________________
२।१३६-३७] २ अनुमानप्रस्तावः
१६३ प्रत्यक्षेऽपि समानान्यनिर्णयः प्रतिरुध्यते ॥१३६॥
यथा क्षणक्षयेऽणूनाम् [ इत्यात्माप्तौ विडम्बयेत् ] इति ।
प्रत्यक्ष कल्पनापोडं ज्ञानं तस्मिन् सत्यपि । केषाम् ? अणूनां प्रतिरुध्यते बाध्यते । केन कः ? समानान्यनिर्णयः समानस्य सञ्चयगतसाधारणस्य स्थूलाकारस्य अन्यः तद्ग्राहको विकल्पः प्रत्यक्षापेक्षया तस्यैवान्यत्वात् तेन निर्णयः। स केषाम् ? अणूनाम् एतदपेक्षस्यापि ५ निर्णयपदस्य गमकत्वाद ( दा ) वृत्तिः । 'यथा' इत्यादि निदर्शनम् । अणूनां क्षणक्षयेऽपि निर्णयस्य तदेकत्वविकल्पेन प्रतिरोधात् । अत्रोत्तरमाह- 'इत्यात्माप्तौ विडम्बयेत्' इति । इति एवं ब्रुवाणो धर्मकीर्तिः आत्मानमाप्तं च सुगंतं विडम्बयेत दूषणवन्तं प्रकटयेत् । तथाहियदि तद्विकल्पेन सर्वथा तन्निर्णयः प्रतिरुद्धयते; तदा सौक्ष्म्येणे (णे) व नीलादिनापि तदभावात् निरवकाशमेवैतत्-"वस्तुस्वभावोऽयं यदनुभवः . पटीयान् क्वचिदेव स्मृतिबीजमाधत्ते ।। १० [ ] इति ; नीलादिव्यतिरेकेण तदाधानविषयस्याभावात् । ततः सिद्धमात्मविडम्बनं निविषयवचनवादात् । अथ सौक्ष्म्येणैव तत्प्रतिरोधो [ न ] नीलादिना तदा निश्चितेतरस्वभावाविरोधे स्थूलमषि रूपं सौक्ष्म्यस्याविरुद्धमिति तदालम्बना एव पञ्चापि विज्ञानकायाः स्युः । तथा चेत्; आप्तवचनमपि निविषयमेव “सश्चितालम्बनाः पञ्चविज्ञानकायाः" [ ] इति सिद्धमाप्तविडम्बनमपि । तन्नायमारोपितः स्थूलाकारः तत्प्रत्ययव्यतिरेकेण प्रत्यक्षस्याप्रतिवेदनात, १५ एकत्वाध्यवसायाच्च तत्कल्पनस्य प्रतिक्षेपात् । एतदेवाह--
अपृथग्वेद्यनियमादभिन्नाः परमाणवः ॥१३७॥ इति ।
अपृथग् अभेदेन प्रत्यक्षादिभिर्वेद्यं वेद्यत्वं भावप्रधानत्वान्निर्देशस्य, तस्य नियमाद् अवश्यम्भावाद् अभिन्नाः परस्परं कथञ्चिदव्यतिरेकिणः परमाणव इति ।
दृष्टमप्यपृथक्त्वं चेदारोपितमतात्त्विकम् ।
नीलाद्यपि तथैवेति शून्यवादो विजृम्भताम् ॥१४७५॥
अथवा यदुक्तम् -'यथा क्षणक्षये' इत्यादि; तदपनुदन्नाह-'अपृथग्' इत्यादि । अणवः सञ्चयगताः क्रमभाविनोऽभिन्नाः परस्परमव्यतिरेकिणः । कस्माद् ? अपृथक् अपृथक्त्वेन वेद्यं वेदितव्यं येन तद् अपृथग्वेद्य तदेवेदमिति प्रत्यभिज्ञानं तस्य नियमः तदभेदादन्यत्राभावस्तस्मादिति । नायं नियमः, कार्यकारणभावादपि तस्य भावादिति चेत्; न; सत्यपि तस्मिन् मुशलक- २५ पालयोरभावात् । सादृश्यादिति चेत् ; न; यमलकयोरदर्शनात् । कार्यकारणभावोपाधिकादिति चेत्, न; पितापुत्रयोरप्रतिपत्तेः । ततः कथञ्चिदेकत्वपरिणामादेव तत्, काष्ठभस्मादौ तावतैव सादृश्याभावेऽपि भावात् । वासनामात्रादेव भावान्न तन्निबन्धत्वमपीति चेत्, न; अस्खलद्रपत्वात् । न हि ताशस्य
१ "सञ्चितः समुदायः सः सामान्यं तत्र नाक्षधीः । सामान्यशुद्धिश्चावश्यं विकल्पेनानुबध्यते ॥" प्र० वा० २।१९४ । २ सुगतं च बि-प० । ३ भेदारोपित- आ०, ब०, प०। ४ प्रत्यभिज्ञाननियमः । ५ तावत्येव-आ०, ब०, प०। ६ एकत्वपरिणामनिबन्धनत्वमपि । ७ तादृश्यं न वा-पा०, ब०, प० ।