________________
१५८ न्यायविनिश्चयविवरणे
[२।१३० समुच्चये । कथं सिद्धम् ? अवश्यं नियमेन । केषाम् ? प्रमाणमवगच्छताम् अवधारयताम् । एतदुक्तं भवति-तथाविधं वस्तु निराकुर्वतां प्रमाणमेव शरणं विना तेन विधिवत् क्वचिन्निषेधस्याप्यनवकल्पनात् । ततोऽपि यदि बहिस्तन्निराकरणं बहिर्मुखत्वं तस्य वक्तव्यम् । न च तद् अन्तर्मुखत्वमन्तरेण, "अप्रत्यक्षोपलम्भस्य" [ ] इत्यादेापत्तेः । तथा च सिद्धं तदेव ५ बहिरन्तर्मुखस्वभावद्वयाविभ्राड्भूतमेकम् अनेकात्मपरिणामव्यवस्थितम् । अन्तरेव ततस्तन्निराकरणं न
बहिः, बहिर्भावस्यैवाभावादिति चेत् ; कुत एतत् ? तत एवेति चेत् ; वक्तव्यं पुनरपि तस्य बहिर्मुखत्वम् , अन्यथा ततस्तस्यानुपपत्तेः । अन्तर्मुखत्वादेवोषपत्तौ चार्वाकस्यापि इहलोकायभिमुखात् प्रत्यक्षादेव परलोकादिप्रतिषेधोपपत्तेः, "प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥
[ ] इति प्लवेत । अन्तरपि कीदृशं वस्तु यत्र तन्निरकरणम् ! निराकारं संवेदनमिति १० चेत्; न; तस्य स्वयमेवानभ्युपगमात् । नीलाद्याकारमेवेति चेत् ; न; तस्थाप्यचितः प्रतिभासा
सम्भवात् । चित्स्वभावमपीति चेत् ; सिद्धं पुनरपि नीलादि-चैतन्यरूपतया तदेव द्विरूपमेकं वस्तु । संवेदनमेव तत्र वस्तुसत् न नीलादि तस्य भ्रान्तत्वादिति चेत् ; न ; तथापि विभ्रमेतरात्मतया द्वैरूप्यस्यानतिक्रमात् । विविक्तमेव तत् नीलादेरिति चेत्, न; तद्विवेकस्यावभासे
विभ्रमाभावापत्तेः । अनवभासे चैतन्ये ऽपि तदुपनिपातात्, अन्यथा सङ्ग्रहीतेतररूपतया द्वयात्मक१५ त्वस्यानिवारणात् । भवतु अन्तस्तत्परिणामव्यवस्था "चित्रप्रतिभासाऽप्येकैव बुद्धिः" [प्र०
वार्तिकाल० २।२१९ ] इति वचनात्, न बहिः तत्र परमाणूनामेव प्रतिक्षणक्षीणानां परस्पर विल. क्षणानाञ्च भावादिति कश्चित् । अवयवावयव्यादीनामेवेत्यपरः । तत्राह
परापरविवेकैकस्वभावपरिनिष्ठितः ॥ १२९ ॥
परमाणुरतोऽन्यो वा बहिरन्तने वुद्धयते । इति । २० परमाणुः सौगतकल्पितो न बुद्धयते नोपलभ्यते । क्व ? बहिः । कीदृशः ? परापरौ
परापरदेशकालगतौ तयोविवेको विश्लेषः स एवैकोऽसहायः स्वभावस्तेन परिनिष्ठितः समाप्तः, कथञ्चिदभेदस्थूलप्रतिभासादिति मन्यते । प्रत्यक्षपृष्ठभावी विकल्प एवायमारोपिताकारो न दर्शनम् , दर्शनं तु क्षणिकपरमाणुविषयमेवेति चेत् ; न, पृथक् तस्याप्रतिवेदनात् । अपतिविदितमपि विचारादवगम्यत इति चेत् ; न, विचारस्यानुमानादन्यस्याभावात् प्रेमाणसङ्ख्याव्यापत्तेः, अनुमानस्य च दर्शनाभावेऽसम्भवात् । दर्शनाल्लिङ्गतत्साध्यसम्बन्धप्रतिपत्तावेव तदुत्पत्तेः । अनुमानान्तरात् तत्प्रतिपत्तावनवस्थाप्रसङ्गात् । अप्रमाणाञ्च विचारात्तदवगतौ प्रमाणान्तरान्वेषणप्रयासवैफल्यात, अतिप्रसङ्गाच्च । ततः स्थितम्-'परमाणुन बुध्यते' इति । न केवलं स एव बहिर्न बुद्धयते अपि तु अतः परमाणोः अन्योऽवयव्यादिरपि वा । शब्दस्य अपि शब्दार्थत्वात् । न हि तस्यापि परस्परमेकान्तविवेकेन
१ प्रमाणतोऽपि । २ बहिर्विषयत्वम् । ३ "प्रमाणेतरसामान्यस्थिते रन्यधियो गतेः ।" इति पूर्वार्धम्-ता० टि० । ४ बौद्धः । ५ नैयायिकः। अनुमानात् पृथक् विचारस्य प्रमाणत्वे। ; लिङ्गसाध्यसम्बन्धप्रतिपत्तौ ।