________________
२।१३६ ] २ अनुमानप्रस्ताव:
१६१ वक्तव्यः, अन्यथा सभागेतरसन्तानयोस्तद्वयवस्थायाश्चासम्भवादिति पूर्व निरूपणात् । ततस्तेन प्रकृतव्यवस्थापि तदै[2]वानुभवात् । ततस्तत्साकर्यपरिकल्पनमनात्मज्ञत्वं परस्य निवेदयतीति । 'सिद्धम्। इत्यादयो विवरणश्लोकाः । तदेवं भावधर्मविशेषव्यापिनः प्रमेयत्वादेः परिणामहेतुत्वमभिधाय साम्प्रतं . तद्विशेषाणामपि तद्धेतुत्वं तद्व्यापकस्य वचनादवगतमपि विनेयानुग्रहणा[हा]र्थं दर्शयन्नाह
सामान्यभेदरूपार्थसाधनस्तद्गुणोऽखिलः ॥१३॥ इति । ५
सामान्यभेदरूपस्य सामान्यविशेषात्मनोऽर्थस्य शब्दादेः साधनस्तद्गुणस्तस्य भावस्य गुणस्तदाश्रयी कृतकत्वादिः । किं कश्चिदेव ? न, अखिलो निरवशेषः। कुतस्तत्साधन एवायं न क्षणिकत्वादिसाधनोऽपीति चेत् ? अत्राह
अन्यथाऽनुपपन्नत्वनियमस्यात्र सम्भवात् । इति ।
सुगममिदम् । न हि क्षणिकत्वादौ हेतोस्तत्सम्भवात्त (वस्त ) थाहि-क तत्साधनम् ? १० शब्दादाविति चेत्, कुतस्तत्प्रतिपत्तिः? प्रत्यक्षादिति चेत्; न; ततो व्यतिरिक्तस्यानवगमात् । अव्यतिरिक्तस्य चाधर्मित्वं परं प्रत्यसिद्धेः । नापि तत्प्रत्यक्षगतस्यापि; वादिनं प्रत्यसिद्धेः । तथा चान्यतरं प्रति आश्रयासिद्धस्य तद्गुणस्य कथमन्यथाऽनुषपन्नत्वम् [ "अन्यथानुपपन्नत्वम् ] असिद्धस्य न सिध्यति ।" [ सिद्धिवि० द्वि० परि० ] इति न्यायात् । न तदाकारस्य धर्मित्वमपि तु तदरुप (4) कस्य बाह्यस्यैव, तस्य तदाकारादेव लिङ्गादवगमादिति चेत् , न ; उभयसाधारणस्य १५ तदाकारस्याभावात् । प्रत्यात्मनियताच्च नोभयात्तत्परिज्ञानम् ; इतरस्येतरं प्रत्यसिद्धः। यथास्वं प्रसिद्धात्तत्परिज्ञानेऽपि कथं तदर्षकत्वस्यैकत्वं कार्यभेदे भेदस्यैव कारणेऽप्युपपत्तेः ? अन्यथा सर्वस्याप्येकहेतुकत्वापत्तेः । दूरेतरदेशयोश्च धूमयोरेकत्रैव पावके लिङ्गत्वशङ्कायां न जानीमः क पावकार्थिना प्रवर्तितव्यमिति पावकदेशापरिज्ञानं निराकारज्ञानवादे । भवत्येव तत्र तत्साधनमुभाभ्यामपि तस्य प्रत्यक्षतोऽवधारणादिति चेत्, न ; तत्राप्यकारणस्याग्रहणात् । कारणमेव स तत्प्रत्य- २० क्षयोरिति चेत् ; कथमेकस्वभावात् ततः कार्यभेदः ? तथा स्वहेतोरेव तस्योत्पत्तेः, अन्यथा नानास्वभावस्याप्यपरेण तेन स्वीकारेऽनवस्थापत्तेः । स्वकारणादेव तत्स्वभावतयोत्पत्तौ नानाकार्यतयापि स्यादविशेषादिति व्यर्थमदृष्टस्य तन्नानात्वस्य कल्पनम् । तथोक्तमलङ्कारे
"यथैव कारणादेव नानाशक्तिर्भवत्यसौ । नानाकार्योऽपि किन्नेष्टः किमदृष्टं प्रकल्प्यते ॥ कार्यनानात्वदृष्टेश्च नानाशक्तिप्रकल्पना।
यदि तान्येव सन्त्वत्र स्वभावनियमोऽस्य सः ॥" [प्र० वार्तिकाल० १११६२] इति । . 'यदै ( ये ) कैव शक्तिर्भावस्य मन्त्रादिना तत्प्रतिषेधे पावकात् क्वचिदषि दाहो न भवेत्, न चैवम् , अङ्गुल्यादावदाहेऽपि काष्ठादौ तदर्शनात् । ततस्तत्र भिन्ना एव शक्तयः, 'तद्वदन्यत्रापि। इत्यत्रापि न पर्यनुयोगः, तथापि तस्य स्वहेतोरेवोत्पत्तेः । स्वकारणादेव स खलु भाव एकस्त- ३०
१ अन्यथानुपपन्नत्वनियमसम्भवः । २ प्रतिवादिप्रत्यक्ष । ३ अन्तर्बाह्योभय । ४ 'यथैककारणादेव" -प्रवार्तिकोल।
२१