________________
१६२ न्यायविनिश्चयविवरणे
[२।१३६ थोत्पन्नो यदेकशक्तिक एव मन्त्रादिरहितः सर्वत्र दाहं करोति तत्सहितस्तु विभागेनेति । तदप्युक्तं तत्रैव
"जातः स्वकरणादीदृग्येन मन्त्रादिसंयुतः । विभागात्कार्यकरणे समर्थः शक्तयो वृथा ॥ पावकस्सर्वदहने विना मन्त्रेण कारणात् ।
स एव कस्यचिद्दाहसमर्थो मन्त्रसंयुतः॥" [प्र० वार्तिकाल० ११६२ ]
इति चेत्, न; नित्यस्याप्येक (व) मेकस्वभावस्यैवानेककार्यप्रसङ्गात् । तत् सर्वमेककालमेव किन्न भवतीति चेत् ? क्षणिकादपि एकदेशं किन्न भवति ? तथा तस्य स्वभावो यदेकदेशमनेक
देशं च करोतीति चेत्; इतरस्यापि तथैव स्वभावो यदेककालमनेककालं च तत्करोति । ततो न १० कार्यभेदात् प्रतिक्षणं तद्भेदकल्पनमुपपन्नम् । तदुक्तम्
"यद्यदा कार्यमुत्पित्सुस्तत्तदोत्पादनात्मकम् ।
कारणं कार्यभेदेऽपि न भिन्नं क्षणिकं यथा ॥" [सिद्धिवि० तृ० परि०] इति । वार्तिकविरुद्धं चेदं शक्त्येकत्वकल्पनं भावानाम् । तत्र साधारणेतरभावेन शक्तिभेदस्यापि--
"रूपादिशक्तिभेदानामनाक्षेपेण वर्तते ।
तत्समानफलाहेतुव्यवच्छेदे घटश्रुतिः॥" [प्र० वा० १।१०२ ] इत्यभिधानात्, "रूपादीनां प्रतिनियतशक्तिभेदमनाक्षिप्य तेषु समानोदकधारणशक्त्याक्षेपेण घटश्रुतिः प्रवर्तते ।" [प्र. वार्तिकाल० १।१०२ ] इति स्वयं च तस्य प्रज्ञाकरेण विवरणात् । न च तदेव व्याचक्षाणस्य स्वकीयमपि विवरणपदं विस्मृत्य तद्विरुद्धं वस्तुपरिकल्पन
मुपपन्नम् ; प्रेक्षावत्त्वव्यापत्तेः । ततो नानाशक्तिरेव भावतो भावः । तथा च सिद्ध प्रस्तुतार्थसाधन२० मन्यथाऽनुपपन्नत्वं तद्गुणस्य । स्वशक्त्यभेदेन च भावस्य सामान्यभेदरूपत्वात् , युगपदिष क्रमेणापि भावस्य ताद्रप्याप्रतिक्षेपात् । तन्न क्षणिकस्य साधनं ततः ।
नापि नित्यस्य; तस्यैवापरिज्ञानात् । कालत्रयानुपाती स इति चेत्, न सकृत्तदनुपातस्तत्त्रयस्य युगपदभावात् । क्रमेणेति चेत्; सोऽपि न कालभेदः, तदनुपातादन्यस्य तस्यैवाभात् । भावे
तदनुपातोऽप्यपरेण तद्भेदेनेत्यनवस्थानप्रसङ्गात् । स्वभावभेद इति चेत्, न; कौटस्थ्येन तद१५ सम्भवात् । परिणाम इति चेत्; प्रकृतमनुपालिनं ( तम् ) । ततः स्थितम्-'सामान्यभेद' इत्यादि ।
कीदृशो वा शब्दादिर्यत्र क्षणभङ्गसाधनम् ? निष्कलपरमाणुरूष इति चेत्, न; तस्याप्रतिवेदनात् । प्रत्येकदशायामेव तस्य तन्न सञ्चयदशायामिति चेत्, न; विशेषाभावात् । सञ्चय एव विशेष इति चेत् न, तेनापि - सौक्ष्यस्यानपाकरणात् । दशान्तरेऽपि तत एव तदप्रतिपत्तेः ।
सञ्चयाभावादेव तदापि न] तत्प्रतिपत्तिर्न सौक्ष्म्यादिति चेत्; सञ्चये तर्हि सौक्ष्म्येणैव तेषां ३० प्रतिपत्तिः स्यात् तत्स्वभावत्वात्, तथा च कथमेकघटादिव्यवहारः ? विकल्पारोपितादेव स्थौल्यात् क्षणभेदव्यवहारवदिति चेत्, एतदेव दर्शयति
१ कालत्रयस्य । २ कालात् । ३. अप्रतिवेदनम् । ४ सौदम्यादेव ।