________________
२।१२७-२९)
२ अनुमानप्रस्तावः तत्फलात्मेति चेत्; सोऽपि यदि सदृशपर्यायः, सत्यं तत्र निरपेक्षत्वं तन्नियतत्वं च भावस्य, किन्तु निरन्वयत्वमसिद्धम् , अन्वयस्याषि प्रतीतेः । निवेदितं चैतत्-"भेदज्ञानात्" इत्यादिनी । अत एव न विसदृशपर्यायोऽपि । न च तस्य निर्हेतुकत्वम् ; काष्ठादौ भस्मादितत्पर्यायस्य पावकादेरेव दर्शनात् । ततः सान्वयविनाश एव भावात् सत्त्वादेस्तत्रैव हेतुत्वमित्युपपन्नं परिणामसाधनत्वम् , अन्वयाभावाच्च । सर्वत्र तस्य तद्धतुत्वे दूषणमाह
अन्यथा ॥ शब्देऽपि साधयेत् केन तस्मान्नान्वयतो गतिः । इति ।
अन्यथा सर्वत्रेत्याद्यभावप्रकारेण शब्देऽपि न केवलं सर्वत्र साधयेत् परिणामादिकं केन न केनचित् । दृष्टान्तेऽपि विप्रतिपत्तौ तत्राप्यन्वयस्य दुर्लभत्वादिति मन्यते । 'तस्मान्नान्व- १० यतो गतिः' इत्यनन्वयोपसंहारः । तथा हि-न कचिदन्वयात् साध्यगतिः अविनाभावादेव तदुपपत्तेः । न चासावन्वय एव, कचित् सत्यपि तैस्मिन्नभावात्, अत एव न तज्ज्ञाप्योपि । नापि तन्नियतः; तदभावेऽपि भावस्योपदर्शनात् । इत्युपपन्नं 'तस्मात्' इत्यादि ।
साम्प्रतं विपक्षव्यवच्छेदेन परिणामहेतुत्वमेव सत्त्वादेविस्तरेण व्याचक्षाण आह -
सिद्धमर्थक्रियाऽसत्त्वं सर्वथाऽविचलास्मनः ॥१२७॥
निरन्वयविनाशेऽपि [ साधनं नोपचारतः] ॥ इति ।
सिद्धं निश्चितं पूर्वम् अर्थक्रियाऽसत्त्वं कार्याभावः । कस्य ? सर्वथाऽविचलात्मनः कूटस्थनित्यस्य भावस्य । न केवलं तस्यैवापि तु निरन्वयविनाशेऽपि क्षणिकैकान्तेऽपि निरन्वयो विनाशो यस्मिन्निति व्युत्पत्तेः । सत्यं वस्तुतस्तत्र तदसत्त्वम् “अशक्तं सर्वम्" [प्र० वा० २।४ ] इति वचनात् । संवृत्तिसिद्धं तु तत्सत्त्वं सिद्धमसिद्धं वा तंत्र हेतुरिति चेत्, अत्राह-साधनं नोप- २० चारतः' इति । नयुषचारोपनीतस्य हेतुत्वं ततो विनश्वरवदविनश्वरस्यापि सिद्धिप्रसङ्गात् ; ततो निराकृतमेतत्-"संवृत्यास्तु यथा तथा" [प्र० वा० २।४ ] इति । ।
ननु यर्थी नित्याद्येकान्ते अर्थक्रियाऽभावः तथाऽनेकान्तेऽपि, तस्यापि तत्कुर्वतः कुतश्चिदप्रतिपत्तेरिति चेत् ; अत्राह
__ अवश्यं पहिरन्तर्वा प्रमाणमवगच्छताम् ॥१२८॥
सिद्धमेकमनेकास्मपरिणामव्यवस्थितम् । इति ।
एकं चेतनमितरद्वा सिद्धं निश्चितम् । कीदृशम् ? अनेको नाना य आत्मा स्वभावः स एव परिणामस्तेन व्यवस्थितं लब्धात्मलाभम् । क तथा तद्व्यवस्थितम् ? बहिरन्तर्वा । वेति
१ न्याय वि० श्लो० ११११८॥ २ तस्यात-आ०, ब०, प० । ३ अन्वये । ४ तद्भावस्यापि आ०, ब०, प०।५ अविनाभावः। ६शुद्धमशुद्ध वा आ०, ब०, प० । ७ तन्न प०।८क्षणिकायेकान्ते तथा आ०, ब०,प० ।