________________
[२२१३२-१३५
न्यायविनिश्चयविवरणे आनन्तरीयरूपात् सन्निधानादिति चेत्, न; अहेतावपि तदविशेषात् । तदुत्पत्तौ परीक्षणस्येव सकलजगत्क्षणस्यापि तद्भावात् , अन्यथा तदवसरे परीक्षणमात्रमेव जगन्न बहिरन्तर्वा परमिति निर्विषयमेव तद्भवेत् । ततो भवत्येव सर्वोऽपि तद्धेतुर्न देशतः । असन्निधानादिति चेत् । परीक्षणमपि न भवेत, वस्तुतस्तत्रापि देशस्याभावात् । कल्पनया भावस्य सर्वत्राविशेषात् । इदमेवाह
सन्निधानं हि सर्वस्मिन्नव्यापारेऽपि तत्समम् ॥ १३२ ॥ इति ।
सन्निधानं देशकालनैरन्तयं तत् परप्रसिद्धं समं सदृशं हेतुवत् अव्यापारेऽपि अहेतावपि, कार्यव्यापारविकलस्याव्यापारत्वात् । किं क्वचित् ? न; सर्वस्मिन् निरवशेषे हि यस्मात् 'तस्माजातिर्न हेतुतः' इति । किं सर्वथा ततो न जातिः ? नेत्याह
न चेत् स परिवर्तेत भाव एव फलात्मना । इति । १० न चेत् न यदि स परीक्षणात्मा भाव एव फलात्मना दूषणज्ञानरूपेण परिवर्तेत ।
तदात्मना परिवृत्तौ तु भवत्येव ततो जातिः, तथा विरुद्धैव परीक्षा, स्वयं फलरूपपरिवर्तिन्या तया तदाधानस्यैव व्यवस्थापनात् न तदभावस्येति मन्यते । सम्प्रति यदुक्तम्-'विनाशनियतो भावस्तत्रानपेक्षणात्' इति; तस्य विरुद्धत्वं दर्शयन्नाह
परिणामस्वभावः स्याद्भावस्तत्रानपेक्षणात् ॥ १३३ ॥ इति ।
स्पष्टमिदम् । न चैवम् 'अपेक्षातः प्रकल्प्यते' इत्यस्य व्यापत्तिः, तद्विविशेषणं (पं) प्रत्येव तदभिधानान्न तन्मात्रं प्रति । कुतः पुनर्निरन्वयविनाशस्यैव ततो न सिद्धिरिति ? अत्राह
अयमर्थक्रियाहेतुरन्तरेण निरन्वयम् । इति । ____ अयं भावोऽर्थक्रियाहेतुः कार्यकारी । कथम् ? अन्तरेण विना निरन्वयं निरन्वयविनाशं तदभावतः । ततः 'परिणाम' इत्यादिसम्बन्धः । तात्पर्यमत्र-निरन्वयविनाशे अर्थक्रियाविरहाद्भाव एव २० न किञ्चिदिति क तत्साध्यं क वा हेतुरिति ? परिणामे भावसाङ्कय कस्यचित् स्वपयायैरिव परपर्यायैरप्यविशेषात् तदापत्तेरिति चेत्, अत्राह
भेदाभेदात्मनोऽर्थस्य भेदाभेदाव्यवस्थितिः ॥१३४ ॥ लोकतो वानुगन्तव्या [ सभागविसभागवत् ] । इति ।
भेदाभेदात्मनः परिणामस्वभावस्य अर्थस्य याविमौ परात्मपर्यायापेक्षया यथाक्रमं भेदा२५ भेदौ नानात्वैकत्वे तयोर्व्यवस्थितिरसङ्करेणावस्थानमनुगन्तव्यम् । कुतः ? लोकतो वा लोकादिव ।
लोकश्चात्र प्रत्यक्षादिप्रमाणपर्यायपरिणत आत्मैव तत्त्वावस्यैव ( तत्स्वभावस्यैव ) तत्त्वावलोकनात् । निदर्शनमाह-'सभागविसभागवत्' इति । सभागः सदृशक्षणप्रबन्धसन्तानो विसभागस्तदन्यस्तयोयथा व्यवस्था लोकतस्तथा प्रकृतापि अनुगन्तव्येति । तात्पर्यमत्रापि लोकस्तावदुक्तरूपः परेणापि
१ परीक्षणम् । २ स्वतः प० । ३ तत्साध्यं साधनं क्व प० । तस्साधनं क्व ब०, मू० सा० ।