________________
न्यायविनिश्चयविवरणे
।२।१२६ कालसम्बन्धस्यैवासम्भवात् । अभावं करोति मुद्गरादिर्भावं न करोति इति क्रियाप्रतिषेधाच्चै न नीरूपाभावादिना भावविनाश इति सर्वं कूटस्थमेव जगत्प्राप्तम् । न चैतद् दृष्टमिष्टं वा परस्य, कस्यचिद्विनाशिनोऽपि तस्य तेनोपगमात् । 'न नीरूषो विनाशो भावान्तरस्वभावत्वात्' इत्यपि न युक्तम् ; अतद्रूपत्वे अतिप्रसङ्गात् । निवेदितं चैतत्-"अन्यस्यान्यो विनाशः किम्" इत्यादिनी । तन्न सहेतुको विनाशो यत्रायं हेतुः । नापि निर्हेतुकः; तस्यापि नीरूपस्याप्रतिपत्तेः, वस्तुन्येव सम्बन्धभावेन प्रमाणव्यापारात् । वस्त्वेव विनाशोऽपि क्षणस्थितिधर्मणो भावादव्यतिरेकादिति चेत् ; न तर्हि निर्हेतुकत्वं भाववदेव, भावस्य वा तद्वत्तत्त्वमिति नित्यं सत्त्वप्रसङ्गः । तथा च 'विनाशनियतो भावस्तं प्रत्यनपेक्षणात्' इति विरुद्धो हेतु: अविनाशनियमस्यैव साधनात् । सहेतुक एवासौ
भावहेत्वपेक्षया, निर्हेतुकत्वं तु मुद्गराद्यपेक्षयेति चेत् ; ननु तयापि तत्त्वं यदि तस्यैव भावस्य १० सिद्धसाधनं निष्पन्नस्यापराधीनत्वे विवादाभावात् । तद्विनाशस्येति चेत्, न; तस्यापि तद्व्यतिरिक्त
स्याभावात् । कल्पनया भाव इति चेत्, कथं तर्हि तथापि निर्हेतुकत्वं कल्पनारूपाद्धत्वन्तरादेव तस्य भावात् । व्यतिरेक एव तस्य कल्पनया न स्वरूपमपीति चेत्, न; व्यतिरेकस्यैव तत्स्वरूपत्वात्, सत्येव तस्मिन् विनाशव्यवहारप्रतीतेः । सत्यषि निर्हेतुकत्वे तस्य कथं तन्नियतत्वं • भावस्य ?
कथं च न ? स्यादेतत् व्यभिचारात् , स्थैर्यस्य निर्हेतुकत्वेऽपि भावस्य तन्नियमाभावात् । शक्य १५ हि वक्तुम्
स्थितिस्वभावो भावश्चेत् तस्य किं स्थितिहेतुना । यद्यस्थितिस्वभावोऽसौ तस्य हेतोः(हेतोस्तस्य)स्थितिः कथम् ॥ १४७३ ॥ न हि स्वभावातद्रूपस्तद्रूपः परतो भवेत् ।
परतश्चेतनोऽपि स्यादन्यथा किमचेतनः ॥ १४७४ ॥
स्यादेतत्-यदि स्थैर्यस्य प्रतीतिस्तदा शक्यमिदं वक्तुम्-'स्थैर्यनियतो भावः स्थैर्य प्रत्यनपेक्षणात्' इति, अन्यथा हेतोरसिद्धिप्रसङ्गात् । न चैवम् , प्रतीतावपि स्थिरात्मनो भावस्यासामर्थ्या दिति; तन्न; क्षणभङ्गिन्यपि तदविशेषादिति निवेदनात् । अपि च, यद्यन्यतः तदसामर्थ्य प्रतिपन्नम् ; व्यर्थमेतत्-'विनाशनियतो भावो विनाशं प्रत्यनपेक्षणात्' इति, तत एवान्यतस्तन्नियमस्यावगमात् ।
अक्षणिकसामर्थ्याभावज्ञानस्य क्षणिकसामर्थ्यज्ञानस्वभावत्वात् । अत एव तत्प्रतिपत्तौ परस्पराश्रयः-सत्यां २५ तस्याम् अव्यभिचारात् अतस्तन्नियमसिद्धिः, अतश्च तत्प्रतिपत्तिरिति । तन्न नश्यदात्मैव नाशः ।
१ 'तथाहि प्रसज्यप्रतिषेधे सति नञः करोतिना सम्बन्धात् अभावं करोति भावं न करोतीति क्रियाप्रतिषेधादकर्तृत्वं नाशहेतोः प्रतिपादितम् ।"-तत्त्वसं० पं० पृ० १३६ । २ न्यायवि० श्लो० २६१ । ३ अभाववन्निहेतुकत्वम् ' ४ “यद्भाव प्रति यन्नैव हेत्वन्तरमपेक्षते । तत्तत्र नियतं ज्ञेयं स्वहेतुभ्यस्तथोदयात् ।। निर्निबन्धा हि सामग्री स्वकार्योत्पादने यथा । विनाशं प्रति सर्वेऽपि निरपेक्षाश्च जन्मिनः ॥-तत्त्वसं० श्लो० ३५४-५५ । हेतुबिष्टी० पृ० १४३ । ५ हेतुतः वि-आ०,१०,प०। ६ निर्हेतुकत्वम् । ७ विनाशनियतत्वम् । ८ नित्यस्यासामर्थ्यम् । ६ क्षणिकासामर्थ्यसिद्धौ। १० नश्यत्तादात्म्येव प्रा०, ब०, प० ।