________________
२।१२६ ]
२ अनुमान प्रस्तावः
इदं तर्हि हेतुबिन्दुं व्याचक्षाणेनाप्यर्चटेन किमिति नावधारितम् अवधारितमेव "अगरुधूमग्रहणेन भवत्येव तदग्नेरनुमानम्” [ हेतुचि० टी० पृ० १५२ ] इति तेनाप्यभिधानादिति चेत्; तर्हि इदं तस्य शिथिलीभवति - "कार्यहेतोस्तु पक्षीकृते धर्मिणि कस्यचिच्च स्वभावहेतोः प्रत्यक्षानुपलम्भसाधनः प्रतिबन्धः कथं परोक्षे साध्यधर्मे गृह्यते" [ हेतुबि० टी० पृ० १६ ] इति । यदि च, कार्येऽपि क्वचित् पक्ष एव तत्परिज्ञानम् अन्यथा देशनाविशेषात् सुगतप्रामाण्या- ५ परिज्ञानापत्तेः; तर्हि व्यर्थं तदर्थं प्रमेयत्वादावपि तदपेक्षणं विपक्षे तदारोपपरिहारपरायणात् तर्कज्ञानादेरेव तदुपपत्तेः । एतदेवाह -- ' अयमतस्तर्केण साध्यते ' इति । अंत एतस्मात् प्रत्यक्षादेर्भवता तर्केण साध्यते निर्णीयते अयं साध्याभावे विरोधः साधनस्य न बहिर्दर्शनादर्शनाभ्यां व्यभिचारात् । नापि तादात्म्यतदुत्पत्तिभ्याम् ; तयोस्तद्विरोधादेवं सिद्धेश्व, न पुनस्ताभ्यां तस्य तदभावेऽपि भावात् । वक्ष्यति चैतत्--“तुलोन्नामरसादीनाम्" इत्यादिना । तन्न बहिरन्वयादिना किञ्चित् विनापि १० तेन ततस्तन्निर्णयात् । न च सर्वत्र तत्सम्भवो यतः तस्मादेव स भवेत् । इत्याह
सर्वत्र परिणामादौ हेतुः सत्त्वादिः [ अन्यथा ] ॥। १२६ ।। इति । न हि चेतनेतर सकलवस्तुगोचरतया परिणामादीनामन्यतमे साध्ये क्वचित् सत्त्वकृतकत्वादेरन्वयः सर्वस्य विप्रतिपत्तिविषयत्वेन निदर्शनत्वानुपपत्तेः । न चैवमसौ अहेतु रेव; अन्तर्व्याप्तिनिश्चयात् । किमर्थमादिग्रहणम् ? न हि शास्त्रकारस्य क्षणभङ्गादिसाधनमिष्टमिति चेत्; न; १५ दृष्टान्तार्थत्वात् -- अन्यथा क्षणभङ्गादौ स निरन्वयो ऽपि हेतु:, तथा परिणामेऽपीति । नैतदस्ति प्रदीपादौ तर्म्यं तदन्वयग्रहणादिति चेत्; न प्रत्यक्षतस्तद्ग्रहणम्, पक्षेऽपि स्यादिति कोऽर्थस्तत्रापि हेतुना : समारोपव्यवच्छेद इति चेत्; न; समारोपस्य प्रदीपादावपि भावात् । सत्यम्, सन्नप्यसौ तंत्र 'यदि प्रदीपादिः प्रथमतैलादिव्यापारादेवोत्पन्नः परापरस्तद्व्यापारो व्यर्थः ' इत्यादिना विचारेण व्यवच्छिद्यत इति चेत्, न अप्रमाणात्तद्व्यवच्छित्तौ प्रमाणक्लृप्तेर्वैयर्थ्यात् । २० प्रामाण्यमपि न प्रत्यक्षत्वेन अविचारकत्वापत्तेः । अनुमानत्वे तु तत्रापि निदर्शनान्तरमन्वयार्थमर्थयितव्यम्, पुनस्तत्समारोपस्यापि विचारान्तरादनुमानाद् व्यवच्छित्तौ पुनस्तदन्तरं तदर्थमर्थयितव्यमिति कथमनवस्थितवस्तुवादिनस्तथा ऽनवस्था दौस्थ्यान्निर्मुक्तिः ? विचारस्यानन्वयस्यापि गमकत्वे सत्त्वादेरपि स्यादविशेषात् ।
१५५
न;
भवतु निरन्वयविनाश एव से' हेतुर्न परिणाम इति चेत्; न; 'तेस्य निरपेक्षस्य नित्यत्वापत्त्या २५ कार्यद्रव्यादेर्वा तयापि अव्यवस्थितेः । साक्षेप एवासौ मुद्गरादिव्यापारादुत्पत्तेरिति चेत्; . नीरूपस्य तदयोगात् । न हि नीरूपं किञ्चित् कुतश्चिदुत्पत्तिमन्नाम, प्रागिव तद्व्यापारेऽपि तदविशेषात् । न च तेन भावो नष्टो नाम सर्वदा प्रसङ्गात् । यदैवासौ तदैव नष्ट इत्यपि न युक्तम्; नीरूपे
१ अत एव कस्मात् आ०, ब०, प० । २ साध्याभावे विरोधादेव । ३ विपक्षे विरोधस्य । ४ न्यायवि० श्लो० ३३८ । ५ तर्कात् । ६ सत्स्वस्य । ७ प्रदीपे । ८- णप्रक्लृ-आ०, ब०, प० । ९ तदविशेषान्न च स्यादविशेषात् आ०, ब०, प० । १० सत्त्वादिः । ११ विनाशस्य । १२ विनाशः । १३ नीरूपत्वाविशेषात् ।