तत्प्रतिपत्तावतिप्रसङ्गश्च - 'विवादाI पन्नः पुरुषो न सर्वज्ञो वचनादे रथ्यापुरुषवत्' इत्यादावपि तदुपनिपातात्, वचनादेः किञ्चिज्ज्ञ एव दृष्टस्यापि विरोधाभावात् साध्यविपक्षेऽपि सम्भावनायां धूमादेरपि किन्न स्यात् : तस्य पावकादावेव तत्कार्यत्वेन नियमात् । न चैवं वचनादिरसर्वज्ञस्यैव कार्यं सर्वज्ञेऽप्यनुपलब्धिलक्षण१५ प्राप्तत्वेनाशक्याभावनिश्चये तदाशङ्काऽनिवृत्तेः । ज्ञानकार्यं हि वचनं तच्च यथाऽल्पं तद्धेतुस्तथा प्रकर्षवदपि । न हि कारणप्रकर्षः कार्यविरोधी । ततो न तस्यें तत्र' नियम इति चेत्; न; प्रकर्षवतोऽपि किञ्चिज्ज्ञस्यैव तत्कारणत्वप्रतिपत्तेः, तद्रूपपरित्यागे ज्ञानमेव तन्न भवेत् । " अन्यथा उष्णस्पर्शादिविशेषपरित्यागेऽपि दहनादेरदहनादित्वाभावात् ततोऽपि धूमादिसम्भवे कथं तदनुमानेऽपि दाद्यर्थनस्तत्र प्रवृत्तिः स्यात् ? न तादृशो दहनादिरनुपलम्भादिति चेत्; न; तादृशे ज्ञानेऽपि २० तुल्यत्वात् । तथापि तस्यै भावे पावकादेरपि स्यादविशेषात् । हन्तैवं तत्कार्यं धूमादिरपि विलक्षणमेव स्यात् हेतुवैलक्षण्ये तद्वैलक्षण्यस्यावश्यकत्वात् । न च तस्य प्रसिद्धपावकादिव्यभिचारे तज्जन्मनो व्यभिचार इति चेत्; न; काष्ठादिविलक्षणादपि मैंण्यादेरविलक्षणस्यैव पावकादेरुत्पत्तेः । तत्राप्यस्त्येव वैलक्षण्यं प्रतिपरशक्त्या तु तदपरिज्ञानमिति चेत्, परिज्ञाने का वार्ता : ततो विलक्षणस्यैव हेतोरनुमानम् " तज्जन्यविशेषग्रहणेऽभिमतत्वात्" [ हेतुबि ० पृ० १५२ ] इति हेतुविन्दुवचना२५ दिति चेत्; न; तस्य बहिरभावेनान्वयापरिज्ञानात् । पक्ष एव तंत्परिज्ञानं विषक्षे बाधकचलादिति चेत्;
१३
?
१ ‘कृत्प्रत्यस्य, प्रत्ययस्य त्य इति संज्ञा जैनेन्द्रव्याकरणे । " - ता० टि । २ सत्यपि वि - अ०, ब०, प० । ३ "पक्षधर्मत्वसपक्षसत्त्वादिकम् " - ता० टि० । ४ - पि अग्नौ आत्मे तद-आ०, ब०, प० । ५ " पर्वतादि पक्षादन्यत्र " - ता० टि० । ६ दृष्टार्थे व आ०, ब०, प० । ७ दृष्टान्तान्तर । ८ एवं आ०, ब०, प० । ९ ज्ञानम् । १० वचनस्य । ११ सर्वज्ञे । १२ वचनकारणत्वपरित्यागे । १३ श्रन्यदोषस्प - आ०, ब०, प० । १४ “विलक्षण कार्यस्य " - ता दि० । १५ प्रसिद्ध पावकोत्पन्नधूमस्य । १६ मण्यादेरपि विल
आ०, ब०, प० ।