________________
२।१०९]
२ अनुमानप्रस्तावः
१५९.
अन्योऽपि कथञ्चिदविवेकस्याप्यवगमात् तस्याप्यारोपितविषयत्वकल्पनायां पूर्ववदोषात् । ततो युक्तम्'अन्योऽपीति' इति । 'अन्तः' इति दृष्टान्तार्थम् -- अन्तरिव बहिरषि स तथाविधो न बुद्ध्यत इति । तन्न विपक्षे क्वचिदपि सत्त्वादिः परिणामिन्येव भावात् । तस्यापि स्वतोऽर्थक्रियासामर्थे किं सहकारिप्रतीक्षयेति चेत् ? अत्राह
अर्थस्यानेकरूपस्य कदाचित् कस्यचित् क्वचित् ॥ १३० ॥ शक्तावतिशयाधानमपेक्षातः प्रकल्प्यते ॥ इति ।
कस्यचित् चेतने (नस्य) तरस्य वा अनेकरूपस्य उक्तनीत्या नानास्वभावस्य अर्थस्य न कल्पितस्य शक्तौ अपिशब्दोऽत्र द्रष्टव्यः, स्वत एवार्थक्रियासामर्थ्ये सत्यपि तद्विशेषरूपस्य अतिशयास्याधानमपेक्षातः सहकारिणां प्रकल्प्यते प्रकर्षेण निष्पाद्यते । तच्च क्वचित्ं विसदृशपरिणामे कर्तव्ये, कदाचित् न सर्वदा, तत्परिणामस्य कदाचिदेव भावात् । यदि अर्थस्य स्वभावोऽतिशयः; तर्हि तद्धेतोरेव सिद्ध रेपेक्षया न किञ्चित् । असिद्धौ तु न तत्स्वभावत्वं सिद्धासिद्धयोर्विरुद्धधर्माध्यासेन भेदस्यैवापत्तेरिति चेत्; अत्राह
१०
3
स्वभावातिशयोधानं विरोधान्न परीक्ष्यते ॥ १३१ ॥ तत्र सिद्धमसिद्ध वा [ तस्माज्जातिर्न हेतुतः ॥ ] इति । स्वभावातिशय एवाधानम् अधीयमानत्वात्, तत् न परीक्ष्यते । कथम् ? अ १५ सिद्धमसिद्धं वा इति । कुतः ? विरोधात् परीक्षाया एवेति भावः । तथा हि-- परीक्षेयमर्थस्याने कातिशयनिराकरणार्था सती यदि स्वयमेकस्वभावैव, कथम् 'सिद्धमसिद्धं वा' इति 'भिन्नमेव न स्वभावः, इति च नानाकार परामर्शिन्यवकल्प्येत ? प्रत्याकारं तद्भेदे वा यत्सिद्धं तदनपेक्षमिति कथं सङ्कलनम् ? सत्येवानेकपरामर्शे तत्सम्भवात् । ततो युक्तं तन्निराकरणाय परीक्षायां तस्या एव विरोधात् न तदाधानं परीक्ष्यते इति । न चैवं परीक्षायां कुतश्चित् कस्यचिदुत्पत्तिरपि । तथा हि-यदि तत्सिद्धम्, किं २० हेत्वपेक्षया सिद्धस्य निराशंसत्वात् ? असिद्धं चेत्, तथापि कथं तदपेक्षणम् तस्यें वस्तुधर्मत्वात् ? इदमेव तदपेक्षणं यत्तत उत्पत्तिरिति चेत्; न; तद्रूपेण तदभावात् तस्य प्रागपि भावात् । रूपान्तरेण तूत्पत्तिस्तस्यैव स्यान्नासतः । न तस्यापि सिद्धवदसिद्धस्याप्यपेक्षा ऽयोगात् । तत्रापि 'इदमेव वा ' इत्यादिवचने परिनिष्ठापरिच्युतेः । एतदेवाह - ' तस्माज्जातिर्न हेतुत:' इति । तस्मात् परीक्षणात् जातिः जननं न हेतुतो नकारणात् कार्यस्येति शेषः । सापि मा भूदिति चेत्, किमर्थं तर्हि २५ परीक्षणम् ? तदाधानदूषणार्थमिति चेत्; व्याहतमेतत्- 'ततो न तज्जातिस्तदर्थं च तत्' इति । कल्पनयैव तादर्थ्यं तस्य न परमार्थत इति चेत्; वस्तुतस्तर्हि दूषणाभासमेतदिति कथन्न तद्वादिनो निग्रहस्थानम् ? भवतु तत्त्वतः एतद् दूषणम् भवति तस्य हेतुत्वमिति चेत्; कुत एतत् ?
•
,
१ परिणामिनोप्यर्थस्य । २ उक्तरीत्या प० । ३ - यादानं आ०, ब०, प० । ४ आदीयआ०, ब०, प० । ५ अवेक्षणस्य । ६ तद्भावा - प० । ७ दूषणमाह भासमेव तदिति - आ०, ब०, प० । ८ एवतदनन्त - आ०, ब०, प० ।